३९ नवश्राद्धानि

अथ नवश्राद्धानि

तत्र तावन् नवसंज्ञकानाम् अन्तर्दशाहे क्रियमाणानां नवश्राद्धसंज्ञाम् अभिनिवेशयन्न् आश्वलायनो दशाहपर्यन्तं नवश्राद्धं मन्यते । शिवस्वामी ।

नवश्राद्धानि पञ्चाहुर् आश्वलायनशाखिनः ।
आपस्तम्बाः षड् इत्य् आहुर् विभाषाम् ऐतरेयिणः ॥ इति ।

प्रजापतिः ।

नवश्राद्धं दशाहान्तं मिश्रं संवत्सराद् अधि ।
एकादशाहम् आरभ्य कुर्यात् प्रेतत्वमुक्तये ॥ इति ।

वसिष्ठः ।

सूतकान्तं नवश्राद्धं कुर्याद् एकादशे शुचिः ।
नवश्राद्धं दशाहानि नवमिश्रं षड् अन्वहम् ॥ इति ।

अत्र षण्णवश्राद्धं केचिद् आहुः । अङ्गिराः ।

प्रथमे ऽह्नि तृतीये ऽह्नि पञ्चमे सप्तमे तथा ।
नवमैकादशे चैव षण्णवश्राद्धम् उच्यते ॥ इति ।

व्यासः ।

आ द्वादशाहं मरणाद् विषमेषु दिनेषु षट् ।
नवश्राद्धान्य् अनुतिष्ठेद् एकोद्दिष्टविधानतः ॥ इति ।

स्कन्दपुराणे ।

पञ्चमे सप्तमे तद्वत् तृतीये प्रथमे तथा ।
नवैकादशे चैव नवश्राद्धानि तानि वै ॥
वैतरण्या समं प्राप्तः प्रेतस् तृप्तिम् अवाप्नुयात् ॥ इति ।

अत्र व्यवस्थाम् आह काश्यपः ।

नवश्राद्धानि पञ्चाहुर् आश्वलायनशाखिनः ।
आपस्तम्बाः षड् इत्य् आहुः षड् वा पञ्चान्यशाखिनः ॥
केचित् पञ्चैव नवमं भवेद् अन्तरितं यदि ।
एकादशे ऽह्नि तत् कुर्याद् इति स्मृतिकृतो विदुः ॥ इति ।

अत्र नागरखण्डे विशेषो ऽभिहितः ।

नव सप्त विषां राज्ञां नवश्राद्धान्य् अनुक्रमात् ।
आद्यन्तयोर् वर्णयोस् तु षड् इत्य् आहुर् महर्षयः ॥ इति ।

स्मृत्यन्तरे ।

सूतकान्ते गृहे श्राद्धम् एकोद्दिष्टं प्रचक्षते ।

इत्य् अत्र “सूतकान्ते गृहे” इति विशेषोपादानान् नवश्राद्धानि मरणस्थाने श्मशाने पिण्डोदकस्थाने वा कार्याणि ॥

इति स्मृतिचन्द्रिकायां नवश्राद्धनिरूपणम्