अथ गयाश्राद्धाधिकारिणः
तत्र पुत्रादयो ऽधिकारिणो ज्ञेयाः । विशेषस् तूच्यते ।
पुत्रेषु विद्यमानेषु नान्यं वै कारयेत् स्वधाम् ।
इति ऋश्यशृङ्गवचनस्यायम् अपवादः ।
आत्मजो वान्यजो वापि गयाकूपे यदा कदा ।
यन् नाम्ना पातयेत् पिण्डं तं नयेद् ब्रह्म शाश्वतम् ॥ इति ।
तथान्यो ऽपि विशेषः ।
आत्मनस् तु महाबुद्धे गयायां तु तिलैर् विना ।
पिण्डनिर्वापणं कुर्यात् तथान्या अपि गोत्रजाः ॥
अन्या इत् छान्दसम् । अस्माद् एव वचनाद् अन्यत्र आत्मनः पिण्डदानं न कार्यम् इत्य् अवगम्यते । तथा ।
सवर्णा ज्ञातयो मित्रा बान्धवाः सुहृदस् तथा ।
ते ऽपि पत्न्यै च पतिर् दद्याद् एष धर्मः सनातनः ॥
इत्य् अस्याप् गयायाम् अपवादम् आह गोभिलः ।
पुत्रेभ्यो ऽपि पिता दद्यात् कनिष्ठेभ्यो ऽपि पूर्वजः ।
दद्यात् पिण्डं प्रयत्नेन गयायां तु समाहितः ॥ इति ।
अपिशब्दात् पत्न्या अपि भर्ता पिण्डं दद्यात् । तथा ।
पित्रोस् तु जीवतोर् दद्याद् गयायां पिण्डम् एव च ।
बदरेण च तद् दद्याद् यवान्नेन फलेन वा ॥
उपवीत्य् एव तत् कुर्याद् दधियुक्तैस् तथा तिलैः ।
अतः सर्वे दिवं यान्ति पिण्डदानाद् इति श्रुतिः ॥
तस्मात् तेभ्यो ऽपि यत्नेन दद्यात् पिण्डं विधानतः ॥ इति ।
वृद्धशातातपः ।
प्रीत्या गयायां पिण्डांस् तु सर्वेषां वर्णलिङ्गिनाम् ।
स्वयं कुर्वन् नरः सम्यङ् महतीं श्रियम् आप्नुयात् ॥ इति ।
मरीचिः ।
न कर्तव्यं हि विप्रेण शूद्राणाम् और्ध्वदैहिकम् ।
शूद्रेण ब्राह्मणस्यापि विना पापवशात् क्वचित् ॥ इति
इति गयाश्राद्धाधिकारिनिरूपणम्
इति श्री सकलविध्याविशारद-श्रीकेशवादित्यभट्टोपाद्यायसूनु-
याज्ञिकदेवणभट्टोपाध्यायसोमयाजिविरचितायां
स्मृतिचन्द्रिकायां आशौचकाण्डः समाप्तः