३५ सपिण्डीकरणप्रयोगः

अथ सपिण्डीकरणप्रयोगः

तत्र प्रचेताः ।

स्वपितुः प्रेतभूतस्य त्व् एकोद्दिष्टविधानतः ।
एषां पितामहादीनां विधिना पार्वणेन तु ॥
श्राद्धद्वयं हि कर्तव्यं सपिण्डीकरणं हि तत् ॥ इति ।

विष्णुः ।

पितुर् मरणम् आरभ्य द्वादशे दिवसे चरेत् ।
प्रेतभावनिविर्मोकद्वारा प्रेतस्य वै पितुः ॥
पितामहादिभिः सार्धं सापिण्ड्यस्य प्रसिद्धये ।
समानोदकभावस्य सिद्ध्यर्थं च पितुः सुतः ॥
एषां पितामहादीनां विधिना पार्वणेन तु ।
स्वपितुः प्रेतभूतस्य त्व् एकोद्दिष्टविधानतः ॥
इत्थं च पार्वणात्मैकोद्दिष्टात्मोभयरूपकम् ।
कामकालौ वैश्वदेवे निर्दिष्टौ तु सपिण्डने ॥
पितामहादीन् निर्दिश्य पितुर् उच्चारणं ततः ।
संबन्धगोत्रनामानि वस्वादींश् च प्रकीर्तयेत् ॥
सपिण्डीकरणश्राद्धं पितृपूर्वम् उदीरितम् ।
प्रेतपूर्वं वदन्त्य् एके तद् असांप्रतम् ईरितम् ॥
विश्वेदेवार्चनं कृत्वानन्तरं प्रेतपूजनम् ।
पार्वणस्य हि तन्त्रस्य मध्ये तन्त्रान्तरं भवेत् ॥
अवटत्रितयं वापि कुर्याद् वा मण्डलत्रयम् ।
देवार्थानाम् उत्तरे तु पित्रर्थानांतु मध्यमे ॥
दक्षिणे तु निमित्तस्य पादप्रक्षालनक्रमः ।
प्राङ्मुखान् आदितो देवान् अभ्यर्च्योदङ्मुखान् पितॄन् ॥
प्रत्यङ्मुखनिविष्टं तु प्रेतं विधिम् अनुस्मरन् ।
तिलगन्धादिसंयुक्तं कुर्यात् पात्रचतुष्टयम् ॥
सादयेत् (?) प्रथमं तत्र पित्र्यं पैतामहं ततः ।
प्रपितामहदैवत्यं ततः प्रेतार्थम् उत्तमम् ॥
पात्रैकदेश उदकं तेभ्यो दद्याद् यथाक्रमम् ।
गन्धपुष्पाणि धूपं च दीपम् आच्छादनादिकम् ॥
यथाविभवसारेण दत्वा विप्रांस् तु भोजयेत् ।
एकोद्दिष्टे निमित्ते ऽपि यद् अस्यावाहनादिकम् ॥
स्वधाशब्दं धूपदीपं नमःशब्दं प्रयोजयेत् ।
आवाहनं स्वधाशब्दं धूपदीपौ सपिण्डने ॥
नैव कुर्यान् नमःस्थान उपतिष्ठत्व् इदं भवेत् ।
विप्रपाणाव् अथाग्नौ वा चरुं हुत्वाहुतिद्वयम् ॥
निरूह्य वह्नेर् अङ्गारान् प्रेताय च यमाय च ।
स्वाहेति जुहुयाद् अन्नम् उक्त्वा तद्गोत्रनामनी ॥
प्रेतहस्ते ऽपि वा हुत्वा भोजनान्ते यथाक्रमम् ।
संबुद्ध्या निर्दिशेन् नाम पित्रादीनाम् असाव् इति ॥
यज्ञशर्मन्न् इमं पिण्डम् उपतिष्ठेति चान्ततः ।
पिण्डं चतुर्थं प्रेताय दद्याद् दक्षिणहस्ततः ॥
प्रेतपात्रस्थम् उदकं पित्राद्यर्थेष्व् अथानयेत् ।
समानो मन्त्र इत्य् आभ्यां ऋग्भ्यां द्वाभ्याम् अनुक्रमात् ॥
मधुमन्त्रेण चादाय प्रेतपिण्डं त्रिधा कृतम् ।
संगच्छध्वम् इति द्वाभ्यां पितृपिण्डेषु योजयेत् ॥
ये समाना इति द्वाभ्यां पिण्डोपस्थानम् इष्यते ।
पिण्डसंयोजनाद् ऊर्ध्वं प्रेतत्वस्य निवृत्तितः ॥
मार्जनादिषु सर्वत्र चतुर्थो विनिवर्तते ।
केवलः पितृशब्दस् तु पितृसामान्यवाचकः ॥
पितामहादिसंबन्धं मन्त्रसूत्रादिषूहयेत् ।
देशान्तरस्थिते ज्येष्ठे सपिण्डीकरणे कृते ।
प्रेतशब्दं विहायैव कुर्याद् एवं सपिण्डनम् ॥ इति ।

यत् तु कात्यायनवचनम्,

सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते ।
पृथक्त्वे तु कृते पश्चात् पुनः पितृसपिण्डता ॥

इति, यत् तु वचनम्,

यः सपिण्डीकृतं प्रेतं पृथक्पिण्डे नियोजयेत् ।
विधिघ्नस् तेन भवति पितृहा चोपचायते ॥

इति, तत् ज्येष्ठेन कृतसपिण्डीकरणस्यानुजेन कृतसापिण्डीकरणार्थं पृथग् एकोद्दिष्टनिषेधपरम्, मृताहे मातापित्रोर् एकोद्दिष्टनिषेधपरं च ॥

इति स्मृतिचन्द्रिकायां सपिण्डीकरणप्रयोगः