१८ स्त्रीसंस्काराः

अथ स्त्रीसंस्काराः

तत्र याज्ञवल्क्यः ।

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ।

याः जातकर्मादिचूडाकरणपर्यन्ताः क्रियास् ताः स्त्रीणां विना मन्त्रेण कार्याः । अर्वाक् पुनर् विशेषज्ञापनात् सर्वं मन्त्रेणैव । मनुर् अपि ।

अमन्त्रका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ इति ।

आवृज् जातकर्मादिक्रिया । अनेनोक्तकर्मकालातिक्रमो न कार्य इत्य् आह । अत एव तदतिक्रमे प्रयश्चित्तम् आह कात्यायनः ।

देवतानां विपर्यासे जुहोतिषु कथं भवेत् ।
सर्वप्रायस्चित्तं हुत्वा क्रमशो जुहुयात् पुनः ॥
संस्कारा अतिपद्येरन् स्वकालाच् चेत् कथंचन ।
हुत्वैतद् एव कर्तव्याः ये तूपनयनाद् अधः ॥

सर्वप्रायस्चित्तम् अपि तेनैवोक्तम् - “सर्वप्रायश्चित्तं च पञ्चभिः प्रत्यृचम् ऽत्वं नो अग्नेऽ इति द्वाभ्याम्, ऽअयाश् चाग्नेऽ, ऽये ते शतम्ऽ, ऽउद् उत्तमम्ऽ इति च” इति । उपनयनकालातिपत्तौ व्रात्यस्तोमाद्य् एव । गोबिलस् तु विशेषम् आह ।

तूष्णीम् एताः क्रियाः स्त्रीणाम् अमन्त्रेण तु होमतः । इति ।

स्त्रीणां तु विवाह एवोपनयनम् इत्य् आह मनुः ।

वैवाहिको विधिः स्त्रीणाम् औपनायनिकः स्मृतः ।
पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥ इति ।

अत्र पतिसेवा गुरुशुश्रूषा । गृहार्थो गृहकृत्यं तत्करणम् अग्निपरिचर्येति । अतश् चात्रापि प्राग् उपनयनात् कमचारवादभक्षा इत्यादि समानम् । यत् तु हारितेनोक्तम् - “द्विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योवध्वश् च । तत्र ब्रह्मवादिनीनाम् उपनयनम् अग्नीन्धनं वेधाध्ययनं स्वगृहे च भिक्षाचर्येति । सद्योवधूनां चोपस्थिते विवाहे कथंचिद् उपनयनमत्रं कृत्वा विवाहः कार्यः” इति । तत् कल्पान्तराभिप्रायम् । तथा च यमः ।

पुरा कल्पे तु नारीणां मौञ्जीबन्धनम् इष्यते ।
अध्यापनं च वेदानां सावित्रीवचनं तथा ॥
पिता पितृव्यो भ्राता व नैनाम् अध्यपयेत् परः ।
स्वगृहे चैव कन्यायाः भैक्षचर्या विधीयते ॥
वर्जयेद् अजिनं चीरं जटाधारणम् एव च । इति ।

इति स्मृतिचन्द्रिकायां स्त्रीसंस्काराः