४५ गङ्गाम्भस्य् अस्थिनिक्षेपः

अथ गङ्गाम्भस्य् अस्थिनिक्षेपः

तत्र शाण्डिल्यः ।

द्वारवत्यां सेतुबन्धे गोदावर्यां च पुष्करे ।
अस्थीनि विसृजेद् यस्य स मृतो मुक्तिम् अप्नुयात् ॥ इति ।

शङ्खलिखितौ ।

गङ्गायां च प्रयागे च केदारे पुष्करोत्तमे ।
अस्थीनि विधिवत् त्यक्त्वा गयायां पिण्डदो भवेत् ।
पित्रो ऋणात् प्रमुच्येत तौ नित्यं मोक्षगामिनौ ॥ इति ।

योगयाज्ञवल्क्यः ।

गङ्गायां यमुनायां या कावेर्यां वा शुतुद्रुतौ ।
सरस्वत्यां विसेषेण ह्य् अस्थीनि विसृजेत् सुतः ॥ इति ।

शालंकायनः ।

अस्थिसंचयनं कृत्वा स्वगृह्योक्तविधानतः ।
कुम्भे निधाय चस्थीनि कुम्भं भूमौ विनिक्षिपेत् ॥
तत् स्पृष्ट्वा शिष्टमन्त्राणां जपतः कर्म सिध्यति ।
अस्थिशुद्धिं विधायैव वृक्षाग्रे वा सुभे स्थले ॥
निधाय यात्रापर्यन्तं रक्षां कुर्याद् विचक्षणः ।
निक्षिपेत् पूर्वतो भूमौ षण्मसं नावलोकयेत् ॥
त्रिपक्षं वा त्रिमासं वा बूमेर् उद्धरणं न च ।
अनित्यत्वाच् छरीरस्य कालद्रव्यादिसंभवे ॥
मासादिषु व्यतीतेषु अस्थीन्य् उद्धर्तुम् इच्छति ।
त्र्यब्दम् अब्दद्वयं चैकं कृच्च्छ्रं मासाद्यनुक्रमात् ॥

कृत्वेति शेषः ।

ततस् तद्दोषशान्तिः स्याद् अन्यथा नरकं व्रजेत् ।
महातीर्थे दुर्मरणे दशाहाभ्यन्तरे सुतः ॥
अस्थिसंचयनं शुद्धिं कृत्वाम्भसि विनिक्षिपेत् ।
अर्धोदके मृतिर् यस्य तं दग्ध्वा विधिवद् बहिः ॥
अस्थिसंचयनार्थानां मन्त्राणां जपपूर्वकम् ।
तिलैर् आज्येन मधुना हिरण्यशकलैर् जलैः ॥
दुग्धेनाग्निं प्रशाम्यैव गङ्गाम्भसि विनिक्षिपेत् ॥ इति ।

आपस्तम्बो ऽपि - “चतुर्थे ऽग्न्य् अस्थिसंचयनं तेषां गङ्गाम्भसि प्रेक्षेपः” इति । अस्थ्युद्धरणप्रकारम् आह जयन्तः ।

कर्तुर् जन्मत्रयं भद्रां त्रिपाद् ऋक्षाणि वर्जयेत् ।
भौमभृग्वर्कवारांश् च भध्राख्यं करणं तथा ॥
कीकसोद्धरणार्थाय तद्देशं बन्धुभिः सह ।
गत्वा तत्र नमस्कृत्य प्राणायामपुरःसरम् ॥
संकल्प्याप उपस्पृश्य मन्त्रम् एतद् उदीरयन् ।
सरंसहे वसुमति त्वयि सर्वं लयं गतम् ।
त्वं गर्भरक्षितं देहि मत्पित्राद्यस्थि पावने ।
इति संप्रार्थ्य भूदेवीं भूमिर् भूमिं जपेच् छनैः ॥
काष्ठेन खननं कृत्वा ह्य् अस्थीन्य् आदाय कुम्भतः ।
कुम्भो यथा न चलति तथा कार्यं प्रयत्नतः ॥
कुम्भसंपूरणं कुर्याद् गन्धपुष्पफलैर् मृदा ।
भूमिं पूर्वसमां कुर्याद् बलिं तत्र विनिक्षिपेत् ॥
बह्वन्नपानभक्ष्याद्यैर् यथा तृप्तिं प्रयाति सा ।
ततो ऽनुमन्त्रयेद् एतां बलित्थेति (?) तृचेन च ॥
ततो गृहीत्वास्थि सुतो नदीतीरे निधाय तत् ।
प्रक्षाल्य पञ्चगव्येन पञ्चाम्र्तविधानतः ॥
शातकुम्भोदकैः सम्यग् एषान्या शुद्धिर् ईरिता ।
स्पृष्ट्वा स्पृष्ट्वा तदस्थीनि (?) शतवारं मृदादिभिः ॥
स्नानं कुर्युर् विधानज्ञाः ब्राह्मणा भूतभावनाः ।
अदैवं दैवतं कुर्युर् दैवतं च सुदैवतम् ॥
ब्राह्मणाश् च महाभागास् तेभ्यो दद्याच् च दक्षिणाम् ।
कर्ता स्नानं स्वशुद्ध्यर्थं कुर्याद् वा कारयेत वा ॥
मृत्तिकाख्यं स्वशक्त्या तु त्रिंशद् वा पञ्चविंशतिः ।
ततः कुम्भोदकैः कुर्युर् अभिषेकं शतादिवत् ॥
श्रीरुद्रपवमानाभ्यां सूक्तैर् विष्ण्वादिसंज्ञितैः ।
तेषु ध्यायेद् वसून् रुद्रान् आदित्यान् पितृदेवताः ॥
शिवं विष्णुं तथेन्द्रादीन् सर्वाश् चैवेष्टदेवताः ।
अर्चयेद् गन्धपुष्पाद्यैर् नैवेद्यान्तैर् यथाविधि ॥
नमस्कृत्य विधानज्ञं दक्षिणाभिश् च तोषयेत् ॥
आविकाजिनवस्त्रैश् च क्षौमकौशयवर्णकैः ।
कुशरज्ज्वा दृढं बध्वा गङ्गाम्भसि विनिक्षिपेत् ॥ इति ।

आदिपुराणे ।

गङ्गा भागीरथी यत्र संनिधानं करोत्य् अथ ।
अस्थ्नां तत्राम्भसि क्षेपो ब्रह्मलोकाय कल्पते ॥
अस्थीनि मातापितृपूर्वजानां नयन्ति गङ्गाम्भसि ये कदाचित् ।
तद्बान्धवस्यापि दयाभिभूतास् तेषां च तीर्थानि फलप्रदानि ॥
स्नात्वा ततः पञ्चगव्यैर् निषिच्य हिरण्यमध्वाज्यतिलैर् विकीर्य ।
अस्थीनि मृत्पिण्डपुटे निधाय पश्यन् दिशं पितृराजोपगूढाम् ॥
नमो ऽस्तु धर्माय इति प्रविश्य जले स मे प्रीत इति क्षिपेच् च ।
उत्थाय भास्वन्तम् अवेक्ष्य सूर्यं स दक्षिणां विप्रमुख्याय दद्यात् ॥
एवं कृते प्रेतपुरे स्थितस्य स्वर्गे गतिः स्याच् च महेन्द्रतुल्या ॥ इति ।

महाभारते ।

यावद् अस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥ इति ।

ब्रह्मपुराणे ।

अस्थीनि मातापितृपूर्वजानां दशाश्वमेधे तु नरो नभस्थे ।
कृष्णाष्टम्यां पञ्चगव्यैर् निषिच्य (?) हिरण्यमध्वाज्यतिलैर् विकीर्य ॥
पुण्ये तु मृत्पिण्डपुटे निधाय नमो ऽस्तु धर्माय इति ब्रुवंश् च ।
क्षिपेज् जले पितृतीर्थेन भक्त्या नत्वाथ सूर्यं प्रयतः प्रपश्येत् ॥
यथाशक्त्या दक्षिणां चापि दत्वा पितॄन् सर्वान् ब्रह्मलोकं नयेत् सः ॥
नभस्य् अस्यापरे पक्षे अष्टम्यां मध्यगे रवौ ।
ब्राह्मणानुज्ञयास्थीनि पक्षे अष्टम्यां मध्यगे रवौ ।
ब्राह्मणानुज्ञयास्थीनि गङ्गाम्भसि विनिक्षिपेत् ॥
एवं कृते महपापी सुरापी गुरुतल्पगः ।
सर्वपंतिकयुक्तो ऽपि (?) मुक्तः स्यान् नात्र संशयः ॥ इति ।

पद्मपुराणे ।

अस्थ्नां कृत्वा तु संशुद्धिं केशवाद्यैश् च नामभिः ।
पञ्चगव्येषु निक्षिप्य गन्धादैः संप्रपूजयेत् ॥
द्विजानुज्ञाम् अवाप्यैव गङ्गायां सुसमाहितः ।
संकल्पप्रयतस् तस्य चोच्चरन् गोत्रनामनी ॥
अघमर्षणसूक्तेन धर्मायैव नमोऽस्त्व् इति ।
विसर्जयेत् ततो ऽस्थीनि यावद् अस्थीनि तज् जपेत् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अस्थिनिक्षेपप्रकारः