१३ नामकरणम्

अथ नामकरणम्

अत्र यमः ।

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये नक्षत्रदिवसे मुहूर्ते वा गुणान्विते ॥ इति ।

पुण्ये नक्षत्रे पुण्ये वाहनि प्रशस्ते वा मुहूर्त इत्य् अर्थः । तथा च मनुः ।

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ इति ।

जन्मप्रभृति दशम्यां नामधेयं पिता कारयेत् कुर्याद् इत्य् अर्थः । नमकरणे तस्याधिकारात् । अत एव शङ्खः - “कुलदेवतानक्षत्रादिभिः संबन्धं पिता कुर्याद् अन्यो वा कुलवृद्धः” इति । पितुर् अभावे कुलवृद्ध इति मन्तव्यम् । अत एव विष्णुपुराणम् ।

ततस् तु नाम कुर्वीत पितैव दशमे ऽहनि । इति ।

एतच् च शास्त्रान्तरोक्तकालोपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः । इति ।

भविष्यत्पुराणे ऽपि ।

नामधेयं दशम्यां तु केचिद् इच्छन्ति पार्थिवः ।
दशम्याम् अपरे रात्रौ मासे पूर्णे तथापरे ॥
अष्टादशे ऽहनि तथा वदन्त्य् अन्ये मनीषिणः । इति ।

गृह्यपरिशिष्टे ऽपि - “जनना दशरात्रे शतरात्रे संवत्सरे वा नामकरणम्” इति । शङ्खो ऽपि विसेषम् अह - “दशम्याम् उत्थाप्य पिण्डविवर्धनं पितॄणां तत्र सांनिध्यं (इति श्रुतेः) ब्रह्मणे चाहितिं पूर्वं पितॄन् अनुमान्य तद् अहर् एव नामकरणं कुर्यात्” इति । उत्थाप्य पूर्वशय्यात इति शेषः । पिण्डविवर्धनं श्राद्धम् । अत एव पारस्करः - “दशम्याम् उत्थाप्य ब्राह्मणान् भोजयित्वा पिता नाम करोति” इति । अत्रापि तत्तद्गृह्यानुसारेण व्यवस्था । मनुस् तत्स्वरूपम् आह ।

मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ इति ।

मङ्गलबलधननिन्दाप्रतिपादकान्य् एव तेषां क्रमेण नमधेयानि भवन्तीत्य् अर्थः । अत्रोपपदान्य् अपि स एवाह ।

शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ इति ।

शर्मरक्षापुष्टिप्रेष्यवाचकान्य् एतेषां क्रमेणोपपदानीत्य् अर्थः । एवं चैवं नमधेयानि भवन्ति - भद्रशर्मा, शक्तिपालः, धनपुष्टः, हीनदासः इति । यमो ऽप्य् उत्तरपदविशेषम् अह ।

शर्मा देवश् च विप्रस्य वर्मा त्राता च भूभुजः ।
भूतिर् दत्तश् च वैश्यस्य दासः शूद्रस्य कारयेत् ॥ इति ।

अत्रापि च “मङ्गल्यं ब्राह्मणस्य स्यात्” इति मनुनोक्तैः पूर्वपदैर् नमधेयानि द्रष्टव्यानि । बैजावापस् त्व् अन्यथा नामधेयम् आह - “पिता नाम करोत्य् एकाक्षरं द्व्यक्षरं त्र्यक्षरं चतुरक्षरम् अपरिमितं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तम्” इति । अयम् अर्थः - घोषवन्ति यान्य् अक्षराणि वर्गतृतीयचतुर्थानि तान्य् आदौ कार्याणि । अन्तस्था यरलवास् ते मध्ये कर्तव्याः । अभिनिष्ठानो विसर्जनीयः । एतदन्त इत्य् अर्थः । अथ वा पितामहादिनमसंबन्धं नम कुर्यात् यद् आह शङ्खः - “कुलदेवतानक्षत्राभिसंबन्धं पिता कुर्याद् अन्यो वा कुलवृद्धः” इति । स्त्रीणां पुनर् नमधेयं मनुर् आह ।

स्त्रीणां सुखोयम् अक्रूरं विस्पष्टार्थम् मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ इति ।

सुखोद्यं सुखोच्चारणम् । मङ्गल्यं मङ्गलवाचि । दीर्घवर्ण आकार ईकारो वा । अत एव पारस्करः - “अयुग्माक्षरम् आकारान्तं स्त्रियै तद्धितम्” इति । शङ्खो ऽपि - “ईकारान्तं स्त्रीणाम् एवं कृते नम्नि शुचि तत्कुलं भवति” इति ।

इति स्मृतिचन्द्रिकायां नमकरणम्