०४ वासांसि

अथ वासांसि

तत्र गौतमः - “शाणक्षौमचीरकुतपाः सर्वेषां कार्पासं वाविकृतम्” इति । शाणं शणविकारम् । क्षौमम् अतसीसूरनिर्मितम् । चीरं दर्भादिनिष्पन्नम् । कुतपः पार्वतीयाजरोमनिर्मितः कम्बलः । अविकृतम् अरागसंबन्धम् । एतानि सर्वेषाम् अविशेषेण वासांसि भवन्तीत्य् अर्थः । वसिष्ठो ऽपि - “सर्वेषां वा तान्तवम् अरक्तम्” इति । मनुस् तु वर्णव्यवस्थया वासोनियमम् आह ।

वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च । इति ।

वसिष्ठो ऽपि - “शुकम् अहतं वासो ब्राह्मणस्य कार्पासं माञ्जिष्ठं । क्षौमं क्षत्रियस्य पीतं कौशेयं वैश्यस्य” इति । अहस्तस्य लक्षणम् आह प्रचेताः ।

ईषद्धौतं नवं श्वेतं सदशं यन् न धारितम् ।
अहतं तद्विजानीयात् सर्वकर्मसु पावनम् ॥

मञ्जित्ष्ठया विकृतं माञ्जिष्ठम् । केचिद् ब्राह्मणस्य काषायं वस्त्रम् इच्छन्ति । तद् आह आपस्तम्बः - “काषायं चैके वस्त्रम् उपदिशन्ति । माञ्जिष्ठं राजन्यस्य हारिद्रं वैश्यस्य” इति । कषायरञ्जितं काषायम् । हरिद्रया विकृतं हारिद्रम् । काषाये तु विशेषम् आह गौतमः - “वार्क्षं ब्राह्मणस्य माञ्जिष्ठहारिद्रे इतरयोः” इति । वृक्षकषायनिर्मितं वार्क्षम् । पैठीनसिस् तु सर्वेषां काषायम् आह - “कमण्डलुं यज्ञोपवीतं काषायं वस्त्रम् इति समानानि” इति । एतच् च परिधानार्थम्,

क्षौमकार्पासकुतपचर्मवल्कलकम्बलाः ।
सर्वं न धारयेच् छुक्लं वासस् तत्परिधानकम् ॥

इति मनुस्मरणात् ।

इति स्मृतिचन्द्रिकायां वासांसि