४१ नारायणबलिः

अथ नारायणबलिः

ब्रह्मपुराणे ।

नारायणबलिं वक्ष्ये व्यासेनोक्तं यथा पुरा ।
चण्डालोदकसर्पाद्यैर् विद्युज्ज्वालाविषादिभिः ॥
गिरिवृक्षाश्मभिः शस्त्रैः पशुदंष्ट्रिनखिद्विजैः ।
मृतानां नैष्ठिकानां च यतीनां च तपस्विनाम् ॥
वैष्णवानां विशेषेण चान्येषां मोक्षकाङ्क्षिणाम् ।
मृतानां नैष्ठिकादीनां द्वादशे ऽहनि कारयेत् ॥
संवत्सरात् परं कुर्याच् चण्डालाद्यैर् हतस्य च ।
आपत्तौ संकटे रोगे यद् वा देशविपर्यये ॥
कर्तृद्रव्यादिसंदेहे प्राणसंदेहदर्शने ।
यस्मिन् कस्मिन् दिने वापि वत्सराद् बहिर् एव चेत् ॥
उत्तरायणगे सूर्ये विषुवे चायने ऽपि वा ।
श्रोणायाम् अथ रोहिण्याम् एकादश्यां तु पक्षयोः ॥
पूर्वेद्युर् ब्राह्मणान् षड् वा निमन्त्र्य द्वादशापि वा ।
एकम् आचार्यकं वृत्वा कुलशीलगुणान्वितम् ॥
सर्वावयवसंपूर्णं वेदशास्त्रार्थपारगम् ।
तत्र स्नानं मृदाद्भिश् च विधानेन समाचरेत् ॥
शुक्लाम्बरधरः सम्यक् परिधायोत्तरीयकम् ।
उपवासं च संकल्प्य कर्ता तावज् जितेन्द्रियः ॥
प्रक्षाल्य पादाव् आचम्य उपविश्यासने शुभे ।
गोचर्ममात्रं संलिप गोमयेन च वारिणा ॥
कुण्डं वा स्थण्डिलं कृत्वा रक्तवर्णमृदादिभिः ।
उपलिप्य यथापूर्वं स्वशाखोक्तविधानतः ।
आहूय विप्रान् संपूज्य स्वस्तिवाचनम् आचरेत् ॥
शोभोप्शोभासंयुक्तं मनोहरतरं परम् ।
तन्मध्ये स्थापयेत् कुम्भं विष्णुं वैवस्वतं यमम् ॥
स्थाप्येत् स्वर्णरौप्यादिकृतं तत्र प्रपूजयेत् ।
वस्त्राभ्यां स्वर्णरौप्येण गन्धपुष्पाक्षतैः शुभैः ॥
पञ्चाङ्गुलं क्रमात् कुर्याद् आत्मशुद्धिपुरःसरम् ।
आसाद्य द्रव्यपात्रादि कुर्यान् न्यासादिकं ततः ॥
गन्धपुष्पाक्षतादींश् च आदायावाहयेद् धरिम् ।
ॐ नमो नारायणायेति मूलमन्त्रः प्रकीर्तितः ॥
वैवस्वताय च नमो यमाय च नमस् तथा ।
सर्वोपचारैः संपूज्य गन्धमाल्यैर् मनोहरैः ॥
ऋग्यजुःसाममन्त्रैश् च स्तुत्वा तद्दैवतैर् हरिम् ।
नृत्यगीतादिवाद्यैश् च पुराणैश् चेतिहासकैः ॥
विष्णोर् नामसहस्रेण स्तुत्वा स्तोत्रकथादिभिः ।
त्रिवारं सम्यग् अभ्यर्च्य कुर्याज् जागरणं निशि ॥
पूर्वादिषु दलेष्व् एवं केशवादीन् प्रपूजयेत् ।
मद्वाज्यतिलमिश्रेण पिण्डान् दद्यात् समाहितः ॥
अपसव्यम् अवाक्पाणिः पञ्च पिण्डान् कुशेषु तु ।
दक्षिणाभिमुखो भूत्वा ब्रह्मणे च शिवाय च ॥
यमाय विष्णवे चैव प्रेतं च मनसा स्मरन् ।
पत्न्यादिभ्यो न दद्यात् तु स्नात्वा गच्छेद् गृहं प्रति ॥
आचार्यः प्रातर् उत्थाय स्नात्वा संध्यादि नैत्यकम् ।
कृत्वा चैव तु पूर्वाह्णे विष्णुं वैवस्वतं यमम् ॥
केशवादींश् च संपूज्य ब्रह्माणं शंकरं तथा ।
स्वगृह्यविधिम् आश्रित्य होमं पश्चात् समाचरेत् ॥
विष्णोर् नुकं परोमात्रेत्य् आभ्यां हुत्वा तु पक्वतः ।
ॐ नमो नारायणायैव यमाय ब्रह्मणे शिवे ॥
सूक्तेन पौरुषेणैव जुहुयात् षोडशाहुतीः ।
नामभिः केशवाद्यैश् च समिदाज्यैः समापयेत् ॥
ततो विप्रान् समाहूय देवार्थम् उपवेशयेत् ।
प्रथमं चैव विष्ण्वर्थं यमं वैवस्वतं ततः ॥
विध्यर्थं तु ततो रौद्रं प्रेतार्थम् अपरं स्मृतम् ।
प्राङ्मुखान् देवकार्यार्थान् प्रेतार्थं च उदङ्मुखम् ॥
आवाहनादि यत् प्रोक्तं देवपूर्वं तद् आचरेत् ।
अङ्गुलीयकवस्त्रादीन् यथाशक्ति समर्पयेत् ॥
अग्नौ करिष्य इत्य् एतान् अनुज्ञाप्य प्रचोदितः ।
पितृयज्ञविधानेन कृत्वा संबोजयेद् द्विजान् ॥
तृप्तान् ज्ञात्वा ततो विप्रान् तृप्तिं पृष्ट्वा यथाविधि ।
मध्वाज्यतिलमिश्रेण पिण्डान् दद्यात् तु बर्हिषि ॥
विष्णवे प्रथमं दद्याद् ब्रह्मणे च शिवाय च ।
यमाय पञ्चमं पिण्डं दद्याद् वैवस्वताय च ॥
षष्ठं तु प्रेतम् उद्दिश्य नाम्गोत्रम् अनुस्मरन् ।
विष्णोर् नाम गृहीत्वैव जलान्ते तान् समत्सृजेत् (?) ॥
होमान्ते द्वादशपक्षे विष्णुं वैवस्वतं यमम् ।
त्रिभिर् विप्रैः समभ्यर्च्य पित्रादींश् च त्रिभिः पितॄन् ॥
मातामहादिकान् अन्यान् आचार्यं प्रेतरूपतः ।
पार्वणेन विधानेन कैशवाद्यैश् च नामभिः ॥
संपूज्य भोजयित्वा तु पिण्डान्ते बलिम् उत्सृजेत् ।
ॐ नमो नारायणायैव पित्रे चैव स्वधा नमः ॥
एवं मातामहादीनां बलिम् उत्सृज्य नामभिः ।
ब्राह्मणान् भोजयित्वा तान् दद्यात् तेभ्यश् च दक्षिणाम् ॥
वस्त्रगन्धाक्षतैः पुष्पैर् आचार्यं सम्यग् अर्चयेत् ।
वृषं धेनुम् अनड्वाहौ स्वर्णं कांस्यम् अथापि वा ॥
वासो वा दक्षिणां दद्यात् प्रेतरूपे ऽपि शक्तितः ।
गृहीत्वाशिषम् अप्य् एभ्यः प्रणिपत्य क्षमापयेत् ॥
सुताद्यो विधिम् एतं तु कृत्वा तु प्राप्नुयात् सुतान् ।
अकालमृत्युदोषाच् च मुच्यते नत्र संशयः ॥
इदं कर्म कृतं भक्त्या विष्णुलोकजिगीषया ।
इह कामान् अवाप्नोति विष्णुलोकं स गच्छति ॥ इति ।

सर्पहते त्व् अयं विसेषस् त्वष्टृपुराणे दर्शितः ।

सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
विप्राय विधिवद् दत्वा पितुर् आनृण्यम् आप्नुयात् ॥ इति ।

अत्रापवाद आदित्यपुराणे दर्शितः ।

प्रमादाद् अपि निःशङ्खम् अकस्मान् मृत्युना मृतिः ।
शृङ्गिदंष्ट्रिनिखिव्यालविषविद्युज्जलादिभिः ॥
चण्डालैर् अथ वा चोरैर् निहतो यत्र कुत्रचित् ।
तस्य दाहादिकं कार्यं यस्मान् न पतितस् तु सः ॥ इति ।

अङ्गिराः ।

यदि कश्चित् प्रमादेन म्रियते ऽग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं दद्यात् पिण्डोदकक्रियाः ॥ इति ।

तत्रापि प्रायश्चित्तोत्तरकालम् एव । गौतमः - “यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत् सर्वाण्य् एवोदकानि प्रेतकार्याणि कुर्युः” इति । शातातपः ।

वृद्धः शौचक्रियालुप्तः प्रत्यख्यातभिषक्क्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥
तस्य त्रिरात्रम् आशौचं द्वितीये ऽह्न्य् अस्थिसंचयः ।
तृतीये तूदकं दत्वा चतुर्थे श्राद्धम् आचरेत् ॥ इति ।

अस्ति च भृगुपतनादौ विधिः । तथा च पुराणम् ।

दुश्चिकित्सैर् महारोगैः पीडितस् तु पुमान् यदि ।
प्रविशेज् ज्वलनं दीप्तं कुर्याद् अनशनं तथा ॥
अगाधतोयरशिं (?) वा ॥॥॥॥॥॥॥॥॥॥॥॥। ॥

इत्यादि वक्ष्यते ।

विप्राग्न्युदकचण्डालशृङ्गिदंश्ट्र्यभिशस्तितः ।
अकामतो मृतानां तु दापयेद् ऐन्दवद्वयम् ॥ इति ।

इति स्मृतिचन्द्रिकायां नारायणबलिविधिः