०५ दण्डाः

अथ दण्डाः

तत्र मनुः ।

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥ इति ।

पुराणे ऽपि ।

ब्राह्मणो बैल्वपालाशौ तृतीयः प्लक्षजस् तथा ।
न्यग्रोधखादिरौ क्षत्रे तथान्यो वेतसोद्भवः ॥
पैलवौदुम्बरौ वैश्ये तृतीयो ऽश्वत्त्थजस् तथा ॥ इति ।

एतच् च न दण्डसमुच्चयार्थम्, किं तु विकल्प एव । यद् आह यमः ।

विप्रस्य दण्डः पालाशो बैल्वो वा धर्तः स्मृतः ।
आश्वत्थः क्षत्रियस्याथ खादिरो वापि धर्मतः ॥
औदुम्बरो ऽथ वैश्यस्य प्लाक्षो वा दण्ड उच्यते ॥ इति ।

पारस्करस् तु विशेषम् आह - “पालाशो ब्राह्मणस्य् दण्डः बैल्वो राजन्यस्य औदुम्बरो वैश्यस्य सर्वे वा सर्वेषाम्” इति । गौतमो ऽपि - “यज्ञियो वा सर्वेषाम्” इति । यज्ञियो यज्ञार्थ इत्य् अर्थः । एतद् उक्तदण्डालाभविषयम् । अत एव यमः ।

एतेषाम् अप्य् अलाभे तु सर्वेषां सर्वयज्ञियाः । इति ।

अनेनैवाभिप्रायेणाह आपस्तम्बः - “वार्क्षो दण्ड इत्य् अवर्णसंयोगेनैके उपदिशन्ति” इति । गौतमो ऽपि - “अपीडिता यूपवक्राः ससल्काः” इति । अपीडिता वल्लीवेष्टनादिभिः । यूपवक्रा यूपवन् नताग्रा इत्य् अर्थः । तथा च व्यास ।

शिरोललाटनासाग्रप्रमाणा यूपवन् नताः । इति ।

मनुर् अपि दण्डप्रमाणम् अह ।

केशान्तिको ब्राह्मणस्य् दण्डः कार्यः प्रमाणतः ।
ललाटसंमितो राज्ञः स्यत् तु नासान्तिको विशः ॥ इति ।

केशान्तिको मूर्धप्रमाण इत्य् अर्थः । अत एव गौतमः - “मूर्धललाटनासाग्रप्रमाणाः” इति । वसिष्ठस् तु विशेषम् आह; “घ्राणसंमितो ब्राह्मणस्य् ललाटसंमितः क्xअत्रियस्य केशसंनितो वैश्यस्य । इति । शङ्खो ऽपि - “केशावधिललाटांसतुल्याः प्रोक्ताः क्रमेण तु । इति

इति स्मृतिचन्द्रिकायां दण्डाः