४३ पर्युषितादिदोषे प्रायश्चित्तादिनिरूपणम्

अथ पर्युषितादिदोषे प्रायश्चित्तादिनिरूपणम्

पर्युषितादिदोषे प्रायश्चित्तम् ।

दिवा वा यदि वा रात्रौ शवस् तिष्ठति कर्हिचित् ।
तत् पर्युषितम् इत्य् आहुर् दहने तस्य का गतिः ॥
पञ्चगव्येन संस्नाप्य प्राजापत्यं समाचरेत् ।
क्लिन्ने छिन्ने ऽतिदुर्गन्धे स्नाप्य गोमयवारिणा ॥
तप्तकृच्छ्रं द्विजैर् लब्ध्वा पुण्याद्भिर् अभिषेचयेत् ।
क्रिमिर् उत्पद्यते यत्र स्नाप्य गोमयवारिणा ॥
मृद्भस्मकुशगोमूत्रैः प्रक्षाल्य च पुनः पुनः ।
तप्तकृच्छ्रैस् त्रिभिः सुद्धिं लब्ध्वा दग्धं पुनर् दहेत् ॥
सवे दण्डालसंस्पृष्टे स्पृष्टो वा म्रियते यदि ।
चान्द्रायणं द्विजैर् लब्ध्वा स्नाप्य मन्त्रैः पुरोदितैः ॥
वस्त्राद्यैर् भूषितं कृत्वा शवधर्मेण दाहयेत् ॥
रजस्वलासूतिकयोः स्पर्शे ऽन्त्यजसुनोर् यदि ।
मृतं वा म्रियमाणं वा चान्द्रः सर्वत्र शोधकः ॥
विधिना तु भृगोः पातं श्वसूकरमृगादिभिः ।
न शोधयेत् तु संस्पृष्टं पुराणेxव् अव्रतिन् मुनिः ॥
वृद्धो भिषक्क्रियात्यक्तः शौचाचारक्रियाक्षमः ।
स्वहस्तब्रह्महा स्तेयी सुरापी गुरुतल्पगः ॥
करीषाग्नौ दहेद् देहं भृगोः प्रपतनेन वा ।
नाशयेद् यावद् अयुष्यं गङ्गायमुनसंगमे ॥
महानदीं विशेद् वापि न दोषो ऽस्त्य् अत्र दुर्मृतौ ॥

आदिपुराणे ।

दुश्चिकित्सैर् महारोगैः पीडितस् तु पुमान् यदि ।
प्रविशेज् ज्वलनं दीप्तं कुर्याद् अनशनं तथा ॥
अगाधतोयराशिं वा भृगोः पतनम् एव वा ।
गच्छेन् महापथं वापि तुषारगिरिम् आदरात् ॥
प्रयागवटशाखायां देहत्यागं करोति वा ।
गङ्गायमुनमध्यस्थः सरस्वत्यां विशेन् मुदा ॥
उत्तमान् आप्नुयाल् लोकान् नात्मघाती भवेत् क्वचित् ।
वाराणस्यां मृतो यस् तु प्रत्याख्यातभिषक्रियः ।
काष्ठापाषाणमध्यस्थो जाह्नवीजलमध्यगः ।
अविमुक्तस्थितस् तस्य कर्णमूलं गतो हरः ॥
प्रणवं तारकं ब्रूते नान्यधा कस्यचित् क्वचित् ॥ इति ।

ब्रह्मगर्भः ।

यो ऽनुष्ठातुम् अशक्तो ऽपि महाव्याध्युपपीडितः ।
अब्धिवारिमहायात्रां कुर्वन् नामुत्र दुष्यति ॥ इति ।

इति स्मृतिचन्द्रिकायां पर्युषितादिदोषे प्रायश्चित्तादिनिरूपणम्