३९ विधवानियोजनम्

अथ विधवानियोजनम्

तत्र मनुः ।

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥

स्त्रिया श्वशुरादिभिर् नियुक्तया देवराद् भर्तुर् ज्येष्ठात् कनिष्ठाद् वा तदभावे सपिण्डाद् वाभिलषिता प्रजा पुंस्त्वलक्षणा तयोत्पादनीयेत्य् अर्थः । याज्ञवल्क्यो ऽपि ।

अपुत्राम् गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥

पुत्रकाम्यया तस्या इति शेषः, अन्यथा नियोगनिषेधात् । तथा च यमः ।

नाकामा संनियोज्या स्यात् पुत्रकामां नियोजयेत् । इति ।

न चापुत्रायाः स्वर्गाद्यभावेन पुत्रकामनया भवितव्यम् इति शङ्कनीयम्,

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥

इति स्मरणात् । पुत्रो ऽप्य् एक एवोत्पादनीयो न द्वितीयः । तद् आह मनुः ।

विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥

केचिद् एकपुत्रो ऽप्य् अपुतसम एवेति नियोगार्थानिष्पत्तिं मन्यमानाः पुत्रान्तरोत्पत्ति मन्यन्ते । तद् अपि तेनैवोक्तम् ।

द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस् तयोः ॥

अत्र गमनविधिम् आह यमः ।

ऋतौ तु तस्यां स्नातायां वाग्यतो ऽस्तमिते निशि ।
न स्पृशन् नखरोमाणि गन्धस्पर्शाव् अवेदयन् ॥
एक एव घृताक्ताङ्गो दुर्गन्धाह् शोकदुर्मनाः ।
मुखान् मुखं परिहरन् गात्रैर् गात्राण्य् असंस्पृशन् ॥
यतात्मा गर्भम् आदध्याद् गर्भे दत्ते त्व् अपव्रजेत् ।

अपव्रजेत् पुनर् न गच्छेद् इत्य् अर्थः । अत एव याज्ञवल्क्यः ।

आ गर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजो ऽस्य भवेत् सुतः ॥

अस्य पूवपरिणेतुर् इत्य् अर्थः । यत् पुनर् मनुनोक्तम्,

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यअस्मिन् विनियुञ्जाना धर्मं हतुः सनतनम् ॥

इति, तद् अपि स्मृत्यन्तरे,

न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ।

इति, तत् कलौ निषेधपरम् इत्य् अविरोधः । अत एव क्रतुः ।

देवरान् न सुतोत्पत्तिर् दत्ता कन्या न दीयते ।
पुराकल्पः स यद्वच् च विधवाया नियोजनम् ॥ इति ।

इति स्मृतिचन्द्रिकायां विधवानियोजनम्