१४ निष्क्रमणम्

अथ निष्क्रमणम्

तत्र मनुः ।

चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् । इति ।

यस्मिन् जन्मेति शेषः । पुराणे ऽपि ।

द्वादशे ऽहनि कर्तव्यं सिशोर् निष्क्रमणं गृहात् ।
चतुर्थे मासि कर्तव्यं तथान्येषाम् मतं विभो ॥ इति ।

ततः किं कर्तव्यम् इति, शङ्ख आह ।

चतुर्थे मासि कर्तव्यं बालस्याद् इत्य् अदर्शनम् ॥ इति ।

यमो ऽपि ।

ततस् तृतीये कर्तव्यं मासि सूर्यस्य दर्शनम् ।
चतुर्थे मासि कर्तव्यं शिशोश् चन्द्रस्य दर्शनम् ॥ इति ।

लोगाक्षिर् अपि - “तृतीये मासे दर्शनम् आदित्यस्य” इति । अत्रापि यथास्वगृह्यं व्यवस्था । येषां तु शाखिनाम् अनाम्नातं तेषां तु विकल्प एव ।

इति स्मृतिचन्द्रिकयां निष्क्रमणम्