अथान्नप्राशनम्
तत्र मनुः ।
षष्ठे ऽन्नप्राशनं मासि यच् चेष्टं मङ्गलं कुले ।
यमो ऽपि ।
ततो ऽन्नप्राशनं मसि षष्टे कर्षं यथाविधि ।
अष्टमे वाथ कर्तव्यं यच् चेष्टं मङ्गलं कुले ॥
लोगाक्षिर् अपि - “षष्ठे मास्य् अन्नप्राशनं जातेषु दन्तेषु वा” इति । शङ्खो ऽपि - “संवत्सरे ऽन्नप्राशनम् अर्धसंवत्सर इत्य् एके” इति । अत्रापि यथास्वगृह्यं व्यवस्था । मार्कण्डेयो ऽत्र वेशेषम् आह ।
देवतापुरतस् तस्य धात्र्युत्सङ्गगतस्य च ।
अलङ्कृतस्य दातव्यम् अन्नं पात्रे ऽथ काञ्चने ॥
मध्वाज्यकनकोपेतं प्राशयेत् पायसं तु तत् ।
कृतप्राशम् अथोत्सङ्गाद् धात्री बालं समुत्सृजेत् ॥ इति ।
अन्नप्राशनानन्तरं बालस्य जीविकापरीक्षाम् आह स एव ।
देवाग्रतो ऽथ विन्यस्य शिल्पं भाण्डानि सर्वशः ।
शस्त्राणि चैव शास्त्राणि ततः पश्येत् तु लक्षणम् ॥
प्रथमं यत् स्पृशेद् बालः ततो भाण्डं स्वयं तथा ।
जीविका तस्य बालस्य तेनैव तु भविष्यति ॥ इति ।
इति स्मृतिचन्द्रिकायां अन्नप्राशनम्