३६ अनुगमने सपिण्डीकरणकालः

अथानुगमने सपिण्डीकरणकालः

अनुगमने पत्या सह सपिण्डीकरणं कार्यम् । तत्र यमः ।

पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः ।
सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैः ॥ इति ।

शातातपो ऽपि ।

मृता यानुगता नाथं सा तेन सहपिण्डताम् ।
अर्हति स्वर्गवासे ऽपि यावद् आभूतसंप्लवम् ॥ इति ।

वसिष्ठः ।

अनुयाने तु पतिना सपिण्डीकरणं सह ।
अन्तर्धाय तृणं मध्ये भर्तृश्वशुरयोर् अपि ॥ इति ।

केचिद् भर्त्रादिभिः सह सापिण्ड्यम् आहुः । यद् आह शङ्खः ।

मृतं पतिम् अनुव्रज्य या नारी ज्वलनं गता ।
अस्थिसंचयनान्ते ऽस्या भर्तृसंकार एव हि ॥
नवश्राद्धं सपिण्डान्तं भिन्नकालमृतौ यथा ।
सपिण्डीकरणश्राद्धं सह भर्त्रादिभिस् त्रिभिः ॥ इति ।

अत्र केचिद् अनुयाने एकचित्यारोहणे एकदिनमरणे स्त्रियाः पृथक्सपिण्डीकरणं नास्ति, भर्तुः कृते स्त्रिया अपि सापिण्ड्यं कृतं भवतीत्य् आहुः । विष्णुः ।

कृते पितरि मातुस् तु कुर्यात् सह सपिण्डनम् ।
पितुर् एव सपिण्डत्वे तस्या अपि कृतं भवेत् ॥ इति ।

सुमन्तुर् अपि ।

दम्पतुर् एककाले तु मृतयोर् वा यदि स्त्रियः ।
चित्यारोहणकाले तु षोडशान्तं पृथक् पृथक् ॥
सपिण्डीकरणं तस्या न च भर्तुः कृतं यदि । इति ।

एवमादीनि वचनान्य् अप्य् उक्तान्य् एकचित्यारोहणे स्त्रियाः पृथक्सपिण्डीकरणासमर्थपराणि वेदितव्यानि, भर्तुः कृते स्त्रिया अपि कृतं भवतीति शास्त्रस्य चरितार्थत्वात् । समर्थस् तु पृथग् एव कुर्यात् । तत्र स्मृत्यन्तरम् ।

या समारोहणं कुर्याद् भर्तुश् चित्यां पतिव्रता ।
द्वादशे ऽहनि संप्राप्ते पृथक्पिण्डे नियोजयेत् ॥
एकचित्यां समारूढौ दम्पती निधनं गतौ ।
मासिकानि नवश्राद्धं सपिण्डीकरणं पृथक् ॥ इति ।

शङ्खः ।

पितर्य् उपरते पत्न्यां क्रियाः कुर्युर् द्वयोर् अपि ।
अनुवृत्तिं वदन्त्य् एषां संघातमरणे ऽपि च ॥ इति ।

गौतमः ।

पतिव्रता तु या नारी भर्तारम् अनुगच्छति ।
पिण्डदानादिकं श्राद्धं सपिण्डीकरणं पृथक् ॥ इति ।

व्याघ्रपादः ।

दम्पत्योर् एकदा मृत्युर् दहेद् औपासनाद् उभौ ।
पृथक् पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ॥ इति ।

पृथक् श्राद्धादिक्रियाः सपिण्डीकरणम् च यदा भर्तुः मरणदिनाद् उत्तरदिनमृतायाः सहगमने परदिने चित्यारोहणेनानुगमने वा तत्र द्वादशाहे सपिण्डीकरणं कार्यम् । तद् उक्तं स्मृत्यन्तरे ।

पित्रोः संघातमरणे मातुर् अन्यत्र वा दिने ।
अनुयानमृतौ श्राद्धं यथाकालं समाचरेत् ॥ इति ।

पित्रोः संघातमरणे, पितृमरणदिनाद् उत्तरदिनमरणे परदिने ऽनुगमनमरणे वा मातुस् तत् तद् एकादशाहादिकाले षोडशश्राद्धानि सपिण्डीकरणादीनि कुर्यात् । देवलो ऽपि ।

तद्दिने वापरेद्युर् वा भर्तारम् अनुगच्छति ।
नवश्राद्धं षोडशं च सपिण्डीकरणं यथा ॥
यथाकाले तु कर्तव्यं प्रतिसंवत्सरं यथा । इति ।

वसिष्ठः ।

दह्यमानं तु भर्तारं या नारी त्व् अनुगच्छति ।
मरणादि भवेच् छ्राद्धं दहनादि तयोर् न तु ॥ इति ।

वह्निपुराणे ऽपि ।

दह्यमानं तु भर्तारम् अनुगच्छति या सती ।
तस्याः श्राद्धं पिण्डदानम् उदकं च पृथक् पृथक् ॥
सपिण्डनं तु मरणाद् द्वादशाहे समापयेत् ॥ इति ।

एवमादिवचनेभ्यो मातुर् विषमदिने नवश्राद्धानि दत्वा मातुर् एकादशाहे नवमिश्राण्य् अपकृष्य दत्वा मातुर् द्वादशाहे सपिण्डीकरणश्राद्धं कार्यम् इत्य् उक्तं भवति । अन्ये तु पितुः श्राद्धकाले मातुः श्राद्धं कर्तव्यम् इत्य् आहुः । यद् आह शातातपः ।

तद्दिने वापरेद्युर् वा भर्तारम् अनुगच्छति ।
भर्त्रा सहैव शुद्धिः स्याच् छ्राद्दं चैकदिने भवेत् ॥ इति ।

प्रेचेता अपि ।

भर्त्रा सह प्रमीतायां मृते ऽहन्य् अपरे ऽह्नि वा ।
आशौचं मरणादि स्याद् दहनादि तयोर् न तु ॥ इति ।

भर्तुर् मरणादि भार्याया इत्य् अर्थः । विश्वादर्शे ऽपि ।

पतिव्रता त्व् अन्यदिने ऽनुगच्छेद् या स्त्री पतिं चित्यधिरोहणेन ।
दशाहतो भर्तुर् अघस्य शुद्धिः श्राद्धद्वयं स्यात् पृथग् एककाले ॥ इति ।

स्मृत्यन्तरे ऽपि ।

भर्तारम् अनुगच्छन्ती पत्नी चेत् सार्तवा यदि ।
तैलद्रोण्यां विनिक्षिप्य लवणे वा मृतं पतिम् ॥
त्रिरात्राद् दहनं कुर्युः बान्धवास् तु तया सह ।
श्राद्धं चैकदिने कुर्याद् द्वयोर् अपि हि निर्णयः ॥ इति ।

गालवः ।

एकचित्यां स्मारूढौ दम्पती निधनं गतौ ।
एकोद्दिष्टं षोडशं च भर्तुर् एकादशे ऽहनि ॥
द्वादशे ऽहनि संप्राप्ते पिण्डम् एकं द्वयोः क्षिपेत् ।
पितामहादिपिण्डेषु तं पितुर् विनियोजयेत् ॥ इति ।

तत्रैकदिनमरणे एकचित्यारोहणे भर्तुर् मरणदिनाद् उत्तरदिनमरणे ऽपि वा स्वस्वसबन्धिकाले (?) श्राद्धं कुर्याद् इत्य् एकः पक्षः । भर्तुः श्राद्धकाले मातुः श्राद्धं कुर्याद् इत्य् अन्यः पक्षः । तत्रैव सपिण्डीकरणे दम्पत्योर् एकं पिण्डं क्षिप्त्वा पितामहादिपिण्डेषु तं पिण्डं योजयेद् इत्य् अपरः पक्षः । अत्र स्मृतीनां समबलत्वाद् यथेच्छया विकल्पो द्रष्टव्यः । अत्रैव विशेषः प्रचेतसा दर्शितः ।

दम्पत्योर् एकदा मृत्युः स्याच् चित्यारोहणेन वा ।
पृथङ् मातुः पितुः श्राद्धं तथा मातुर् यथा पितुः ॥ इति ।

अत्रिः ।

एककाले गतौ जायापती यदि तदा पुनः ।
पृथक्पाकेन कर्तव्यं पितृश्राद्धपुरःसरम् ॥
दह्यमानं तु भर्तारं दृष्ट्वा नारी पतिव्रता ।
अनुगच्छेत् तयोः श्राद्धं पृथग् एकादशे ऽहनि ॥
द्वादशे ऽहनि संप्राप्ते सपिण्डीकरणं पितुः ।
निर्वर्त्य मातृपिण्डं तु पितृपिण्डेन योजयेत् ॥ इति ।

तथा,

पितुर् मरणकाले तु माता यस्य प्रमीयते ।
षोडशान्तं पृथक् कृत्वा सपिण्ड्यं द्वादशे ऽहनि ॥
प्रेतत्वात् तु विमुक्तेन सह मातुः सपिण्डनम् ॥

कुर्याद् इति शेषः । अन्ये मृताहवत् तन्त्रेण सपिण्डीकरणम् आहुः । यद् आह काश्यपः ।

दशाष्ट द्वादश विप्रान् निमन्त्र्य द्वादशे ऽहनि ।
सर्वोपचारैः संपूज्य यथाविभवसारतः ॥
दक्षिणाग्रान् कुशान् द्वेधा आस्तीर्यैव तु पूर्ववत् ।
पित्रादेः प्राच्यदर्भेषु प्रेतार्थं पश्चिमेषु तु ॥
पितामहादीन् निर्दिश्य त्रीन् पिण्डान् पितृयज्ञवत् ।
यज्ञशर्मन्न् इमं पिण्डम् उपतिष्ठेति पश्चिमे ॥
द्विधास्तृतेषु दर्भेषु त्व् अर्घ्यपात्रं प्रकल्पयेत् ।
पित्रादेश् च पुरश् चैव मातुश् च तदनन्तरम् ॥
पित्रर्घ्यपात्र उदकं क्रमात् पैतामहादिषु ।
ये समाना इति द्वाभ्यां मन्त्राभ्यां योजयेत् क्रमात् ॥
योजयेन् मातुर् अर्घ्यं च ऋग्भ्यां मात्रादिषु त्रिषु ।
एवं त्रिधाकृतं पिण्डं पिण्डेषु त्रिषु योजयेत् ॥
पित्रोः संघातमरणे त्व् अनुयान्विधिः स्मृतः ।
पृथग् एवान्यथा कुर्याद् इति प्राह पितामहः ॥ इति ।

अत्राष्टब्राह्मणपक्षे मातापित्रोः प्रेतार्थम् एकम् एकं पित्रादिषु त्रीन् द्वौ वैश्वदेवे विष्ण्वर्थम् एकम् । दक्षपक्षे वैश्वदेवं तन्त्रेण, अन्यत् सर्वं स्पष्टम् । भोजनान्तरोपचारैः संपूज्य पिण्डार्घयोजनं तन्त्रेण स्वगृह्यानुसारेण कुर्याद् इत्य् अर्थः । सपिण्डीकरणश्राद्धे विष्ण्वर्चनम् उक्तम् ।

आद्यन्ते देवपूजां च सपिण्डीकरणे चरेत् ॥ इति ।

शाण्डिलो ऽपि ।

सपिण्डीकरणे तद्वद् विष्णुम् अभ्यर्चयेद् इति । इति ।

अत्र यत् तन्त्रेण मातापित्रोः सपिण्डीकरणश्राद्धम् उक्तं तत् पूर्वोक्तबहुवचनपर्यालोचनयाशक्तविषये योजनीयम् । उक्तं स्मृतिसंग्रहे ।

दम्पत्योर् एकदा मृत्युर् दहेद् औपासनाद् उभौ ।
ततः पुत्रेण कर्तव्याः पृथक् पिण्डोदकक्रियाः ॥
एकोद्दिष्टं सपिण्डं च वह्नेर् एको द्विजः पृथक् ।
पित्रर्थम् उदकं पिण्डं क्षिपेत् पैतामहादिषु ॥
मात्रर्घपात्र उदकं पिण्डं पित्रादिषु त्रिषु ।
ब्राह्मणांश् चैव संभोज्य दद्याच् छक्त्या च दक्षिणाम् ॥ इति ।

अत्र विशेषम् आह पुलस्त्यः ।

दुर्मृतः सुमृतो वापि पिताग्रे यद्य् असंस्कृतः ।
कालान्तरे मृता माता तस्या दाहादिकाः क्रियाः ॥
पत्या सहैकचित्यां तु दहेद् औपासनाद् उभौ ॥ इति ।

संवर्तः ।

पिता महीपते यस्य चिरकालम् असंस्कृतः ।
माता प्रमीता यदि हि तयोर् दाहादिकं सह ॥
उदकं पिण्डदानं च नवश्राद्धं सपिण्डनम् ।
पित्रोः पुत्रेण कर्तव्यम् एष धर्मः सनातनः ॥ इति ।

यमः ।

अस्थिसंचयनाद् अर्वाग् भर्तुः पत्नी मृता यदि ।
तस्मिन्न् एवानले दद्याद् यदि चाग्निर् न शाम्यति ॥
शान्ते ऽग्नौ पुनर् एवास्याः पृथक्चित्यादि कारयेत् ।
उदकादि सपिण्डान्तं तयोः कार्यं सहैव तु ॥ इति ।

स्मृत्यन्तरे ।

पत्न्याः कुर्याद् अपुत्रायाः पतिर् मात्रादिभिः सह ।
सापिण्ड्यम् अनुयाने तु जनकेन सहात्मजः ॥
पितामह्यादिभिर् ब्राह्मविवाहोढस्त्रियः सुतः ।
पितृपक्षैर् मातृपक्षैर् वासुराद्यागतः सुतः ॥
विवाहपुत्रभेदेन तद्गोत्रं च व्यवस्थितम् ।
अपुत्रस्यापि कुर्वीत धर्मपत्नी सपिण्डताम् ॥
न तत्संन्यासिनां कुर्यात् पार्वणं द्वादशे ऽहनि ।

अस्यार्थः - पतिर् अपुत्रायाः पत्न्याः सापिण्ड्यं मात्रादिभिः मातृपितामहीप्रपितामहीभिः सह कुर्यात् । तद् आह पैठीनसिः ।

अपुत्रायां मृतायां तु पतिः कुर्यात् सपिण्डताम् ।
श्वश्र्वादिभिः सहैवास्यास् ताभिः सह मृते ऽहनि ॥ इति ।

ब्राह्मदैवार्षप्राजापत्यविवाहोढायाः स्त्रियः सुतः पितामह्यादिभिः सह सपिण्डीकरणं कुर्यात् । तद् आह सत्यव्रतः ।

मातुः सपिण्डीकरणं पितामह्यादिभिः स्मृतम् ।
अपुत्रायां मृतायां तु पतिः कुर्यात् सपिण्डताम् ॥
श्वश्र्वादिभिः सहैवास्या यदि पूर्वं मृतास् तु ताः ।
भर्ता मृतश् चेत् तेनैव सह तेनैकतां गता ॥ इति ।

आसुरगान्धर्वराक्षसपैशाचोढायाः स्त्रियः सुतः पितृपितामहप्रपितामहैर् वा पितामह्यादिभिर् वा (मातामहादिभिर् वा) सह सपिण्डीकरणं कुर्यात् । यमः ।

मातुः सपिण्डीकरणं पित्रैकेन त्रिभिश् च वा ।
आसुराद्यागतः पुत्रः पितामह्यादिभिः सह ॥ इति ।

अस्मिन्न् एव विषये शातातपः ।

मातुः सपिण्डीकरणं मातामह्यादिभिः स्मृतम् ।
पितामह्यादिभिः कुर्याद् यद् वा पित्रादिभिः स्त्रियः ॥
मातामहादिभिर् वापि ह्य् आसुराद्यागतः सुतः ॥ इति ।

पुत्रिकापुत्रो ऽप्य् एवम् एव । गोत्रनिवृत्त्यनुवृत्ती विवाहप्रकरणे वक्ष्येत ॥

इति स्मृतिचन्द्रिकायाम् अनुगमने सपिण्डीकरणकालः