४० नग्नप्रच्छादनश्राद्धम्

अथ नग्नप्रच्छादनश्राद्धम्

तत्र गोबिलः ।

नग्नप्रच्छादनं श्राद्धं स्नानान्ते तु मृते ऽहनि ॥
घटे तण्डुलपूर्णे वा वाससा परिवेष्टिते ॥
पिधाय कांस्यपात्रेण तस्मिन्न् आज्यं विनिक्षिपेत् ।
हिरण्यं तत्र निक्षिप्य यथाविभवसारतः ।
कुलीनाय दरिद्राय श्रोत्रियाय कुटुम्बिने ॥
संप्रदद्यात् तदा भक्त्या विष्णुं च मनसा स्मरन् ।
प्रेतम् उद्दिश्य संपूज्य ब्राह्मणं तु वसर्जयेत् ॥ इति ।

व्यासः ।

वासस्तण्डुलमृत्पात्रं प्रदीपं कांस्यभाजनम् ।
दहनानन्तरं दद्यान् नग्नप्रच्छादनं हि तत् ॥ इति ।

संचयनाङ्गम् अपरं श्राद्धं तथैवोक्तम् ।

तृतीये ऽहनि कर्तव्यं प्रेतदाहदिनाद् द्विजः । इति ।

कूर्मपुराणे विशेषो ऽभिहितः ।

प्रेताय च गृहद्वानि चतुर्थे भोजयेद् द्विजान् ।
द्वितीये ऽहनि कर्तव्यं क्षुरकर्म च बान्धवैः ॥
चतुर्थे बान्धवैः सर्वैर् अस्थिसंचयनं चरेत् ।
पूर्वान् विप्रान् नियुञ्जीत युग्मांस् तु श्रद्धया शुचीन् ॥
पञ्चमे नवमे चैव तथैवैकादशे ऽहनि ।
युग्मान् विप्रांस् तु भुञ्जीयान् नवश्राद्धं ततो विधुः ॥

ब्रह्मपुराणे ।

चतुर्थे ब्राह्मणानां च पञ्चमे ऽहनि भूभुजाम् ।
नवमे ऽहनि वैश्यानां शूद्राणां दशमे ऽहनि ॥
प्रेतार्थं सूतकान्ते तु ब्राह्मणान् भोजयेद् दश ।
नवश्राद्धनिमित्तं तु एकम् एकादशे ऽहनि ॥ इति ।

इति स्मृतिचन्द्रिकायां नग्नप्रच्छादनश्राद्धनिरूपणम्