३७ सपिण्डीकरणनिषेधे

अथ सपिण्डीकरणनिषेधे कानिचिद् वचनानि लिख्यन्ते

शातातपः ।

क्लीबैश् च पतितैर् एव दुष्टाभिः स्त्रीभिर् एव च ।
सपिण्डीकरणं कुर्याद् एकोद्दिष्टं समाचरेत् ॥
नैष्ठिकानां यतीनां च श्राद्धे नारायणार्पणम् ।
उपकुर्वाणकस्यैव सपिण्डीकरणं विदुः ॥
नैष्ठिको ब्रह्मचारी तु देहं त्यक्त्वा परं व्रजेत् ।
तस्य श्राद्धं न कार्यं स्यात् सपिण्डीकरणं न च ॥ इति ।

वृद्धवसिष्ठः ।

सपिण्डीकरणं नैव मृतानां ब्रह्मचारिणाम् ।
दाहादि षोडशाहान्तं निर्वर्त्यैव यथास्मृति ॥
द्वादशे ऽहनित् संप्राप्ते कृत्वा चैव तु पार्वणम् ।
नारायणं समुद्दिश्य विप्रान् अष्टौ तु भोजयेत् ॥
एकोद्दिष्टविधानेन श्राद्धं वा कारयेद् द्विजः । इति ।

अत्रोपकुर्वाणनैष्ठिकानां सपिण्डीकरणं कृताकृतम् । यतिविषये पुलस्त्यः ।

कुटीचको बहूदश् च हंसः परमहंसकः ।
चतुर्विधानां भिक्षूणाम् एकदण्डित्रिदण्डिनाम् ॥
षोडशानि नवश्राद्धं सपिण्डीकरणं च न ॥ इति ।

उशना ।

कुटीचको बहूदश् च हंसः परमहंसकः ।
सपिण्डीकरणं तेषां न कर्तव्यं सुतेन तु ॥
दण्डग्रहणमात्रेण प्रेतत्वं नैव जायते ।
प्रेतत्वस्य विमोकार्थं षोडशश्राद्धको विधिः ॥
पिण्डोदकं नवादीन क्षुत्तृष्णादिनिवृत्तये ।
सपिण्डीकरणश्राद्धं पितृत्वप्राप्तये विधिः ॥
अवस्थात्रयहीनानां यतीनां द्वादशे ऽहनि ।
श्राद्धाधिकारसिद्ध्यर्थं पार्वणं तु सुतश् चरेत् ॥
चतुर्विधानां भिक्षूणां ज्ञातिबन्धुसुतादिभिः ।
द्वादशे ऽहनि कर्तव्यं तेषां श्राद्धं तु पार्वणम् ॥ इति ।

यमः ।

सपिण्डीकरणं नैव कुर्याद् एवौरसः सुतः ।
एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा ॥
अहन्य् एकादशे प्राप्ते पार्वणश्राद्धम् आचरेत् ॥ इति ।

प्रजापतिः ।

सपिण्डीकरणं नैव यतीनां चैव सर्वदा ।
अहन्य् एकादशे प्राप्ते पार्वणं तु विधीयते ॥ इति ।

बृहस्पतिः ।

नवश्राद्धं यतेर् न स्यात् सपिण्डीकरणं न वा ।
अहन्य् एकादशे प्राप्ते कुर्यात् तस्य हि पार्वणम् ॥ इति ।

वसिष्ठः ।

एकोदिष्टं जलं पिण्डम् आशौचं प्रेतकर्म च ।
न कुर्यात् पार्वणाद् अन्यद् ब्रह्मभूताय भिक्षवे ॥

ब्रह्मभूतो ब्रह्माहम् अस्मीत्य् उपासकः । पुलस्त्यः ।

प्रव्रजेद् यदि संसाराद् ब्रह्मविध्यापरायणः ।
कुटीचको भवेद् वापि यद् वा चैव बहूदकः ॥
हंसो भवेत् ततो ज्ञाने परहंसस् ततो ऽधिकः ।
एकदण्डी त्रिदण्डी वा मनोदण्डी तु नित्यशः ॥
कुटीचकं तु प्रदहेत् पूरयेच् च बहूदकम् ।
हंसं जले विनिक्षिप्य परहंसं विदारयेत् ॥
सपिण्डीकरणं नैव सर्वेषां स्मृतिशासनात् ।
अहन्य् एकादशे प्राप्ते पार्वणं श्राद्धम् आचरेत् ॥
पिण्डयज्ञं सुतः कुर्याद् दर्सश्राद्धं मृते ऽहनि ।
यतेर् महालये दर्शे वा तस्य मृतवासरे ॥
पार्वणं स्याद् इतरेषाम् एकोद्दिष्टं तु वा भवेत् ॥ इति ।

सुमन्तुः ।

औरसः क्षेत्रजो वापि भ्राता वा तत्सुतो ऽपि वा ।
कुर्यात् तु पार्वणं श्राद्धं शिष्यान्तेवासिभूमिपाः ॥
कुटीचके तु दर्शादौ पार्वणश्राद्धम् आचरेत् ।
नारायणबलिं चैव पार्वणं तु बहूदके ॥
हंसे मृते सुतः कुर्यात् पार्वणं पितृयज्ञवत् ।
नारायणबलिं चैव तथा परमहंसके ॥
विष्णुं संपूज्य विधिवद् दत्वार्घ्यं बलिम् उत्तमम् ।
चरुं हुत्वा तु सूक्तेन पौरुषेण तु षोडश ॥
द्वादश ब्राह्मणान् भोज्य केशवाद्यैश् च नामभिः ।
यद् वा सर्वेषु कालेषु ब्राह्मणान् एव भोजयेत् ॥ इति ।

स्कन्दपुराणे ऽपि ।

चतुर्थम् आश्रमं गच्छेद् ब्रह्मविद्यापरायणः ।
एकदण्डी त्रिदण्डी वा सर्वसङ्गविवर्जितः ॥
एकादशे ऽह्नि संप्राप्ते यदि वा द्वादशे ऽहनि ।
पार्वणेन विधानेन श्राद्धं कुर्यात् तदौरसः ॥
प्रत्यब्दे दार्शिके श्राद्धे तीर्थेष्व् अपि महालये ।
संबन्धं नामगोत्रेण श्राद्धकालेषु नित्यशः ॥ इति ।

ब्रह्माण्डपुराणे ।

क्षत्रियो यदि राजा चेद् विप्रधर्मेण पूजयेत् ।
शूद्रो भवति भूपालो द्विजैर् मान्यः स वैश्यवत् ॥
ब्रह्मचार्य् अनुपेतस्य मान्यस् तस्य तु नैष्ठिकः ।
द्वयोर् अपि गृहस्थस् तु त्रयाणां त्व् अवनीगुरुः ॥
चतुर्णां तु कुटीचः स्यात् तेषां चैव बहूदकः ।
अधिकारस् तु सर्वेषां यतीनां प्रेतकर्मणि ॥
श्राद्धाधिकारो नैव स्याद् यतीनाम् औरसं विना ।
एकादशे ऽहनि प्राप्ते विष्णुं संपूज्य यत्नतः ॥
ब्राह्मणान् भोजयेच् छक्त्या विष्णुरूपम् अनुस्मरन् ॥ इति ।

स्कान्दे नागरखण्डे ।

स तथैवोपनीतस्य गृहस्थाश्रमम् आश्रितः ।
गुरुस् तयोर् व्रती श्रेष्ठस् तेषां संन्यासम् आश्रितः ॥
संस्कारो ऽपि त्रयो वर्णास् तथैवाश्रमिणश् च ये ।
यतीनां प्रेतकार्ये तु नरकं याति नान्यथा ॥
उदकं नात्र दातव्यं सपिण्डं श्राद्धम् एव च ।
नारायणबलिं तस्य कुर्याद् एकादशे ऽहनि ॥ इति ।

इति स्मृतिचन्दिकायां सपिण्डीकरणनिषेधे कानिचिद् वचनानि