३७ समावर्तनम्

अथ समावर्तनम्

तत्र दक्षः ।

स्वीकरोति यदा वेदं चरेद् वेदव्रतानि च ।
ब्रह्मचारी भवेत् तावद् ऊर्ध्वं स्नातो गृही भवेत् ॥

व्रतानि ब्रह्मचर्यम् । वेदस्वीकरणं वेदार्थविचारस्यापि प्रदर्शनार्थम् । अत एव स्मृत्यन्तरं - “वेदम् अधीत्य छन्दोविषयान् अर्थान् बुध्वा स्नायात्” इति । लघुव्यासो ऽपि ।

ऋक्पादम् अप्य् अधीत्यातो न्यायतस् तु तदर्थवित् ।
सम्यग् व्रतानि संसेव्य समावर्तनम् अर्हति ॥ इति ।

न्यायतो गुरुमुखावेक्षणाद्युक्तन्ययेनेत्य् अर्थः । एतच् च समुच्चयसंपदनसमर्थविषयम् । अथ वा व्रतमात्रसमाप्ताव् अपि स्नानं भवत्य् एव । तद् आह याज्ञवल्क्यो ऽपि ।

गुरवे तु वरं दत्वा स्नायाद् वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥

पूर्वोक्तन्यायेन वेदं व्रतान्य् उभयं वा पारं नीत्वा समाप्य गुरवे वरम् अभिलषितं दत्वा समावर्तेतेत्य् अर्थः । एतेन स्नातकत्रैविध्यं प्रतिपदितं भवति । यद् आह हारीत - “त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातकश् च” इति । यः समाप्य वेदम् असमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यस् तु समाप्य व्रतान्य् असमाप्य वेदं स व्रतस्नातकः । यः पुनर् उभयं समाप्य स्नाति स विद्याव्रतस्नातक इति । एवं च व्रतस्नातकस्य् परिणयनोत्तरकालम् अध्ययनसमापनं तदर्थज्ञानं चेति मन्तव्यम् । यत् तु,

गुरुशुश्रूषया विद्यां संप्राप्य विधिवद् द्विजः ।
स्नायीत गुर्वनुज्ञातो दत्वास्मै दक्षिणा हि गाम् ॥

इत्य् व्यासेन गोदानम् उक्तम्, तद् अपि प्रीतिसाधनद्रव्योपलक्षणार्थम् । अत एव मनुः ।

क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपानहम् अन्ततः ।
धान्यं वासांसि शाकं वा गुरवे प्रीतिम् आहरेत् ॥

अनेन सति संभवे प्रकृष्टम् एव देयम् इत्य् उक्तं भवति । अत एव लघुहारीतः ।

एकम् अप्य् अक्षरं यस् तु गुरुः शिष्ये निवेदयेत् ।
प्र्थिव्यां नास्ति तद् द्रव्यं यद् दत्वा त्व् अनृणी भवेत् ॥

एतच् च दक्षिणादानम् आश्रमान्तरप्रवेशे ऽपि वेदितव्यम् । तथा च नृसिंहपुराणम् ।

गुरवे दक्षिणां दत्वा स यम् इच्छेत् तद् आवसेत् । इति

यस्य पुनर् दक्षिणादानसामर्थ्यं नास्ति तस्य तदनुज्ञायां स्नानम् । तथा च गौतमः - “विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः । क्र्त्वानुज्ञातस्य वा स्नानम्” इति । विद्यान्ते गुरुम् अर्थेन हेतुना निमन्त्र्य प्रष्टव्यम् “को ऽर्थस् तुभ्यं मया दातव्यः” इति । तम् अर्थम् आचार्याय दत्वा स्नायात् । अशक्तस् तदनुज्ञया वेत्य् अर्थः । “विद्यान्ते दद्यात्” इत्य् अनेन पूर्वं निषेधम् आह । अत एव मनुः ।

न पूर्वं गुरवे किंचिद् उपकुर्वीत धर्मवित् ।
स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥

एतद् अपि भृतिप्रदानाभिप्रायम्, इतरस्यानिषेधात् । अत एव यमः ।

यतो धर्मागमो न स्यान् न शुश्रूषाधनागमौ ।
विद्यया सह मर्तव्यं न विद्याम् ऊषरे वपेत् ॥ इति ।

**इति स्मृतिचन्द्रिकायां समावर्तनम् **