अथ गौणकालाः
तत्र मनुः ।
आ षोषशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥ इति ।
आकारश् चायम् अभिविधौ । यत आह व्यासः ।
औपनायनिकः कालः परः षोडशवार्षिकः ।
द्वाविंशतिः परो ऽन्यस्य स्याच् चतुर्विंशतिः परः ॥ इति ।
परो ऽन्तिमः । तत ऊर्ध्वं गौणकालो ऽपि नास्तीत्य् अर्थः । अत एव तदतिक्रमे पातित्यम् आह यमः ।
समतिक्रान्तकालाश् च पतिताः सर्व एव ते । इति ।
व्यासो ऽपि ।
ब्राह्मणक्षत्रियविशां कालश् चेद् अत्यगाद् अयम् ।
सावित्रीपतिता व्रात्याः परिहार्याः प्रयत्नतः ॥ इति ।
परिहार्या इति वदन् एते संसर्गानर्हा इत्य् अह । अत एव वसिष्ठः - “नैनान् उपनयेयुर् नाध्यापयेयुर् न याजयेयुर् नैभिर् व्यवहरेयुः” इति । मनुर् अपि ।
नैतैर् अपूतैर् विधिवद् आपद्य् अपि च कर्हिचित् ।
ब्राह्मान् यौनांश् च संबन्धान् नाचरेद् ब्राह्मनः सह ॥ इति ।
ब्रह्मसंबन्धो ऽध्यापनादि । अपूतैर् अकृतप्रायश्चित्तैर् इत्य् अर्थः । अत एव संग्रहकारः ।
व्रात्यस्याकृतचित्तस्य न कार्यम् उपनायनम् ।
अध्यापनं याजनं च विवाहादि च वर्जयेत् ॥ इति ।
प्रायश्चित्तम् अपि याज्ञवल्क्येनोक्तम् ।
अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ इति ।
व्रात्यस्तोमो व्रात्यानां प्रायश्चित्तार्थः क्रतुः । तं विहायान्यत्रानधिकार इत्य् अर्थः । तत्र त्व् अपत्नीकस्यानधीतवेदस्याक्र्ताधानस्य च वचनाद् अधिकार इत्य् अवोरोधः । वसिष्ठस् तु प्रायस्चित्तान्तरम् अप्य् आह - “पतितसावित्रीक उद्दालकव्रतं वरेत् । द्वौ मासौ यावकेन वर्तेत । मसं पयसा । अर्धमासम् आमिक्षयाष्टरात्रं घ्र्तेन षड्रात्रम् अयाचितं त्रिरात्रम् अब्भक्षणम् अहोरात्रम् उपवासः । अश्वमेधावभृथं वा गच्छेद् व्रात्यस्तोमेन वा यजेत” इति । अस्यार्थः - उद्दालकेन दृष्टम् इत्य् एतद् उद्दलकव्रतम् । तत्र द्वौ मासौ यवकेनेत्यादिना तत्स्वरूपम् आह । यवको यवकृता यवागूः तयैव मासद्वयं वर्तेत । अयाचितं तु सर्वव्रतसाधारणं हविष्यं भुञ्जीत, विशेषानभिधानात् । तच् च सकृद् एव कार्यं प्रायस्चित्तस्य दुःखात्मकत्वात् । उपवासे तूदकस्यापि निवृत्तिः पूर्वम् अब्भक्षणेनैव त्रिरारविधानद् इति ।
इति गौणकालाः