२० विद्यारम्भः

अथ विद्यारम्भः

तत्र मार्कण्डेयः ।

प्राप्ते तु पञ्चमे वर्षे अप्रसुप्ते जनार्दने ।
षष्ठीं प्रतिपदं चैव वर्जयित्वा तथाष्टमीम् ॥
रिक्तां पञ्चदशीं चैव सरभौमदिने तथा ।
एवं सुनिश्चिते काले विद्यारम्भं तु कारयेत् ॥
पूजयित्वा हरिं लक्ष्मीं देवीं चैव सरस्वतीम् ।
स्वविध्यसूत्रकारांश् च स्वां विद्यां च विशेषतः ॥
एतेषाम् एव देवानां नाम्ना तु जुयुयाद् घृतम् ।
दक्षिणाभिर् द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥
प्राङ्मुखो गुरुर् आसीनो वारुणाभिमुखं शिशुम् ।
अध्यापयेत् तु प्रथमं द्विजाशीर्भिः सुपूजितम् ॥
ततः प्रभृत्य् अनध्यायान् वर्जनीयान् विवर्जयेत् ।
अष्टमीद्वितयं चैव पक्षान्ते च दिनद्वयम् ॥
आशौच इन्द्रयात्रायां भूकम्पे राहुदर्शने ।
व्यतीपाते त्व् अहोरात्रम् उल्कापाते तथैव च ॥ इति ।

**इति स्मृतिचन्द्रिकायां विद्यारम्भः **