२३ गुर्वादिनिरूपणम्

**इदानीम् अभिवादनाद्युपयोगित्वेन **

गुर्वादिस्वरूपनिरूपणं क्रियते

तत्र मनुः ।

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभवयति चान्नेन स विप्रो गुरुर् उच्यते ॥

निषेको गर्भाधानम् । अन्नसंभावनं वेदप्रदानस्यापि प्रदर्शनार्थम् । अत एव याज्ञवल्क्यः ।

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति ।

क्रियाः निषेकाद्याः । एवं च यो निषेकादीन्य् उपनयनान्तानि कृत्वा वेदं प्रदाय चान्नेन संभवयति स गुरुर् इत्य् उक्तं भवति । एतच् च गुरुत्वं पितुर् एव नान्यस्य, तस्यैव निषेकाद्यधिकारात् । ततश् च पितुर् एवोपनयनादाव् अधिकार इत्य् उक्तं भवति । अत एव बृहस्पतिः ।

एवं दण्डादिभिर् युक्तं संस्कृत्य तनयं पिता ।
वेदम् अध्यापयेद् यत्नाच् छास्त्रं मन्वादिकं तथा ॥ इति ।

एवं च,

उपनीय ददद् वेदम् आचार्यः स उदाहृतः ।

इति यद् आचार्यस्योपनयनादिकर्तृत्वं तत् पितुर् अभावे योग्यताविरहे वा द्रष्टव्यम् । संनिहितयोग्यपितृपरित्यागे कारणाभावात् । योग्यताविरहे च परित्यागे ऽस्त्य् एव । तथा च यमः ।

नाध्यपयति नाधीते पतनीयेषु वर्तते ।
इत्य् एतैर् लक्षणैर् युक्तस् त्यक्तव्यो व्रतिना गुरुः ॥ इति ।

गुरुर् अत्रोपनेता । अत एव आपस्तम्बः - “तमसो वा एष तमः प्रविशति यम् अविद्वान् उपनयते यश् चाविद्वान् इति हि ब्राह्मणम् । तस्मिन्न् अभिजनविद्यासमुदेतं समाहितं संस्कर्तारम् ईप्सेत्” इति । यश् चाविद्वान् उपनयते सो ऽपि तमः प्रविशतीत्य् अर्थः । एतच् च लक्षणाभिधानं पितृव्यतिरिक्तानां गुरुत्वम् औपचारिकम् इति दर्शयितुम् । अत एव मनुः श्रुतोपकारिणः पूज्यत्वमात्राभिप्रायेण् गुरुशब्दम् आह ।

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥ इति ।

अपिशब्दप्रयोगाद् इत्य् अभिप्रायः । यत् तु देवलेनोक्तम्,

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस् त्राता मातामहपितामहौ ॥
वर्णज्येष्ठः पितृव्यश् च पुंस्य् एते गुरवः स्मृताः ।
माता मातामही गुर्वी पितुर् मातुश् च सोदराः ॥
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियाम् ।
इत्य् उक्तो गुरुवर्गो ऽयं मातृतः मितृतो द्विधा ॥ इति ।

तद् अपि पित्रादिवन् मान्यत्वाभिप्रायम् । तथा च व्यासः ।

मातामहो मातुलश् च पितृव्यः श्वशुरो गुरुः ।
पूर्वजः स्नातकश् चर्त्विक् मान्यास् ते गुरवः सदा ॥
मातृष्वसा तातुलानी स्वश्रूर् धात्री पितृष्वसा ।
पितामही पितृव्यस्त्री गुरुस्त्री मातृवच् चरेत् ॥ इति ।

मनुर् अपि ।

पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि ।
मातृवद् भक्तिम् आतिष्ठेन् माता त्व् आभ्यो गरीयसी ॥ इति ।

आचार्यस्यापि लक्षणम् आह याज्ञवल्क्यः ।

उपनीय ददद् वेदम् आचार्यः स उदाहृतः । इति ।

यो यस्योपनयनमात्रं कृत्वा वेदं प्रयच्छति स तस्याचार्य इत्य् अर्थः । वेदग्रहणं कल्पसूत्रादेर् अपि प्रदर्शनार्थम् । अत एव मनुः ।

उपनीय तु यश् शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ इति ।

रहस्यम् उपनिषत् । एतच् चोपनयनादिकर्तृत्वम् पितुर् अभावे ज्येष्ठभ्रातुर् एव वेदितव्यम्,

पितृवत् पालयेत् पुत्रान् ज्येष्ठो भ्राता यवीयसः ।
पितृवच् चापि वर्तेरन् ज्येष्ठभ्रातरि धर्मतः ॥

इति मनुना तयोः पितृपुत्रधर्मातिदेशात् । यस् तु वेदभागम् अङ्गानि वा वृत्त्यर्थम् अध्यापयति स उपाध्यायः । तद् आह मनुः ।

एकदेशं तु वेदस्य वेदाङ्गान्य् अथ वा पुनः ।
यो ऽध्यपयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥ इति ।

वृत्त्तिर् जीविका । अत एव शङ्खः ।

भृतकाध्यापको यस् तु उपाध्यायः स उच्यते । इति ।

मूल्येनाध्ययनं भृतकाध्यापनम् । तथा च विष्णुः - “यस् त्व् एनं मूल्येनाध्यापयेत् तम् उपाध्यायम्” इति । विद्याद् इति शेषः । ऋत्विग्लक्षणम् अपि मनुनैवोक्तम् ।

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥ इति ।

एते च पूर्वोक्ताचार्योपाध्यायर्त्विजो यथापूर्वं मान्या वेदितव्याः । तथा च याज्ञवल्क्यः ।

एते मान्या यथापूर्वं येभ्यो माता गरीयसी ।

मान्याः पूज्या इत्य् अर्थः । गरीयसी गुरुतरा पूज्यतमेति यावत् । देवलो ऽपि ।

गुरूणाम् अपि सर्वेषां पूज्याः पञ्च विशेषतः ।
यो भावयति या सूते येअन् विद्योपदिश्यते ॥
ज्येष्ठभ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ।
तेषाम् आदास् त्रयः श्रेष्ठास् तेषां माता सुपूजिता ॥ इति ।

अत्रोपपत्तिम् आह व्यासः ।

मासान् दशोदरस्थं या धृत्वा शूलैः समाकुला ।
वेदनाविविधैर् दुःखैः प्रसूयेत विमूर्च्छिता ॥
प्राणैर् अपि प्रियान् पुत्रान् मन्यते सुतवत्सला ।
कस् तस्या निष्कृतिं कर्तुं शक्तो वर्षशतैर् अपि ॥ इति ।

अत इयं पूज्यतमेत्य् अभिप्रायः । तस्या निष्कृतिर् आनृण्यम् । अत्र शङ्खः - “न पुत्रः पितुर् मुच्येतान्यत्र सौत्रामणीयागाज् जीवन्न् ऋणान् मातुः” इति । मनुर् अपि मातैव गरीयसीत्य् आह ।

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄण् माता गौरवेणातिरिच्यते ॥ इति ।

एतच् च संस्कारादिकरणरहितोत्पादकमात्रविषयम् । अन्यथा तु पितैव श्रेयान् । तथा च पुराणम् ।

द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।
धरा गुरुतरा तद्वन् माता गुरुतरा ततः ॥
तयोर् अपि पिता श्रेयान् बीजप्रादान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ इति ।

आचार्यो ऽपि जनकमात्रापेक्षया गरीयान् एव । तद् आह मनुः ।

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।

ब्रह्मद आचार्यः न तूपाध्यायः । यतो ऽनन्तरम् आह ।

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ।

यद् ब्रह्मग्रहणार्थं जन्मोपनयनाख्यं तद् यतः करोतीत्य् अर्थः । यस् तु बालो वृद्धम् अध्यापयति सो ऽपि गरीयान् इत्य् आह विष्णुः - “बाले समानवयसि वाध्यापके गुरुवद् वर्तेत” इति । अत्र पुरावृत्तम् आह मनुः ।

अध्यापयामास पितॄन् शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥
ते तम् अर्थम् अपृच्छन्त् देवान् आगतमन्यवः ।
देवाश् चैतान् समेत्योचुर् न्याय्यं वः शिशुर् उक्तवान् ॥
अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बाल इत्य् आहुः पितेत्य् एव च मन्त्रदम् ॥
न हायनैर् न पलितैर् न वित्तैर् न बन्धुभिः ।
ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥

हायनादिभिर् महत्त्वम् इति न धर्मं व्यवस्थापितवन्तः । किं तु यो ऽनूचानः प्रवक्ता स एव महान् इति । अत एव चास्मै न द्रुह्यात् । तद् अह मनुः ।

य आवृणोत्य् अवितथं ब्रह्मणा श्रवणाव् उभौ ।
स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदाचन ॥

आवृणोत्य् आपूरयति । अवितथं विस्वरादिरहितं कृत्वेत्य् अर्थः । व्यासो ऽपि ।

उपाध्यायं पितरं मातरं च ये द्रुह्यन्ति मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्यावशिष्टं तस्माद् एभ्यः पापकृन् नास्ति लोके ॥

मनुर् अपि ।

आचार्यश् च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः ॥ इति ।

यस् तु पित्रोर् नित्यं प्रियम् एवाचरति स धर्मजातम् अवाप्नोतीत्य् आह देवलः ।

यावत् पिता च माता च द्वाव् एतौ निर्विकारिणौ ।
तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ॥
माता पिता च सुप्रीतौ स्यातां पुत्रगुणैर् यदि ।
स पुतः सकलं धर्मं प्राप्नुयात् तेन कर्मणा ॥

विकारो मरणम् । मनुर् अपि ।

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
न तस्य निष्कृतिः सक्या कर्तुं वर्षशतैर् अपि ॥
तयोर् नित्यं प्रियं ब्रूयाद् आचार्यस्य च सर्वदा ।
तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैर् अभ्यननुज्ञतो धर्मम् अन्यं समाचरेत् ॥
त एव हि त्रयो लोकास् त एव त्रय आश्रमाः ।
त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ऽग्नयः ॥
पिता वै गार्हपत्याग्निः माताग्निर् दक्षिणाः स्मृतः (?) ।
गुरुर् आहवनीयो ऽग्निः साग्नित्रेता गरीयसी ॥
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया चैव ब्रह्मलोकं समश्नुते ॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास् तु यस्यैत सर्वास् तस्याफलाः क्रियाः ॥
यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत् ।
तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥
तेषाम् अनुपरोधेन पारत्र्यं यद् यद् आचरेत् ।
तत् तन् निवेदयेत् तेभ्यो मनोवचनकर्मभिः ।
एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥

पारत्र्यं पारलौकिकम् । देवलो ऽपि । ।

नास्ति मातृसमं दैवं नस्ति पित्रा समो गुरुः ।
तयोः प्रत्युपकारो हि न कथंचन विद्यते ॥ इति ।

इति स्मृतिचन्द्रिकायां गुर्वादिनिरूपणम्