०३ अजिनानि

अथाजिनानि

तत्र गौतमः - “कृष्ण-रुरु-बस्ताजिनानि” इति । कृष्णः कृष्णमृगः । रुरुर् गौरमृगः । बस्तः छागः । एतेषाम् अजिनानि ब्राह्मण-क्षत्रिय-विशां क्रमेण भवन्ति । बृहस्पतिः ।

कृष्णाजिनं ब्राह्मणस्य रौरवं क्षत्रियस्य तु ।
बस्ताजिनं तु वैश्यस्य सर्वेषां वा गवाजिनम् ॥ इति ।

पारस्करस् तु - “सर्वेषां वा गव्यम्” इति । यमो ऽपि ।

कृष्णाजिनं ब्राह्मणस्य् रौरवं क्षत्रियस्य तु ।
बस्ताजिनं तु वैश्यस्य सर्वेषां रौरवाजिनम् ॥ इति ।

एतान्य् उत्तरीयाणि, “कृष्णरुरुबस्ताजिनान्य् उत्तरीयाणि” इति शङ्खस्मरणात् । पारस्करो ऽपि -

“ऐणयम् अजिनम् उत्तरीयं ब्राह्मणस्य रौरवं राजन्यस्याजं गव्यं वा वैश्यस्य सर्वेषां वा गव्यम्”

इति । एणः कृष्णमृगः ।

**इति स्मृतिचन्द्रिकायाम् अजिनानि **