१७ चूडाकरणम्

अथ चूडाकरणम्

तत्र मनुः ।

चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमाब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥

यमो ऽपि ।

ततः संवत्सरे पूर्णे चूडाकर्म विधीयते ।
द्वितीये वा तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ इति ।

बैजावापो ऽपि - “तृतीये वर्षे चूडाकर्म पञ्चमे वा” इति । लोगाक्षिर् अपि - “तृतीयस्य वर्षस्य बूयिष्ठो गते चूडाः कर्तव्याः” इति । चूडाः शिखाः । शौनको ऽपि - “तृतीये वर्षे चौलं यथाकुलधर्मं वा” इति । यस्मिन् कुले यथा चूडाकर्म तथैव कार्यम् इत्य् अर्थः । अत्रापि तत्तद्गृह्यानुसारेण व्यवस्था । अत्र ऋषिव्यवस्थया चूडादिनियमम् आह लोगाक्षिः - “दक्षिणतः कमुजा वासिष्ठानाम् उभयतो ऽत्रिकाश्यपानां मुण्डा भृगवः पञ्चचूडा अङ्गिरसः वाजिम् एके मङ्गलार्थाशिखिनो ऽन्ये यथाकुलधर्मं वा सुक्लपक्षस्य पुण्याहे पर्वणि वा” इति । कमुजा चूडा । वाजिः केशपङ्क्तिः । अन्ये तु शिखामात्रं यत्र क्वचन मङ्गलर्थं कुर्वन्ति । अत्र (च) जन्मप्रभृति वर्षसंख्या वेदितव्या, “जन्मनो ऽधितृतीये वर्षे चौलं पुनर्वस्योः” इत्य् आपस्प्तम्बसमरणात् । पुनर्वसुग्रहणं विहितनक्षत्रोपलक्षणार्थम् । अत एव व्यासः ।

अश्विनो श्रवणं स्वाती चित्रा पुष्यपुनर्वसू ।
धनिष्ठारेवतीज्येष्ठामृगहस्तेषु कारयेत् ॥

क्षौरम् इति शेषः । तथा निषिद्धान्य् अपि स एवाह ।

नक्षत्रे तु न कुर्वीत यस्मिन् जातो भवेन् नरः ।
न प्रोष्ठददयोः कर्यं नैवाग्नेये च भारत ॥
तिथिं प्रतिपदं रिक्तां विष्टिं चैव विवर्जयेत् ।
वारं शनैश्चरादित्यभौमानां रत्रिम् एव च ॥ इति ।

ज्योतिःशास्त्रे ऽपि ।

क्षौरे तु मासं क्षपयेद् दिनेश्वरः
शनैश्चरः सप्त कुजस् तथाष्टौ ।
आचार्यशुक्रेन्दुबुधाः क्रमेण दद्युर्
दशैकादश सप्त पञ्च ॥ इति ।

तथा केषुचिद् विषयेषु नक्षत्रे निषेधापवादो ज्योतिःशास्त्रे वर्णितः ।

नृपाज्ञया ब्राह्मणसंमतौ वा
बन्धस्य मोक्षे क्रतुदीक्षणेषु ।
विवाहकाले मृतसूतके च
सर्वेषु शस्तं क्षुरकर्म कर्यम् ॥ इति ।

इति स्मृतिचन्द्रिकायां चूडाकरणम्