०१ उपनयनमुख्यकालाः

तत्र याज्ञवल्क्यः ।

गर्भाष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञां एकादशे सैके विशाम् एके यथाकुलम् ॥ इति ।

उपनयनम् एवोपनायनम् । तद् ब्राह्मणस्य गर्भग्रहणाद् आरभ्य जन्मतो वाष्टमे वर्षे कार्यम् । एकेन सह वर्तत इति सैकम् । तस्मिन्न् एकादशे द्वादश इत्य् अर्थः । राजन्यवैश्ययोर् अपि गर्भाद् एव वर्षसंख्या,

गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भाद् एकादशे राज्ञः गर्भात् तु द्वादशे विशः ॥

इति मनुस्मरणात् । अत्र लोगाक्षिः - “सप्तमे वर्षे ब्राह्मणस्योपनायनं नवमे राजन्यस्य एकादशे वैश्यस्येति । गर्भपञ्चमे ब्राह्मणम् उपनयेद् गर्भाष्टमे वा गर्भैकादशे राजन्यं गर्भद्वादशे वैश्यं गर्भषोडशे वा” इति । गौतमस् तु काम्योपनयनम् आह - “नवमे पञ्चमे वा काम्यम्” इति । तत्रापि गर्भाद्य् एव वर्षसंख्या, नित्यं कम्यं चोपनयनम् उक्त्वा, “गर्भादिसंख्या वर्षाणाम्” इति तेनैवोक्तत्वात् । एतच् च ब्राह्मणविषयम् । यद् आह अङ्गिराः ।

ब्रह्मवर्चसकामस्य पञ्चमे ऽब्दे ऽग्रजन्मनः ।
आयुष्कामस्य नवमे कार्यं मौञ्जीनिबन्धनम् ॥ इति ।

मनुर् अपि ।

ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे । इति ।

क्षत्रियवैश्ययोस् तु अङ्गिरसोक्तं द्रष्टव्यम् ।

षष्टे तथा द्वादशे च राज्ञो वृद्धिर् बलायुषोः ।
ईहायुषोस् तु वैश्यस्य अष्टमे च चतुर्दशे ॥ इति ।

ईहा कृष्यादिविषया चेष्टा । अत्र षष्ठाष्टमयोर् बले वेदितव्ये । तथा च मनुः ।

राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ।

एवम् अन्यस्मिन्न् अपि काले फलान्तरोद्देशेन कार्यम् । तद् आह आपस्तम्बः - “अथ काम्यानि । सप्तमे ब्रह्मवर्चसकामम् । अष्टम आयुष्कमम् । नवमे तेजस्कामम् । दसमे ऽन्नाद्यकामम् । एकादश इन्द्रियकामम् । द्वादशे पशुकामम्” इति । एतच् च वर्णत्रयसाधारणम् । तद् उपनयनानन्तरम् अस्य विधानाद् इत्य् उक्तं तद्भाष्ये । अत्र च ब्राह्मणादीनां द्वितीयं जन्म । तद् आह वसिष्ठः ।

मातुर् यद् अग्रे जननं द्वितीयं मौञ्जिबन्धनम् । इति ।

अत्रोपपत्तिम् आह मनुः ।

तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥
वेदप्रदानाद् आचार्यं पितरं परिचक्षते ॥ इति ।

आपस्तम्बो ऽपि - “स हि विद्यातस् तं जनयति । तच् छ्रेष्टं जन्म । शरीरम् एव मातापितरौ जनयतः” इति । एवं ब्राह्मणादीनां त्रयाणाम् एव द्विजत्वं न शूद्रस्य । तस्य द्वितीयजन्मनो ऽभावात् । तथा च याज्ञवल्क्यः ।

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥ इति ।

अत्र च वर्णव्यवस्थायाम् ऋतुनियमम् आह आपस्तम्बः - “वसन्त ब्राह्मणम् उपनयीत ग्रीष्मे रजन्यं शरदि वैश्यम्” इति । अथ वा माघादयः पञ्च मासा ग्राह्याः । तथा च ज्योतिःशास्त्रम् -

माघादिषु तु मासेषु मौञ्जी पञ्चसु शस्यते । इति ।

एतच् च वर्णत्रयसाधारणम् । तद् उक्तं ज्योतिःशास्त्र एव ।

ऋतुर् वसन्तः शुभदो ऽग्रजानां ग्रीष्मो नृपाणां च सरद् विशां च ।
व्रतस्य बन्धे यदि वाखिलानां माघादयः पञ्च भवन्ति मासाः ॥ इति ।

यजुःशाखिनां तु पुनर् वसन्तग्रहणं नियमार्थम् इत्य् उक्तं धर्मभाष्ये (आप्ध् १।१९?) । वसन्तादयो ऽपि सूर्यस्य राशिद्वययोगाद् भवन्ति । एतद् अपि तत्रैवोक्तम् ।

मृगादिराशिद्वयभानुयोगात् षडर्तवः स्युः शिशिरो वसन्तः ।
ग्रीष्मश् च वर्षाश् च शरच् च तद्वद् हेमन्तनामा कथितश् च षष्ठः ॥ इति ।

मृगो मकरः । अनेन मीनमेषयोर् वसन्त इत्य् उक्तं भवति । श्रुतिस् तु मधुमधवाव् एव वसन्त इत्य् आह - “मधुश् च माधवश् च वासन्तिकावृत्” इति । मधुमाधवौ चैत्रवैशाखौ । एवं तिथ्यादयो ऽपि ज्योतिःशत्रे ऽवगन्तव्याः ।

नष्टचन्द्रे ऽष्टगे शुक्रे निरंशे चैव भास्करैः ।
कर्तव्यं नोपनयनं नानधाये जलग्रहे ॥ इति ।

राशेः प्रथमभागस्थितः सूर्यो निरंशः । गलग्रहो ऽपि तत्रैवोक्तः ।

त्रयोदशीचतुष्कं तु सप्तम्यादित्रयं तथा ।
चतुर्थ्य् एकाकिनी प्रोक्ता अष्टाव् एते गलग्रहाः ॥ इति ।
गुरुर् भृगुसुतो धात्रीपुरः शशधरात्मजः
स्युर् एते ऋग्यजुःसामाथर्वणाम् अधिपाः क्रमात् ॥ इति ।

भृगुसुतः शुक्रः । धात्रीपुत्रो ऽङ्गारकः । शसधरात्मजो बुधः । एते ऋगादीनां क्रमेणाधिपा भवन्ति । तस्मिन् वारे तच्छाखीयस्योपनयनं कार्यम् इत्य् अभिप्रायः ।

हस्तत्रये पुष्यधनिष्ठयोश् च पौष्णश्विसौम्यादितिविष्णुभेषु ।
शस्ते तिथौ चन्द्रबलेन युक्ते कार्यौ द्विजानां व्रतबन्धमोक्षौ ॥ इति ।

**इति स्मृतिचन्दिकायाम् उपनयनमुख्यकालाः **