४६ गयाश्राद्धविधिः

अथ गयाश्राद्धविधिः

अत्र आदिपुराणम् ।

उद्यतस् तु गयाम् गन्तुं श्राद्धं कर्तुं विधानतः ।
विधाय कर्पटीवेषं ग्रामस्यापि प्रदक्षिणम् ॥
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।
कृत्वा प्रदक्षिणं गच्छेत् प्रतिग्रहविवर्जितः ॥

स्वगृहे घृतप्रधानद्रव्यं श्राद्धं नवदेवत्यं निर्वर्त्य श्राद्धशेषघृतं गृहीत्वा ग्रामं प्रदक्षिणीकृत्य ग्रामान्तरं गत्वा तत्र भुक्त्वा तम् अपि प्रदक्षिणीकृत्य प्रतिग्रहादिविवर्जितो गच्छेद् इत्य् अर्थः । प्रतिग्रहविसर्जनं चागयाश्राद्धपरिसमाप्तेः ।

अनेनैव विधानेन गत्वा चोत्तरमानसम् ।
आचम्य कुशहस्तस् तु शिरस्य् अभ्युक्ष्य वारिणा ॥
अब्रुवन् स्थानमधे तु गच्छेत् कनकसंज्ञितम् ॥

अब्रुवन्न् इति व्यर्थवाग्व्यवहारनिषेधः ।

तत्राचम्य शिरः सिक्त्वा भ्रूयाद् आदित्यम् ईक्ष्य च ।
गयायां सरसो मध्ये स्नात्वा पैतामहं परम् ॥
दृष्ट्वा स्थानं प्रविश्याथ श्राद्धं कुर्याद् यथाविधि ।
पितृव्यमातुलादीनां तथैकोद्दिष्टम् एव च ॥
वाप्यां स्नानं मतङ्गस्य धर्मपृष्ठे परे ऽहनि ।
श्राद्धपिण्डौ ततः कार्यौ मध्याह्ने कूपयूपयोः ॥

पिण्डदानस्य पृथगुपादानं गयायां तस्य प्राधान्यद्योतनार्थम् ।

ब्रह्मणः सरसि स्नात्वा कृत्वा यूपप्रदक्षिणम् ।
तृतीयदिवसे कुर्याच् छ्राद्धं पिण्डावसेचनम् ॥
महानद्याम् उपस्पृश्य तर्पयेत् पितृदेवताः ।
अक्षयान् लभते लोकान् कुलं चैव समुद्धरेत् ॥
गयाशिरसि तत् कुर्याच् छ्राद्धपिण्डौ चतुर्थके ।
पञ्चमे दिवसे गच्छेद् वटम् अक्षयसंज्ञकम् ॥
गयायां मुण्डपृष्ठे च सर्वपापैः प्रमुच्यते ।
गयाशीर्षे यदा श्राद्धं नाम्ना येषां तु निर्वपेत् ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षम् आप्नुयुः ।
स्वर्गपातालमध्ये तु नास्ति तीर्थं गयासमम् ।
पितरो यान्ति देवत्वं दत्ते पिण्डे गयाशिरे ॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
बहून्य् अब्दसहस्राणि तपस् तप्त्वा सुदुष्करम् ॥
अल्पेनाप्य् अत्र कालेन नरो धर्मपरायणः ।
पापाद् विमोचयत्य् आशु जीर्णां त्वचम् इवोरगः ॥
गयाकूपे नरः स्नात्वा कृत्वा तर्पणम् एव च ।
वटवृक्षतले श्राद्धं ततः कुर्याद् विधानतः ॥
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
पितॄणां तत्र यद् दत्तम् अक्षय्यं तद् भवेद् ध्रुवम् ॥
वटमूलं समाश्रित्य शाकेनाप्य् उदकेन वा ।
एकस्मिन् भोजने विप्रे कोटिर् भवति भोजिता ॥
तीर्थानाम् उत्तमं तीर्थं गया त्रैलोक्यविश्रुता ।
दत्वा पिण्डोदके तत्र दृष्ट्वा च प्रपितामहम् ॥
अक्षयान् लभते लोकान् कुलं चैव समुद्धरेत् ।
उद्धृताः पितरः सर्वे धर्मेण किम् अतः परम् ॥
श्रूयते पितृभिश् चैव गीता गाधा महामुने ।
अपि नस् ते भविष्यन्ति कुले सन्मार्गगामिनः ॥
गयाम् उपेत्य ये पिण्डान् दास्यान्त्य् अस्माकम् आदरात् ।
शुक्लकृष्णाव् उभौ पक्षौ गयायां यो वसेन् नरः ।
पुनात्य् आ सप्तमं चैव कुलं नस्त्य् अत्र संशयः ॥
गयां प्राप्तं सुतं दृष्ट्वा पितॄणाम् उत्सवो भवेत् ।
पद्भ्याम् अपि जलं स्पृष्ट्वा अस्मभ्यं किं न दास्यति ॥
गृहाच् चलितमात्रस्य गयाया गमनं प्रति ।
स्वर्गारोहणसोपानं पितॄणां तु पदे पदे ॥
ब्रह्मघ्नस्य सुरापस्य बालघ्नस्य गुरुद्रुहः ।
नाशम् आयाति वै पापं गयां समनुयाति यः ॥
ब्रह्महा च कृतघ्नश् च गोघाती पञ्चपातकी ।
सर्वे ते निष्कृतिं यान्ति गयायां पिण्डपातनात् ॥
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥
गयायाम् अक्षयं श्राद्धं जपहोमतपांसि च ।
पितृक्षयो हि तत्पुण्यं तस्मात् तत्राक्षयं भवेत् ॥
भरतस्याश्रमे पुण्ये दृश्यते पुण्यतमैर् वृते ।
मतङ्गस्य पदं पुण्यं दृश्यते सर्वमानुषौः ॥
ततो गयां समाश्रित्य ब्रह्मचारी जितेन्द्रियः ।
अश्वमेधम् अवाप्नोति गमनाद् एव भारत ॥

ब्रह्मचर्यम् ऋतुकालाद् अन्यत्र बोद्धव्यम् ।

ततो गच्छेत् तु राजेन्द्र धेनुकं लोकविश्रुतम् ।
तत्र चिह्नं महाराज अद्यापि सुमहाद्भुतम् ॥
कपिलायाः सवत्साया दृश्यन्ते कुरुनन्दन ।
विचरन्त्याः पदानि स्म कर्दमे नृपसत्तम ॥
तेषूपस्पृश्य राजेन्द्र पदेषु भरतर्षभ ।
यत् किंचिद् अशुभं पुंसां तत् प्रणश्यति भारत ॥
ततो गृध्रवटं गच्छेत् स्थानं देवस्य धीमतः ।
स्नात्वा तु भस्मना तत्र अभिगम्य नृपध्वजम् ॥
ब्राह्मणेन भवेच् चीर्णं व्रतं द्वादशवार्षिकं ।
इतरेषां तु वर्णानां सर्वपापक्षयो भवेत् ॥
ततो गच्छेत् तम् उद्यन्तं पर्वतं लोकविश्रुतम् ।
सावित्र्यास् तत्र दृश्यन्ते पदानि भरतर्षभ ॥
तत्र संध्याम् उपासीत ब्राह्मणः शंसितव्रतः ।
उपासिता भवेत् संध्या तेन द्वादशवार्षिकी ॥
योनिद्वारं तु तत्रैव विद्यते भतर्षभ ।
तत्र गत्वा विमुच्यन्ते पुरुषा योनिसंकटान् ॥
ततः पक्वाद् ऋते राजन् तीर्थसेवी यथाक्रमम् ।
विपुलां धनसिद्धिं च सिद्धिं च महतीं लभेत् ॥
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः ।
तत्र धर्मो महाराज नित्यम् आस्ते युधिष्ठिर ॥
तत्राधिगम्य राजेन्द्र हयमेधफलं लभेत् ।
ततो विशल्यम् आसाद्य नरस् त्रैलोक्यविश्रुतम् ॥
अग्निष्टोमम् अवाप्नोति स्वर्गलोकं च गच्छति ।
तथा माहेश्वरं धाम समासाद्य नरः शुचिः ।
पितृमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥
दिवौकसान्धकरणीं समासाद्य जितेन्द्रियः ।
न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति ॥
अथ माषपदं गच्छेत् ब्रह्मचारी दृढव्रतः ।
तत्र माषपदे स्नात्वा वाजपेयफलं लभेत् ॥
तत्र कोटिस् तु तीर्थानां विश्रुता भरतर्षभ ।
तत्राभिषेकं कुर्वीत तीर्थकोट्यां श्रितव्रतः ॥
पुण्डरीकम् अवाप्नोति विष्णुलोकं च गच्छति ॥

पुण्डरीकशब्देन पौण्डरीकयागो ऽभिधीयते ।

गोप्रचार ॥॥॥॥॥॥॥॥॥॥॥॥ ब्रह्मप्रकल्पिताः ।
तेषु संसक्तमात्रेषु पितरो मोक्षम् आप्नुयुः (?) ॥
एको ह्य् ऋषिस् तु प्रवराग्रहस् त आम्रेषु मध्ये सलिलं ददाति ।
आम्राश् च सिक्ताः पितरश् च तृप्ता एका क्रिया द्व्यर्थकरी बभूव ॥
या सा वैतरणी नाम नदी त्रैक्यविश्रुता ।
सावरीर्णा महाभागा पितॄणां तारणाय वै ॥
तत्र गत्वा नरः स्नात्वा गोदानं प्रकरोति यः ।
एकविंशतिवंश्यान् वै तारयेन् नात्र संशयः ॥
महानदी ब्रह्मसरो ऽक्षयो वटः प्रभास्म् उद्यन्तम् अथो गयाशिरः ।
सरस्वती धेनुकधर्मपृष्ठे एते कुरुक्षेत्रसमा गयायाम् ॥
यदि पुत्रो गयां गच्छेत् कदाचित् कालपर्ययात् ।
तान् एव भोजयेद् विप्रान् ब्रह्मणा ये प्रकल्पिताः ॥
येषां ब्रह्मसदः स्थानं सोमपानं तथैव च ।
ब्रह्मकल्पितसंस्काराः विप्रा ब्रह्मसमाः स्मृताः ॥
वसो देहपरित्यागो गयायां तु विधीयते ।
श्राद्धं पिण्डोदके चैव गयायां परिकीर्तितम् ॥
यः करोति वृषोत्सर्गं गयाक्षेत्रे ह्य् अनुत्तमे ।
अग्निष्टोमसमं पुण्यं लभते नात्र संशयः ॥
तत् कूपयूपयोर् मध्ये पिण्डं दद्यान् महीतले ।
कूपोदकेन तत् कृत्वा पितॄणां दत्तम् अक्षयम् ॥
ब्रह्मणा सदसि ब्राह्मे यूपः पुण्यः प्रकल्पितः ।
यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ॥
नाम्ना कनकनन्देति तीर्थं चातिपवित्रकम् ।
उदीच्यां मुण्डपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।
तत्र स्नात्वा दिवं यान्ति स्वशरीरेण मानवाः ॥
दत्तं चापि सदा श्राद्धम् अक्षय्यं समुदाहृतम् ।
तत्र पुष्करिणी रम्या सुपुम्ना नाम नामतः ॥
स्नात्वा ऋणत्रयात् तत्र मुच्यते क्षीणकल्मषः ।
श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम् ॥
तारयेच् च सदाश्राद्धी दश पूर्वान् दशापरान् ।
मानसे सरसि स्नात्वा श्राद्धं निर्वर्तयेत् ततः ।
तीरे तु तस्य सरसो देवस्यायतनं महत् ॥
आरुह्य तु विमानं च सद्यो याति दिवं नरः ।
उत्तरं मानसं गत्वा सिद्धिं प्राप्नोति चोत्तमाम् ॥
तस्मिन् निर्वर्तयेच् छ्राद्धं यथाविभवम् आदरात् ।
कामांश् च लभते दिव्यान् मोक्षोपायं च विन्दति ॥
मानसे सरसि श्रेष्ठे दृश्यते महद् अद्भुतम् ।
दिव्यश्रुतश् च नक्षत्रग्रहशब्दो निशाम्यते ॥
गयायां गृध्रवटे च श्राद्धं दत्वा महाफलम् ।
गोगयायाः शिरो यत्र तत्र पुण्या महानदी ॥
ऋषिदेवैः सदा जुष्टं तीर्थं ब्रह्मसरस् तथा ।
यत् फलं संनिहत्यायां राहुग्रस्ते दिवाकरे ।
फलं तद् अखिलं प्रोक्तं गयायां तु दिने दिने ॥
नन्दन्ति पितरस् तस्य सुवृष्टैर् इव कर्षकाः ।
गयागतो ऽन्नदाता यः पितरस् तेन पुत्रिणः ॥
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।
तथा वर्षत्रयोदश्यां मघासु च न संशयः ॥

इति स्मृतिचन्द्रिकायां गयाश्राद्धविधिनिरूपणम्