३६ आश्रमसमुच्चयविकल्पौ

अथाश्रमसमुच्चयविकल्पौ

तत्र समुच्चयं प्रकृत्याह मनुः ।

ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥
सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः ।
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥

गृहस्थप्रभवास् तदुपजीविन इत्य् अर्थः । क्रमश इत्य् अनेनाश्रमप्रातिलोम्यं प्रतिषिद्धम् इत्य् आह । अत एव दक्षः ।

त्रयाणाम् आनुलोम्यं स्यात् प्रातिलोम्यं न विद्यते ।
प्रातिलोम्येन यो जाति न तस्मात् पापकृत्तमः ॥ इति ।

अत एव मृतभार्येण पुनर् विवाहासामर्थ्ये न ब्रह्मचारिणा भवितव्यम् इत्य् आह स एव ।

यो गृहाश्रमम् आस्थाय ब्रह्मचारी भवेत् पुनः ।
न यतिर् न वनस्थश् च स सर्वाश्रमवर्जितः ॥ इति ।

आपस्तम्बो ऽपि समुच्चयम् एवाह - “चत्वार आश्रमाः गार्हस्त्यम् आचार्यकुलं मौनं वानप्रस्थ्यम् इति । तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति” इति । पुराणे ऽपि ।

ब्रह्मचारी गृहस्थश् च वानप्रस्थश् च भिक्षुकः ।
अप्रमत्तो भवान् येन मा गाः (?) पुत्र कुवर्त्वमा ॥

जाबालिश्रुतिस् तु चतुर्णां त्रयाणां द्वयोर् वा समुच्चयम् आह - “ब्रह्मचर्यं परिसमाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत् । गृहाद् वा वनाद् वा” । मनुस् तु सकलसमुच्चये कालव्यवस्थाम् आह ।

चतुर्थम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजः ।
द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥
वनेषु तु विहृत्यैवं तृतीयं भागम् आयुषः ।
चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥

“शतायुर् वै पुरुषः” इति श्रुत्यभिहितायुश्चतुर्थो भागः पञ्चविंशतिवर्षाणीत्य् अर्थः । एवं कुर्वतः फलम् आह हारीतः ।

अनेन विधिना यो हि आश्रमान् उपसेवते ।
स सर्वलोकान् निर्जित्य ब्रह्मलोकाय कल्पते ॥ इति ।

यत् तु गौतमेनोक्तम्, “ऐकाश्रम्यं त्व् आचर्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्य” इति, तद् गार्हस्थ्यस्य श्रैष्ठ्यप्रतिपादनपरम्, इतरेषाम् अपि, “ब्रह्मचर्यं परिसमाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजेत्,” “अष्टमे वर्षे ब्राह्मणम् उपनयीत,” इत्यादिप्रत्यक्षश्रुतिविहितत्वेनाविशेषात् । अत एव वसिष्ठः ।

गृहस्थ एव यजते गृहस्थस् तप्यते तपः ।
चतुर्णाम् आश्रमाणां च गृहस्थश् च विशिष्यते ॥

मनुर् अपि ।

सर्वेषाम् अपि चैतेषां वेदस्मृतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥

वसिष्ठस् तु चतुर्णाम् आश्रमाणां विकल्पम् आह - “चत्वार आश्रमा ब्रह्मचारिगृहस्थवानप्रथपरिव्राजकाः । तेषां वेदम् अधीत्य वेदौ वा वेदान् वा ऽविशीर्णब्रह्मचर्यो यम् इच्छेत् तम् आवसेत्” इति । वेदं वेदौ वेदान् वेति फलभूयस्त्वाभिप्रायम् । वेदम् अधीत्याविप्लुतब्रह्मचर्यस् तेषाम् आश्रमाणां मध्ये यम् इच्छेत् तम् आवसेत् आश्रयेत् तत्रैव निष्ठां यायाद् इत्य् अर्थः । भविष्यत्पुराणे ऽपि ।

गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम् ।
ब्रह्मचर्येण वा कालं नयेत् संकल्पपूर्वकम् ॥
वैखानसो वापि भवेत् परिव्राड् अथ वेच्छया।

गौतमो ऽपि - “तस्याश्रमविकल्पम् एके ब्रुवते” इति । उशनसाप्य् उक्तम् ।

आचार्येणाभ्यनुज्ञातश् चतुर्णाम् एकम् आश्रमम् ।
आ विमोक्षाच् छरीरस्य सो ऽनुतिष्ठेद् यथाविधि ॥ इति ।

एवं च यस्य समुच्चयानुष्ठानसामर्थ्यं नास्ति तस्यायं विकल्प इत्य् मन्तव्यम् । आ विमोक्षाद् अनुतिष्ठेद् इत्य् अनेन आश्रमिना स्थातव्यम् इत्य् आह । अत एव दक्षः ।

अनाश्रमी न तिष्ठेत दिनम् एकम् अपि द्विजः ।
आश्रमेण विना तिष्ठन् प्रायश्चित्ती यतो हि सः ॥
जपे होमे तथा दाने स्वाध्याये वा रतः सदा ।
नासौ फलम् अवाप्नोति कुर्वाणो ऽप्य् आश्रमाच् च्युतः ॥

हारीतो ऽपि ।

अनाश्रमी व्यपेतश् च आश्रमी च निरर्थकः ।
मिथ्याश्रमी च सर्वे वै निरयं यान्ति मानवाः ॥ इति ।

एतच् चाश्रमचतुष्टयं ब्राह्मणादिवर्णत्रस्य वेदितव्यम् । अत एव कल्पानां सूत्रकारः - “त्रयाणां वर्णानां चत्वार आश्रमाः” इति । एवं च यद् उक्तं मनुना,

एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।

इति, तद् द्विजात्युपलक्षणार्थम् इति मन्तव्यम् ।

इति स्मृतिचन्द्रिकायाम् आश्रमनिर्णयः