४४ यतिसंस्कारविधिः

अथ यतिसंस्कारविधिः

तत्र यमः ।

सर्वसंगनिवृत्तस्य ध्यानयोगरतस्य च ।
न तस्य दहनं कार्यं नाशौचं नोदकक्रिया ॥
शुचौ देशे ऽथ गायत्र्या देहं प्रक्षाल्य वारिणा ।
मधुना सर्पिषाभ्यज्य प्रक्षाल्य च सुगन्धिभिः ॥
हिरण्यवर्णा इत्य् आभिर् आपोहिष्ठादिभिस् त्रिभिः ।
पवमानानुवाकेन शुद्धवत्या तरत्समैः ॥
शुचीवो ऽग्निः शुचीत्य् ऋग्भिः प्रवदाजातवेदसा ।
पवित्रं ते ऽथ चरणं पवित्रम् इति च त्रिभिः ॥
अभिषिच्य कुशाग्रैर् वा द्विजानुज्ञाम् अवाप्य च ।
अलंकृत्य च गायत्र्या गन्धमाल्यैः समन्ततः ॥
दृढे शिक्ये निधायाथ वहेयुर् ब्राह्मणा दृढम् ।
तेषां हि वहताम् अत्र सद्यःशौचं विधीयते ॥
खनित्वा तु शनैर् भूमिं शिरोमात्रं तदन्तरे ।
निक्षिप्य स्नानमात्रेण शुद्धिं स्वायम्भुवो ऽब्रवीत् ॥ इति ।

बोधायनः ।

अथ संन्यासिनां धर्मो मृतानां विधिर् उच्यते ।
ग्रामात् प्राचीम् उदीचीं व गत्वा यद् वान्यतो दिशम् ॥
ब्रह्मवृक्षस्य् वाधस्ताद् अश्वत्थस्य शमीतरोः ।
खात्वा वा यज्ञवृक्षस्य नदीतीरे शुचिस्थले ॥
गर्तं सप्तव्याहृतिभिः खातं प्रोक्ष्याथ सप्तभिः ।
आस्तीर्याथ कुशान् अद्भिः प्रणवेनाभिमन्त्रयेत् ॥
शवं पञ्चामृतैः स्नाप्य सूक्तेन पुरुषेण च ।
गन्धमाल्यैर् अलंकृत्य शिक्येनादाय धार्मिकः ॥
निदधाति शवं श्वभ्रे प्राङ्मुखोदङ्मुखं च वा ।
विष्णो हव्यं रक्षस्वेति इदं विष्नुर् विचक्रमे ॥
अनेन दक्षिणे हस्ते दण्डं स्थाप्याथ कुण्डके ।
यद् अस्य पारे रजस इति शिक्यं निधापयेत् ॥
येन देवाः पवित्रेण मुखे जलपवित्रकम् ।
सावित्र्या प्रणवेनैव उदरे ब्रह्मभाजनम् ॥
भूमिर् भूमिम् अगान् मातेत्य् ऋचा मध्ये कमण्दलुम् ॥
चित्तिः श्रुग् इति दशभिर् होतृभिश् चानुमन्त्रयेत् ॥
सिकतैः पांसुभिः श्वभ्रं संपूर्य श्वापददिभिः ।
अभेदनं यथा तद्वत् ततो मार्जनलेपनैः ॥
अलंकृत्य सुगन्धाद्यैस् ततो गर्तं महाजले ।
स्नानमात्रेण शुद्धिः स्यान् न विधिर् नोदकक्रिया ॥ इति ।

अत्र ज्ञातिभिर् अपि सचेलस्नानमात्रं कर्तव्यम् । तथा च स्मृत्यन्तरम् ।

पुत्रो भ्राताथ दौहित्रः सपिण्डः शिष्य एव वा ।
यतिं स्पृशन् वहित्वापि सद्यः स्नानेन शुध्यति ॥
संनिकृष्टैस् तु संन्यस्ते पितर्य् उपरते सुतैः ।
दहनं चैव कर्तव्यं यच् चान्यच् च स्वशक्तितः ॥
पितृमेधविधानेन दहेद् उत्तपनाग्निना ।
अपि होतृविधानेन गायत्र्या प्रणवेन वा ॥
जलावगाहनाद् एव स्पृष्ट्वा शुद्धास् तु गोत्रिणः ।
अश्वमेधफलं यान्ति दग्ध्वा संबन्धिनो द्विजाः ॥
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ।
सपिण्डीकरणं तेषां न कर्तव्यं सुतेन तु ।
त्रिदण्डग्रहणाद् एवाप्रेतम् आहोशना (?) मुनिः ॥
कुटीचकं च प्रहरेत् पूरयेच् च बहूदकम् ।
हंसो जले विनिक्षेप्यः परं हंसं विदारयेत् ॥ इति ।

इति स्मृतिचन्द्रिकायां यतिसंस्करविधिः