०७ यज्ञोपवीतम्

अथ यज्ञोपवीतम्

तत्र मनुः ।

कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रम् अयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ इति ।

त्रिवृच् च । नवसूत्रम् “नव वै त्रिवृत्” इति श्रुतेः । गृह्यपरिशिष्टे ऽपि - “उपवीतम् अयुग्मसरं त्रिवृद् यज्ञोपवीतम्” इति । अयुग्मसरम् अयुग्मगुणं त्रिगुणम् इति यावत् । एकैकश् च गुणो विषमतन्तुकः त्रितन्तुक एव । अन्यथा नवतन्तुत्वव्याघातात् । उक्तं च देवलेन ।

यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् । इति ।

एवं च नवतन्तुकं त्रिवृद् यज्ञोपवीतम् इत्य् उक्तं भवति । तद् ऊर्ध्ववृतं कार्यम् । तद् आह दत्तात्रेयः ।

अधोवृत्तैस् त्रिभिः सूत्रैः पुनश् चोर्ध्ववृतैस् त्रिवृत् ।

कात्यायनो ऽपि ।

त्रिवृद् ऊर्ध्ववृतं कार्यं तन्तुत्रयम् अधोवृतम् । इति ।

ऊर्ध्ववृतस्य लक्षणम् आह संग्रहकारः ।

करेण दक्षिणेनोर्ध्वं गतेन त्रिगुणीकृतम् ।
वलितं मानवे सूत्रं शास्त्र ऊर्ध्ववृतं स्मृतम् ॥ इति ।

ऊर्ध्वं गतेन ऊर्ध्वं स्थितेन दक्षिणेन करेण यद् वलितं तद् ऊर्ध्ववृतम् इत्य् अर्थः । युक्तं चैतत्, अन्यथा गमनवलनयोर् यौगपद्याद् अनेन गतेन वलितम् इत्य् अन्वयः स्यात् । अत्रोपवीतप्रयोगम् आह देवलः ।

ग्रामान् निष्क्रम्य संख्याय षण्णवत्यङ्गुलीषु तत् ।
यावत् त्रिगुणितं सूत्रं प्रक्षाल्याब्लिङ्गिकैस् त्रिभिः ॥
देवागारे ऽथ वा गोष्ठे नद्यां वान्यत्र वा शुचौ ।
सावित्र्या त्रिवृतं कुर्यान् नवसूत्रं तु तद् भवेत् ॥
बिल्वाश्वत्थादियज्ञीयवृक्षस्यान्यतमस्य तु ।
बध्नीयात् तत्सजीवं तु पितृभ्यो नम इत्य् अथ ॥
ब्रुवन्न् आवेष्टितव्यं स्यात् पितॄणां तृत्पिदं हि तत् ।
त्रिस् ताडयेत् करतलं देवादीनां हि तृप्तिदम् ॥
सव्ये मृदं गृहीत्वास्मिन् स्थापयेद् भूरि इति ब्रुवन् ।
पत्रं पुष्पं फलं वापि व्याहृतीभिः प्रतिक्षिपेत् ॥
अभिमन्त्र्याथ भूर् अग्निं चेति वृत्तत्रयं त्रिभिः ।
हरिब्रह्मेश्वरेभ्यश् च प्रणम्यावदधाति तत् ॥ इति ।

अथ धारण्मन्त्रस् तु गृह्यपरिशिष्टे ऽभिहितः ।

यज्ञोपवीतं परमं पवित्रं प्रजापतेर् यत् सहजं पुरस्तात् ।
आयुष्यम् अग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलम् अस्तु तेजः ॥ इति ।

साङ्ख्यायनगृह्ये ऽपि - “यज्ञोपवीतम् असि यज्ञस्य चोपन्ह्यामि” इति । अत्र प्रतितन्तु देवताभेदम् आह देवलः ।

ओङ्कारः प्रथमस् तन्तुर् द्वितीयो ऽग्निस् तथैव च ।
तृतीयो नागदैवत्यश् चतुर्थः सोमदेवतः ॥
पञ्चमः पितृदैवत्यः षष्ठश् चैव प्रजापतिः ।
सप्तमो वायुदैवतः सूर्यश् चाष्टम एव च ॥
नवमः सर्वदैवत्य इत्य् एते नव तन्तवः ॥ इति ।

अत्र ग्रन्थिनियमम् आह कात्यायनः ।

त्रिवृतं चोपवीतं स्यात् तस्यैको ग्रन्थिर् इष्यते ।

तत्र देवलः ।

एकेन ग्रन्थिना तन्तुर् द्विगुणस् त्रिगुणो ऽथ वा । इति ।

य एताम् उपवीतोत्पत्तिं न जानाति तस्य सर्वक्रियानैष्फल्यम् आह पितामहः ।

य एतं न विजानाति यज्ञसूत्रसमुद्भवम् ।
वेदोक्तं निष्फलं तस्य स्नानदानजपादिकम् ॥
ब्राह्मणो यो न जानाति उपवीतस्य संस्थितिम् ।
मोहात्मा सहते भारं पशुर् गौर् इव सर्वदा ॥ इति ।

कात्यायनस् तु परिमाणान्तरम् आह ।

पृष्ठवंशे च नाभ्यां च धृतं यद् विन्दतेर् कटिम् ।
तद् धार्यम् उपवीतं स्यान् नातिलम्बं न चोच्छ्रितम् ॥ इति ।

अत्रातिलम्बात्युच्छ्रितप्रतिषेधान् मध्ये कथंचिद् अलाभे परिमाणान्तरम् अविरुद्धम् इति ज्ञायते । अत एव देवलः ।

स्तनाद् ऊर्ध्वम् अधो नाभेर् न कर्तव्यं कथंचन । इति ।

अधो नाभेर् इत्य् अतिलम्बाभिप्रायम् । उक्तोपवीतालाभे ऽपि स एवाह ।

कार्पासक्षौमगोवालशणवल्कतृणोद्भवम् ।
सदा संभवता कार्यम् उपवीतं द्विजातिभिः ॥ इति ।

क्षुमा अतसी । वल्कं तरुत्वक् । तृणोद्भवं कुशनिर्मितम् । तथा च गोबिलः - “यज्ञोपवीतं कुरुते सूत्रं वस्त्रं कुशरज्जुं वा” इति । बोधायनो ऽपि - “कौशं सूत्रं वा त्रिवृद् यज्ञोपवीतम्” इति । सूत्रम् अपि वस्त्राभावे वेदितव्यम्, “अपि वाससा यज्ञोपवितार्थं कुर्यात् तदभावे त्रिवृता सूत्रेण” इति ऋष्यशृङ्गस्मरणात् । अनेनोपवीतं नित्यं धार्यम् इत्य् उक्तं भवति । अत एव भृगुः ।

सदोपवीतिना भाव्यं सदा बद्धशिखेन च ।
विशिखो ऽनुपवीतश् च यत् करोति न तत् कृतम् ॥ इति ।

न चानेन सदोपवीतित्वं कर्मकाल एवेति शङ्कनीयम् । यतः स एवाह ।

मन्त्रपूतं स्थितं काये यस्य यज्ञोपवीतकम् ।
नोत्तारयेत् ततः प्राज्ञो यदीच्छेच् छ्रेय आत्मनः ॥
कायस्थम् एव यत् कार्यम् उत्थाप्यं न कदाचन ।
सकृद् उत्तारणात् तस्य प्रायश्चित्ती भवेद् द्विजः ॥ इति ।

एतच् चोपवीतं बटोर् एकम् एव । तद् आह देवलः ।

ब्रह्मचारिण एकं तु स्नानात् प्रभृति तद् द्वयम् । इति ।

भृगुर् अपि ।

उपवीतं वटोर् एकं द्वे तथेतरयोः स्मृतम् ।
एकम् एव यतीनां स्याद् इति शास्त्रस्य निर्णयः ॥ इति ।

इतरयोर् गृहस्थवनस्थयोर् इत्य् अर्थः । एतच् च नित्याभिप्रायम्, बहुषु कामश्रवणात् । तद् आह देवलः ।

बहूनि चायुष्कामस्येत्यादि काम्यं प्रचक्षते । इति ।

केशसंसर्गे ऽपि स एवाह ।

सूत्रं सलोमकं चेत् स्यात् ततः कृत्वा विलोमकम् ।
सावित्र्या दशकृत्वो ऽध्बिर् मन्त्रिताभिस् तद् उक्षयेत् ॥
विच्छिन्नं वाप्य् अधोयातं भुक्त्वा निर्मितम् उत्सृजेत् । इति ।

मनुस् तु घृतयज्ञोपवीतादिनाशे प्रतिपत्तिनियमम् आह ।

मेखलाम् अजितनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृहीत्वान्यानि मन्त्रवत् ॥ इति ।

इति स्मृतिचन्द्रिकायां यज्ञोपवीतम्