१९ अनुपनीत-धर्माः

अथानुपनीतधर्माः

तत्र गौतमः - “प्राग् उपनयनात् कमचारवादभक्षः” इति । कामचार इच्छागतिः । कामवादो ऽश्लीलादिभाषणम् । कामभक्षः पर्युषितदिभोजनम् । एतेषु प्राग् उपनयनान् न दोष इत्य् अभिप्रायः । तथा च विष्णुपुराणम् ।

भक्ष्याभक्ष्ये तथापेये वाच्यवाच्ये तथानृते ।
अस्मिन् काले न दोषः स्यात् स यवन् नोपनीयते ॥ इति ।

न चापेय इत्य् अनेन मद्यादिपाने न दोष इति शङ्कनीयम्, वर्जयेद् इत्य् अनुवृत्तौ, “नित्यं मद्यं ब्राह्मणः” इति गौतमस्मरणात् । नित्यग्रहणम् अनुपनीतस्यापि निषेधप्राप्त्यर्थम् । न च प्राग् उपनयनाद् ब्राह्मण्यम् एव नास्तीत्य् अपि शङ्कनीयम्,

गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।

इति मनुना ब्राह्मणस्य सत उपनयनविधानात् । एवं गौतमादिवचनं महापातकादिव्यतिरिक्तविषयम् इति मन्तव्यम् । तथा च स्मृत्यन्तरम् ।

स्यात् कामचारभक्षोक्तिर् महतः पातकाद् ऋते । इति ।

इतरत्रापि क्वचित् कमभक्षस्यपवदम् आह गौतमः - “ब्रह्मचारी अहुतात् स्यात्” इति । हुतं हुतशिष्टं चरुपुरोषाशादि । तद् अत्तीति हुतात् न हुताद् अहुतात् । यथायम् अहुतात् स्यात् । तथा चह यमः ।

वैश्वदेवं पुरोडाशम् अग्निमध्याच् च यद् धुतम् ।
यो ह्य् अद्याच् छिशुर् आकृष्य मात्रा रक्ष्यः प्रयत्नतः ॥ इति ।

वैश्वदेवं वैश्वदेवशिष्टम् । तथा कामचारस्याप्य् अपवादम् आह गौतमः - “ब्रह्मचारी” इति । यदा तु कथंचिद् गर्भाष्टमकालाद् उपनयनातिक्रमः तदापि तेन ब्रह्मचारिणा भवितव्यम् इति तस्यार्थः । न च ब्रह्मचारीत्य् एतद् ब्रह्मचारिधर्मप्राप्त्यर्थम् इति शङ्कनीयम् । यत आह वसिष्ठः ।

न ह्य् अस्य विद्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ।
वृत्त्या शूद्रसमस् तावद् यावद् वेदेन जायते ॥ इति ।

गौतमो ऽपि - “यथोपपादमूत्रपुरीषो भवति” इति । न तस्योदङ्मुखो दिवा रात्रौ दक्षिणामुख इत्यदयो नियमाः सन्तीत्य् अर्थः । एवं सर्वत्रानियमे प्राप्ते क्वचिन् नियमार्थम् आह स एव - “नास्याचमनकल्पो विद्यते” इति । कल्पः प्रकार इत्य् अर्थः । अनेनाचमननिमित्तेष्व् आचमनमात्रम् अस्तीति ज्ञायते, कल्पमात्रस्यैव निषेधात् । अत एवम् अभिधानेन अनाचान्तस्पर्शे ऽपि पित्रादेर् अशुद्धिर् नास्तीत्य् अह स एव - “न तदुपस्पर्शनाद् आशौचम्” इति । तावन्मात्रेणैव तस्य प्रयतत्वाद् इत्य् अभिप्रायः ।

नन्व् एवं तर्हि चण्डालसूतिकादिस्पृष्टस्पर्शे ऽप्य् अशुद्धिर् न स्यात् ।
मैवम्, गौतमवाक्ये चण्डालादेर् अप्रकृतत्वात्, “पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलोदकस्पर्शनाच् छुद्द्येत्” इत्य् अत्र वचोविशेषानभिधानाच् च । अतः “न तदुपस्पर्शनाद् आशौचम्” इत्य् एतत्, “न तस्याचमनकल्पो विद्यते” इति प्रकृताचमनविषयम् एवेति मन्तव्यम् । अनेनैवाभिप्रायेण आपस्तम्बो ऽप्य् आह - “आ अन्नप्राशनाद् गर्भा नाप्रयता भवन्ति । आ परिसंवत्सराद् इत्य् एके । यावता वा दिशो न प्रजानीयुः । आ उपनयनाद् इत्य् अपरम् । अत्र ह्य् अधिकारः श्रास्त्रैर् भवति” इति । अत्र ह्य् अधिकार इति हेतुबलाद् अन्ये इत्यादिपक्षत्रयं पूर्वपक्षत्वेनोपन्यस्तम् इत्य् उक्तं तद्भाष्ये । तथा शुद्ध्यन्तरण्य् आह गौतमः - “अन्यत्रापामार्जनप्रधावनावोक्षणेभ्यः” इति । अपामार्जनम् उच्छिष्टावयवानां सोदकेन पाणिना संमार्जनम् । प्रधावनं प्रक्षालनम् अमेध्यालिप्तस्य । अवोक्षणं प्रोक्षणम् अशुचिसंस्पृष्टस्य । एतेभ्यो ऽन्यत्राचमनं शुद्धिहेतुर् इत्य् अर्थः । एवम् आचमनादिभिः कृतशौचम् अपि नाग्निहोत्रादौ नियुञ्ज्यात् । तद् आह गौतमः - “न त्वे वैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात्” इति । तस्य मन्त्रहीनत्वाद् इत्य् अभिप्रायः । मनुर् अपि ।
नैव कन्या न युवतिर् नाल्पविद्यो न बालिसः ।
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्क्र्तो ऽपि च ॥ इति ।

न च मन्त्रान् ग्रहयित्वा विनियोग इत्य् आह गौतमः - “न ब्रह्माभिव्याहारेयद् अन्यत्र स्वधानिनयनात्” इति । स्वधानिनयनं प्रेतकर्म । तत्रानुपनीतस्यापि मन्त्राध्ययनम् अविरुद्धम् इत्य् अर्थः । ब्रह्मग्रहणं स्मृत्यङ्गाद्यनिषिद्धार्थम् । मनुर् अपि ।

न ह्य् अस्मिन् युज्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ।
नाभिव्याहारेयद् ब्रह्म स्वधानिनयनाद् ऋते ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अनुपनीतधर्माः