१५ कर्णवेधः

अथ कर्णवेधः

तत्र ज्योतिःशास्त्रम् ।

कार्त्तिके पौषमासे वा चैत्रे वा फाल्गुने ऽपि वा ।
कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने ॥
सुनक्षत्रे शुभे चन्द्रे सुस्थ्ये शीर्षोदये शुभे ।
दिनच्छिद्रव्यतीपातविष्टिवैधृतिवर्जितिए ॥
शिशोर् अजातदन्तस्य मातुर् उत्सङ्गवर्तिनः ।
सौचिको वेधयेत् कर्णौ सूच्या द्विगुणसूत्रया ॥
हस्तो ऽश्विनी स्वातिपुनर्वसू च तिष्येन्दुचित्रा हरिरेवती च ।
चन्द्रे ऽनुकूले गुरुशुक्रवाए कर्णौ तु वेदाव् अमरेज्यलग्ने ॥

अमरेज्यो बृहस्पतिः ।

इति स्मृतिचन्द्रिकायां कर्णवेधनम्