२५ मान्यत्वनिमित्तानि

अथ मान्यत्वनिमित्तानि

तत्र याज्ञवल्क्यः ।

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् ।

विद्या श्रुतिस्मृती । कर्म विहितक्रिया । वय आत्मनो ऽतिरिक्तम् । बन्धुः स्वजनसंपत्तिः । वित्तं धनम् । एतैर् युक्ताः क्रमेण मान्या वेदितव्याः । पूर्वं पूर्वं गरीय इत्य् अर्थः । तथा च मनुः ।

वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ॥

मान्यस्थानानि मान्यत्वनिमित्तानीत्य् अर्थः । एतेभ्यो वित्तदिभ्यः श्रुतं गरीयः तस्य दृष्टादृष्टमूलत्वात् । तद् आह गौतमः - “श्रुतं तु सर्वेभ्यो गरीयस् तन्मूलत्वाद् धर्मस्य” इति । एतैर् वित्तादिभिर् युक्तो हीनजातिर् अप्य् उत्कृष्टजतिवन् मान्य इत्य् आह मनुः ।

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युर्ः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥

वर्षशतस्यान्तिमो भागो दशमी । नवतिहायनातीत इत्य् अर्थः । एतच् च वार्धकं वित्तादियोगोपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

एतैः प्रभूतैः शूद्रो ऽपि वार्धके मानम् अर्हति । इति ।

वित्तादिराहित्ये ऽपि केषांचित् पथो दानेन मानम् आह मनुः ।

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥

चक्री शाकतिकः । स्नातकः कृतसमावर्तनः । वरो विवाहोद्यतः । एतेषां पथि मिलितानां पन्था देयः मार्गाद् अपसर्तव्यम् इत्य् अर्थः । यदा तु तेषाम् एव मेलनं मार्गे पथो दानेन स्नातकराजानौ मान्यौ । तद् आह स एव ।

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।

तयोश् च मेलने स्नातक एव राज्ञा माननीय इत्य् आह स एव ।

राजस्नातकयोर् एवं स्नातको नृपमानभाक् ।

याज्ञवल्क्यो ऽपि ।

वृद्धभारिनृत्पस्नातस्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस् तेषां मान्यः स्नातस् तु भूपतेः ॥

वृद्धग्रहणं बालादेर् अपि प्रदर्शनार्थम् । अत एव पथा देय इत्य् अनुवृत्तौ शङ्खः - “बालवृद्धमृतोपहतदेहभाराक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः” इति । स्त्री चात्र गर्भिणी वेदितव्या । तथा च बोधायनः ।

वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ।
पन्था देयो ब्राह्मणाय गवे राज्ञे ह्य् अचक्षुषे ॥ इति ।

इति स्मृतिचन्द्रिकायां मान्यत्वनिमित्तानि