३८ नवमिश्रैकोद्दिष्टम्

अथ नवमिश्रैकोद्दिष्टम्

तत्र याज्ञवल्क्यः ।

एकोद्दिष्टं दैवहीनम् एकार्घैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥
उत्तिष्ठताम् इत्य् अक्षय्यस्थाने विप्रविसर्जने ।
अभिरम्यताम् इति वदेत् ब्रूयुस् ते ऽभिरताः स्म ह ॥ इति ।

तद् एतत् प्रकरणबलान् नवश्राद्धनवमिश्रविषयम् । अत्रापि सपिण्डीकरणार्थैकोद्दिष्टे विशेषो बोधायनेन दर्शितः ।

एकोद्दिष्टे निषिद्धे ऽपि यद्य् अप्य् आवाहनादिके ।
तत्सपिण्डागते त्व् एकोद्दिष्टे सर्वं समाचरेत् ॥
आवाहनं स्वधाशब्दं प्रेते बोधायनो ऽब्रवीत् ।
न स्नेहपक्वगोधूमविकारो धूप उच्यते ॥
एकोद्दिष्टे न तद् दद्याद् एतत् सर्वं सपिण्डने ।
एकोद्दिष्टेषु सर्वेषु न च पूर्वं निमन्त्रणम् ।
सपिण्डीकरणार्थे तु पूर्वेद्युः स्यान् निमन्त्रणम् ॥ इति ।

अत्र विशेषम् आह व्यासः ।

नवश्राद्धानि मिश्राणि सपिण्डीकरणं तथा ।
कृत्वा तु विधिवत् स्नायान् नैव स्नायान् मृते ऽहनि ॥ इति ।

इति स्मृतिचन्द्रिकायां नवमिश्रैकोद्दिष्टनिरूपणम्