०७ संस्कारपरिभाषा

संस्कारपरिभाषा

अधुना लेसतः संस्कारकाण्डम् उच्यते । तत्र गौतमः - “गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनं चत्वाति वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञानाम् अनुष्ठानं देवपितृमनुष्यभूतब्रह्मणाम् एतेषां च अष्टका पार्वणं श्राद्धं श्रावन्याग्रहायणी चैत्र्याश्वयुजी चेति सप्त पकयज्ञसंस्थाः अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमसौ अग्रयणचातुर्मास्यानि न्रूढपसुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः अग्निष्तोमो ऽत्यग्निष्टोम उक्त्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः इत्य् एते चत्वारिंशत्संस्काराः । अथाष्टाव् अत्मगुणाः - दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासो मङ्गलम् अकार्पण्यम् अस्पृहा” इति । वेदव्रतान् प्राजापत्यादीनि । स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः । पञ्चयज्ञा देवयज्ञादयः । अष्टका श्राद्धविशेषः । पार्वणं पर्वणि क्रियमाणं स्थालीपाकलक्षणम् । श्राद्धं मासिश्राद्धम् । श्रावणी सर्पबलिः । आग्रहायणी आग्रयणम् । चैत्री होलकाख्यकर्म । आश्वयुजी इन्द्रद्वजहोमाख्यम् । अन्ये प्रसिद्धाः ।

केचिद् औपासनहोमो वैश्वदेवं पार्वणम् अष्टका मासिश्राद्धं सर्पबलिर् ईशानबलिर् इति सप्तपाकयज्ञान् आहुः ।
आत्मगुणानां लक्षणं बृहस्पतिर् आह ।
यदा तु बन्धुवर्गेषु मित्रे द्वेष्टरि वा सदा ।
आपन्नो रकितव्यस् तु दयैषा परिकीर्तिता ॥
बाह्ये चाब्यन्तरे चैव दुःख उत्पादिते परैः ।
न कुप्यति न चहन्ति सा क्षमा परिकीर्तिता ॥
न गुणान् गुणिनो हन्ति स्तौति मन्दगुआन् अपि ।
नान्यदोषेषु रमते सानसूया परिकीर्तिआ ॥
अभक्यपरिहारस् तु दुष्टसंसर्गवर्जनम् ।
स्वधर्मे च व्यवस्थानं शौचम् एतत् प्रकीर्तितम् ॥
शरीरं पीड्यते येन सुशुभेनापि कर्मणा ।
अत्यन्तं तन् न कर्तव्यम् अनायासः स उच्यते ॥
प्रशस्ताचरणं नित्यम् अप्रशस्तविवर्जनम् ।
एतद् धि मङ्गलं प्रोक्तम् ऋषिभिस् तत्त्वदर्शिभिः ॥
स्तोकाद् अपि हि दातव्यं मुदितेनान्तरात्मना ।
अहन्य् अहनि यत्किंचिद् अकार्पण्यं हि तत् स्मृतम् ॥
यथोपपन्नैः संतोषः कर्तव्यः स्वगतैर् द्विजैः ।
परार्थं नभिलषेत सास्पृहा परिकीर्तिता ॥ इति ।

यस्यैते चत्वारिंशत् संस्कारा अष्टाव् आत्मगुणाश् च स ब्रह्मणः सायुज्यम् आप्नोतीत्य् अह मनुः ।

संस्कारैः संस्क्र्तः पूर्वैर् उत्तरैर् अपि संस्कृतः ।
नित्यम् अष्टगुणैर् युक्तो ब्राह्मणो ब्रह्मलौकिकम् ।
ब्राह्मं पदम् अवाप्नोति यस्मान् न च्यवते पुनः ॥ इति ।

गर्भाधानादयः पूर्वसंस्काराः । उत्तरे पाकयज्ञदयः । तद् आह हारीतः - “द्विविध एव संस्कारो भवति ब्राह्मओ दैवश् च । गर्भाधानादिः स्मार्तो ब्राह्मः । पकयज्ञहविर्यज्ञसोमाश् चेति दैवः । ब्राह्मसंस्कारसंस्कृतः ऋषीणां समानतां सलोकतां सायुज्यं गच्छति । दैवेनोत्तरेण संस्कृतो देवानां समानतां सलोकतां सायुज्यं गच्छति” इति । एतच् च गुणविहीनसंस्काराद्यभिप्रायेण । अत एव गौतमः - “यस्यैत चत्वारिंशत् संस्कारा न चाष्टाव् आत्मगुणा न स ब्रह्मणः सयुज्यं सालोक्यं च गच्छति” इति । अतश् च यस्यैते चत्वारिंशत्संस्कारा अष्टाव् आत्मगुणाश् च तस्यैवेदं ब्रह्मसायुज्यप्राप्तिलक्षणं फलम् इत्य् अवगन्तव्यम् । अत्र च गर्भाधानाद्युपनयनपर्यन्ता एव संस्काराः सर्वेषां नियताः न पुनः स्नानादयः । तथात्वे, “यम् इच्छेत् कर्तुं तम् आविशेद् यद् इतरथा ब्रह्मचर्याद् एव प्रव्रजेत्” इति विरोधः स्यात् । एते च संस्कारा द्विजातीनाम् एव । यद् आह याज्ञवल्क्यः ।

विप्रक्षत्रियविट्छूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।
निषेकाद्याः स्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ इति ।

निषेको गर्भाधानम् आद्यं यासां तास् तथोक्ताः । श्मशानं प्रेतकर्म । द्विजातीनां मन्त्रतः क्रिया इति वदन् शूद्रस्यामन्त्रकाः संस्कारा इत्य् आह । अत एव संस्काराधिकारे यमः ।

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः । इति ।

एतच् च चूडाकरणान्तसंस्काराभिप्रायम् । अत एवाह आपस्तम्बः - “अशूद्राणाम् अदुष्टकर्मणाम् उपायनं वेदाध्ययनम् अग्न्याधेयं फलवन्ति च कर्माणि” इति । ब्रह्मपुराणे तु शूद्रस्य विवाहेतरसकलसंस्कारनिषेधो दर्शितः ।

विवाहमात्रसंस्कारं शूद्रो ऽपि लभतां सदा । इति ।

अतो विधिविहितप्रतिषिद्धत्वाद् विकल्पो वेदितव्यः । मनुर् अपि द्विजानाम् एव समन्त्रकः संस्कार इत्य् आह ।

वैदिकैः कर्मभिः पुण्यैर् निषेकाद्यैर् द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ इति ।

वैदिकमन्त्रसाध्यत्वाद् वैदिककर्माणि पावनानि वैदिकानां पापप्रशमनद्वारेण । तद् आह स एव ।

गार्भैर् होमैर् जातकर्मचूडामौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमार्जति ॥ इति ।

बीजं शुक्लशोणितं तद्दोषजनितं बैजिकम् अशुचि । गर्भनिवासजनितं गार्भिकम् । होमग्रहणम् अहोमात्मकस्य गर्भाधानादेर् अपि प्रदर्शनार्थम् । अत एव गर्भाधानादि चूडाकरणान्तं कर्माभिधाय याज्ञवल्क्यः ।

एवम् एनः शमं याति बीजगर्भसमुद्भवम् । इति ।

इति स्मृतिचन्द्रिकायां संस्कारपरिभाषा