१२ जातकर्म

अथ जातकर्म

तत्र विष्णुः ।

जातकर्म ततः कुर्यात् पुत्रे जाते यथोदितम् ।

स्वगृह्य इति शेषः । ततः स्नानानन्तर्म् इत्य् अर्थः । तथा च संवर्तः ।

जाते पुत्रे पितुः स्नानं सचेलं तु विधीयते । इति ।

तच् च शीतोदकेन कार्यम् । तद् आह जाबालिः ।

किर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव वा । इति ।

एतच् च रात्राव् अपि कार्यं “जाते पुत्रे” इत् जननानन्तरम् अस्य विधानात् । अत एव वसिष्ठः ।

पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश् च दर्शने स्नानं प्रशस्तं नान्यथा निशि ॥ इति ।

यज्ञे ऽअव्भृथे । स्नानग्रहणं दानस्यापि प्रदर्शनार्थम् । अत एव व्यासः ।

रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।
नैमित्तिकं तु कुर्वीत स्नानं दानं च रात्रिषु ॥ इति ।

तद् अपि नैमित्तिकदानम् इत्य् आह स एव ।

ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु च ।
दानं नैमित्तिकं ज्ञेयं रात्राव् अपि अन् दुष्यति ॥
पुत्रजन्मनि यात्रायां शर्वर्यां दत्तम् अक्षयम् । इति ।

रात्रिस्नाने तु विशेषम् अह् साङ्ख्यायनः ।

दिवा यद् आह्र्तं तोयं कृत्वा स्वर्णयुतं तु तत् ।
रात्रिस्नाने तु संप्राप्ते स्नायाद् अनलसंनिधौ ॥ इति ।

जातकर्म च नाभिवर्धनात् प्राग् एव कार्यम् । तद् आह मनुः ।

प्राङ् नाभिवर्धनात् पुंसां जातकर्म विधीयते । इति ।

नाभिवर्धनं नाभिच्छेदनम् । हारीतो ऽपि तम् एवार्थं सहेतुकम् आह - “प्राङ् नाभिच्छेदनात् संस्कारपुण्यार्थान् कुर्वन्ति । छिन्नायाम् आशौचम्” इति । संस्कारो जातकर्म । पुण्यार्थान् दानानि । जैमिनिर् अपि ।

यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥ इति ।

यत् तु विष्णुधर्मोत्तरे,

अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि ।
आशौचोपरमे कार्यम् अथ वा नियतात्मभिः ॥

इति, तद् द्रव्यविप्रकर्त्राद्यभावे वेदितव्यम् । अत एव जाबालिः ।

जन्मनो ऽनन्तरं कार्यं जातकर्म यथाविधि ।
दैवाद् अतीतकालं वेद् अतीते सूतके भवेत् ॥ इति ।

श्राद्धम् एतद् आमद्रव्येण कार्यम् । यद् आह प्रचेताः ।

स्त्री शुद्रः (?) स्वपचश् चैव जातकर्मणि वाप्य् अथ ।
आमश्राद्धं तथा कुर्याद् विधिना पार्वणेन तु ॥ इति ।

स्वपचः स्वयंपच इत्य् अर्थः । सत्यव्रतो ऽपि - “पुत्रजन्मनि नाभिकर्तनात् पूर्वं कृतजातकर्मा श्राद्धं कुर्यात्” इति । यत् पुनर् व्यासेनोक्तम्,

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥ इति ।

तद् आमद्रव्याभावे द्रष्टव्यम् । अतो ऽस्य हीनत्वाद् द्रव्यम् अत्र भोज्यं विवक्ष्यते । द्विजः भोक्ता । आदिपुराणे तु जातश्राद्धे पक्वान्ननिषेधो दर्शितः ।

जातश्राद्धे न दद्याद् वै पक्वान्नं ब्राह्मणेष्व् अपि ।
यस्माच् चान्द्रयनाच् (?) छुद्दिस् तेषां भवति नान्यथा ॥ इति ।

कुमारजन्मदिने प्रकृत्याह हारीतः ।

जाते कुमारे पितॄणाम् आमोदात् पुण्यं तदाहः । इति ।

आमोदो हर्षः । पुण्यं दानादिकर्मणि प्रशस्तम् इत्य् अर्थः । अत एवादिपुराणम् ।

देवाश् च पितरश् चैव पुत्रे जाते द्विजन्मनाम् ।
आयान्ति तस्मात् तद् अहः पुण्यं पूज्यं च सर्वदा ॥
तत्र दद्यात् सुवर्णं तु भूमिं गां तुरगं रथम् ।
छत्रं छागं वस्तमाल्यं शयनं चासनं गृहम् ॥ इति ।

प्रतिग्रहश् च नाभ्याम् अच्छिन्नायाम् । तद् अर्वाक् क्रियमाणो न दोषायेत्य् आह शङ्खः - “कुमारप्रसवे नाभ्याम् अच्छिन्नायां गुडतिलहिरण्यवस्त्रगोधान्यप्रतिग्रहेष्व् अदोषस् तद् अहर् इत्य् एके गुर्वर्थं कुर्वता” इति । वृद्धमनुर् अपि ।

जाते कुमारे तद् अहः कामं कुर्यात् प्रतिग्रहम् ।
हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम् ॥ इति ।

वृद्धयाज्ञवल्क्यो ऽपि ।

तत्र सर्वं प्रतिग्राह्यं कृतान्नं तु विवर्जयेत् ।
भक्षयित्वा तु तन् मोहाद् द्विजश् चान्द्रायणं चरेत् ॥ इति ।

एतच् च प्रतिग्रहविधानं सकुल्यानाम् एव । तद् आह शङ्खः - “सर्वेषां सकुल्यानां द्विपदचतुष्पदधान्यहिरण्यादि दद्यात्” इति । एतच् चाशौचमध्ये ऽपि कार्यम् । तद् आह प्रजापतिः ।

आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस् तात्कलिकी शुद्धिः पूर्वाशौचेन शुध्यति ॥ इति ।

इति स्मृतिचन्द्रिकायां जातकर्म