०६ मेखलाः

अथ मेखलाः

तत्र गौतमः - “मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण” इति । मुञ्जनिर्मिता मौञ्जी । सा ब्राह्मणस्य मेखला । मौर्वी मूर्वामयी ज्या धनुर् गुणः क्षत्रियस्य । (शण)सूत्रकृता सौत्री । सा वैश्यस्य । तथा च मनुः ।

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ इति ।

त्रिवृत् त्रिगुणा । तथा च प्रेचेताः - “त्रिगुणाः प्रदक्षिणा मेखलाः” इति । वसिष्ठस् तु मेखलाविशेषम् आह - “मौञ्जीरशना ब्राह्मणस्य धनुर्ज्या क्षत्रियस्य तान्तवी वैश्यस्य” इति । पैठीनसिर् अपि - “मौञ्जी मेखलाश्मान्तकी ब्राह्मणस्य बाल्वजी । मौर्वी वा राजन्यस्य शाणी क्षौमी च वैश्यस्य” इति । क्षुमा अतसी । एतद् उक्तमुञ्जाद्यभावे वेदितव्यम् । अत एव मनुः ।

मुञ्जाभावे तु कर्तव्या कुशाश्मातक बल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव च ॥ इति ।

त्रिवृता त्रिगुणेत्य् अर्थः । मुञ्जग्रहणं मूर्वाद्युपलक्षणार्थम् । अत एव यमः ।

विप्रस्य मेखला मौञ्जी ज्या मौर्वी क्षत्रियस्य तु ।
शणसूत्री तु वैश्यस्य मेखला धर्मतः स्मृताः ॥
एतासाम् अप्य् अभावे तु कुशाश्मातकबल्वजैः ।
मेखलास् त्रिवृतः कार्याः ग्रन्थिनैकेन वा त्रिभिः ॥ इति ।

इति स्मृतिचन्द्रिकायां मेखलाः