२४ अभिवादनम्

अथाभिवादनम्

तत्र याज्ञवल्क्यः ।

ततो ऽभिवादयेद् विद्वान् असाव् अहम् इति ब्रुवन् ।

ततो ऽग्निकार्याद् अनन्तरम् इत्य् अर्थः । असाव् इत्य् अस्य स्थाने स्वं नाम कीर्तयेत् । तथा च मनुः ।

अभिवादनात् परं विप्रो ज्यायांसम् अभिवादयन् ।
असौ नामाहम् अस्मीति स्वं नाम परिकीर्तयेत् ॥

अभिवादात् “अभिवादये” इत्य् अस्य शब्दस्योपरि देवदत्तनामाहम् अस्मीति स्वनाम ब्रूयात् । अस्योपरि भोःशब्दो ऽपि कीर्तनीयः । तद् आह स एव ।

भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने । इति ।

एवं सत्य् एवां प्रयोगो भवति “अभिवादये देवदत्तनामाहम् अस्मि भो” इति । तत्र आपस्तम्बः - “दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयीतोरःसमं राजन्यो मधसमं वैश्यो नीचैः शूद्रः प्राञ्जलिः” इति । एतच् च हस्तद्वयेन कार्यम् अन्यथा दोषश्रवणात् । तथा च विष्णुः ।

जन्मप्रभृति यत् किंचिच् चेतसा धर्मम् आचरेत् ।
सर्वं तन् निष्फलं याति एकहस्ताभिवादनात् ॥

एतद् अपि विद्वद्विषयम् । यद् आह स एव ।

शिष्याणाम् आशिषं दद्यात् पद्माकारौ गुरोर् अथ ।
अजाकर्णेन विदुषां मूर्खाणाम् एकपाणिना ॥

पद्माकारौ व्यत्यस्ताव् इत्य् अर्थः । अत्रिर् अपि ।

दक्षिणं पाणिम् उद्धृत्य प्राकारम् अभिवादयेत् ।
श्रोत्रिये त्व् अञ्जलिः कार्यः पादोपग्रहणं गुरोः ॥ इति ।

ब्राह्मणसमवाये त्व् अभिवादनक्रमम् आह मनुः ।

लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा ।
आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥ इति ।

एतच् च प्रत्युत्थाय कार्यम्, “सर्वत्र प्रत्युत्थायाभिवदनम्” इत्य् आपस्तम्बस्मरणात् । मनुर् आपि ।

ऊर्ध्वं प्राणा ह्य् उत्क्रमन्ति (?) यूनः स्थविर आगते ।
प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥

एतच्छीलस्यायुरादयो ऽपि विवर्धन्त इत् स एवाह ।

अभिवादनशीलस्य नित्यवृद्धोपसेविनः (?) ।
चत्वारि तस्य वर्धन्ते आयुर् विद्या यशो बलम् ॥ इति ।

अभिवादितेन यद् वदितव्यं तद् अपि मनुर् एवाह ।

आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥

अकार इत्य् एतन् नाम्नो ऽन्तस्वरोपलक्षणार्थम्, नाम्नः सर्वत्राकारान्तत्वनियमाभावात् । अतश् चाभिवादकनाम्नो ऽन्ते यो ऽयम् अकाराद्यः स्वरः पूर्वाक्षरः स एव प्लुतः कार्यः । न पुनर् अपूर्वो ऽकारो नाम्नो ऽन्ते विधीयते । पूर्वाक्षरत्वं च पूरम् अक्षरं यस्य स पूर्वाक्षर इति । वसिष्ठो ऽपि - “आमन्त्रिते स्वरो ऽन्त्यो ऽस्य प्लुतः” इति । आमन्त्रिते कर्तव्ये ऽभिवादकनाम्नो ऽन्ते यः स्वरः स प्लुतो भवति त्रिमात्रो भवतीत्य् अर्थः । एवं चैवं प्रयोगो भवति “आयुष्मान् भव सौम्य देवदता” इति । ये तु नामसंबन्धं प्रत्यभिवादनं न जानते तान् अभिवादयन् “अहं भो” इति ब्रूयात् । सर्वाः स्त्रियश् च । तथा च मनुः ।

नामधेयस्य ये केचिद् अभिवादं न जानते ।
तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥ इति ।

यस् तु प्रत्यभिवादनस्वरूपम् एव न जानाति नासाव् अभिवाद्य इत्य् आह स एव ।

यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥ इति ।

यः पुनर् जानन्न् अपि प्रत्यभिवादनादि न करोति तस्य दोषो भविष्यत्पुराणे दर्शितः ।

अभिवादे कृते यस् तु न करोत्य् अभिवादनम् ।
आशिषं वा न कुरुते स याति नरकं ध्रुवम् ॥
अभिवादे कृते यस् तु तं विप्रं नाभिवदयेत् ।
श्मशाने जायते वृक्षो गृध्रकाकोपसेवितः ॥ इति ।

यमो ऽपि ।

अभिवादे तु यः पूर्वम् आशिषं न प्रयच्छति ।
यद् दुष्कृतं भवेत् तस्य तस्माद् भागं प्रपद्यते ॥
तस्मात् पूर्वाभिभाषी स्याच् चण्डालस्यापि धर्मवित् ।
सुरां पिबेति वक्तव्यम् एवं धर्मो न हीयते ॥ इति ।

आशिषम् अपि स एवाह ।

स्वस्तीति ब्राह्मणो ब्रूयाद् आयुष्मान् इति भूमिपः ।
वर्दताम् इति वैश्यस् तु शूद्रस् तु स्वागतं वदेत् ॥

एतच् च सर्ववर्णसाधारणम् । तथा च भविष्यत्पुराणे ।

ब्राःमणः सर्ववर्णानां स्वस्ति कुर्याद् इति स्थितिः ।

स्वस्तिशब्दार्थम् अपि यम एवाह ।

यत् सुखं त्रिषु लोकेषु व्याधिव्यसनवर्जितम् ।
यस्मिन् सर्वे स्थिताः कामाः सा स्वस्तीत्य् अभिसंज्ञिता ॥

एतच् चाभिवादनम् अधिकवयसाम् एव कार्यम्, “ज्यायांसम् अभिवादयेत्” इति मनुस्मरणात् । अत एव चर्त्विगादीनां मान्यत्वे ऽपि कनीयसाम् अनभिवाद्यत्वम् आह गौतमः - “ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीससां प्रत्युत्तानम् अनभिवाध्याः” इति । यत् तु वसिष्ठेनोक्तम्, “ऋत्विक्श्वशुरपितृव्यमातुलान् अवरवयसः प्र्त्युत्तायाभिवदेत्” इति, तद् अप्य् अभिवदेद् आभिमुख्येन वदेद् इत्य् अभिभाषणमात्राभिप्रायम् । अत एव बोधायनः - “ऋत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसां प्रत्युत्थायाभिभाषणम्” इति । अभिभाषणे ऽपि नियमम् आह मनुः ।

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुम् अनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥ इति ।

आपस्तम्बो ऽपि - “कुशलम् अवरवयसं वयस्यं वा पृच्छेत्” इति । वयस्यश् समानवयाः । एतद् अपि श्रोत्रियविषयम्, यद् आह स एव, “नासंभाष्य श्रोत्रियं व्यतिक्रमेद् अरण्ये च स्त्रियम्” इति । स्त्रीसंभाषणे ऽपि नियमम् आह मनुः ।

परपत्नी तु या स्त्री स्याद् असंबन्धा च योनितः ।
तां ब्रूयाद् भवतीत्य् एव सुभगे भगिनीति वा ॥

एवं च कनीयसि वयस्ये वाभिभाषणमात्रम्, ज्यायस्यभिवादनम् इति मन्तव्यम् । तत्र ज्यायस्त्वं कियता कालेन भवतीत्य् अपेक्षिते मनुर् आह ।

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥

समानपुरनिवासिनां दशभिर् वर्षैः पूर्वः सखा भवति । ततो ऽधिको ज्यायान् । कलाभृतां गीतनृत्यादिविद्यावतां पञ्चाब्दपूर्वः सखा । श्रोतिर्याणां वेदाध्यायिनां त्र्यब्दपूर्वः सखा भवति । ततो ऽधिको ज्यायान् । स्वयोनिषु भ्रात्रादिषु स्वल्पेनापि वयसा पूर्वः सखा भवति । ततो ऽधिको ऽप्य् अभिवाद्य इत्य् अर्थः । एतच् च ब्राह्मणविषयम् । यद् आह मनुः ।

ब्राह्मणं दशवर्षं तु सतवर्षं तु भूमिपं ।
पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥

अतो ब्राह्मण एवाभिवाद्य इत्य् अभिप्रायः । अत एव शातातपः ।

अभिवाद्यो नमस्कार्यः सिरसा वन्द्य एव च ।
ब्राह्मणः क्षत्रियाद्यैस् तु श्रीकामैः सादरं सदा ॥
नाभिवाद्यास् तु विप्रेण क्षत्रियाद्याः कदाचन ।
ज्ञानकर्मगुणोपेता यद्य् अप्य् एते बहुश्रुताः ॥ इति ।

अत एव क्षत्रियाद्यभिवादने प्रायश्चित्तम् अप्य् आह स एव ।

क्षत्रं वैश्यं वाभिवाद्य प्रायश्चित्तं कथं भवेत् ।
ब्राह्मणानां दशाष्टौ च अभिवाद्य विशुध्यति ॥
अभिवाद्य द्विजः शूद्रं सचेलं स्नानम् आचरेत् ।
ब्राह्मणानां शतं सम्यग् अभिवाद्य विशुध्यति ॥
अर्चयेत् पुण्दरीकाक्षं देवं वापि त्रिलोचनम् ।
ब्राह्मणं वा महाभागम् अभिवाद्य विशुध्यति ॥

ब्राह्मणेष्व् अपि क्वचित् क्वचिद् अभिवादस्यापवादम् आह विष्णुः ।

सभासु चैव सर्वासु यज्ञे राजगृहेषु च ।
नमस्कारं प्रकुर्वीत ब्राह्मणान् नाभिवादयेत् ॥

गुर्वादिविषये त्व् अभिवादन एव विशेषम् आह गौतमः - “गुरोः पादोपसंग्रहणं प्रातः” इति । गुरुर् अत्राचार्यः । यतः स एवाह - “मातृपितृतद्वधूनां पूर्व्जानां विद्यागुरूणां तद्गुरूणां च” इति । पूर्वजा ज्येष्ठभ्रातरः । विद्यागुरव उपाध्यायाः । तद्गुरवो मात्रादिगुरवः । एतेषाम् अपि पादोपसंग्रहणं कार्यम् इत्य् अर्थः । पादोपसंग्रहणं पादस्पर्शनम् । तत्प्रकारम् आह मनुः ।

व्यस्त्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥

सव्यदक्षिणाभ्यां पाणिभ्यां गुरोः सव्यदक्षिणपादौ स्पृशेद् इत्य् अर्थः । अत्र विशेषम् आह पैठीनसिः - “उत्तानाभ्यां हस्ताभ्यां दक्षिणेन दक्षिणं सव्येन सव्यं पादाव् अभिवादयेत्” इति । बोधायनो ऽपि - “श्रोत्रे संस्पृश्य” इति । उपसंग्रहणम् इति शेषः । एतच् च गुरुपत्नीनाम् अपि कार्यम् । तद् आह मनुः ।

गुरुवत् प्रतिपूज्याः स्युः सवर्णगुरुयोषितः ।
असवर्णास् तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥

एवं भ्रातृभार्या अप्य् उपसंग्राह्याः । तद् आह स एव ।

भ्रातृभार्योपसंग्राह्या सवर्णाहन्य् अहन्य् अपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धयोषितः ॥ इति ।

एवम् अविशेषेणोपसंग्रहणे प्राप्ते क्वचिद् अपवादम् आह स एव ।

गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥

अत्र हेतुम् आह स एव ।

अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः ।
प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥

विद्वांसम् अविद्वांसं वा स्त्रियः कामादिवशगम् उत्पथं नेतुं यतो ऽलं समर्था इत्य् अर्थः । अतः ।

कामं तु गुरुपत्नीनां युवतीनां युव भुवि ।
विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥
विप्रस् तु पादग्रहणम् अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥

अत्राभिवादनविधानम् आह आपस्तम्बः - “न सोपानद्वेष्टितशिरा अवहितपाणिर् वाभिवादयीत” इति । अवहितपाणिर् अप्रसारितपाणिः । प्रचेतसाप्य् उक्तम् - “सोपानत्कस् त्व् आचमनशयनयानारोहणाभिवादननमस्कारादीन् वर्जयेत्” इति । शङ्खो ऽपि - “नोदकुम्भहस्तो ऽभिवादयेन् न बैक्षं चरन्न् अपुष्पान्नहस्तो नाशुचिर् न देवपितृकार्यं कुर्वन् न शयानः” इति । आपस्तम्बो ऽपि - “अप्रयतेन नाभिवाद्यम् । तथाप्रयताय । अप्रयतश् च न प्रत्यभिवदेत् । प्रतिवयसः स्त्रियः” इति । बौधायनो ऽपि - “समिद्धार्य् उदकुम्भपुष्पान्नहस्तो नाबिवादयेत्” इति । एवम् अभिवाद्ये ऽपि द्रष्टव्यम् । तथा चापस्तम्बः ।

समित्पुष्पकुशाज्याम्बुमृदन्नाक्षतपाणिकम् ।
जपं होमं च कुर्वाणं नाभिवाद्येत वै द्विजम् ॥

कात्यायनो ऽपि ।

स्रुक्पाणिकम् अनाज्ञातम् अशक्तं रिपुम् आतुरम् ।
योगिनं च तपःसक्तं कनिष्ठं नाभिवादयेत् ॥

शातातपो ऽपि ।

उदक्यां सूतिकां नारीं भर्तृघ्नीं गर्भघातिनीम् ।
अभिवाद्य द्विजो मोहाद् अहोरात्रेण शुध्यति ॥
पाषण्डं पतितं व्रात्यं महापतिकिनं शठम् ।
नास्तिकं च कृतघ्नं च नाभिवन्देत् कथंचन ॥
धावन्तं च प्रमत्तं च मूत्रोत्सर्जनतत्परम् ।
भुञ्जानम् आचमानार्हं (?) नाभिवादेत् द्विजोत्तमः ॥
वसन्तं जृम्भमाणं च कुर्वन्तं दन्तधावनम् ।
अभ्यक्तशिरसं चैव स्नास्यन्तं नाभिवादयेत् ॥

तथा च जमदग्निः ।

देवताप्रतिमां दृष्ट्वा यतिं दृष्ट्वा त्रिदण्डिनम् ।
नमस्कारं न कुर्याच् चेद् अहोरात्रेण शुध्यति ॥

इति स्मृतिचन्द्रिकायाम् अभिवादनम्