३४ पुनःसपिण्डीकरणकालः

अथ पुनःसपिण्डीकरणकालः

तत्र काश्यपः ।

व्युत्क्रमेण प्रमीतानां सपिण्डीकृतिर् इष्यते ।
अन्तर्हिते मृते पश्चात् पुनः कुर्यात् सपिण्डनम् ॥ इति ।

दक्षः ।

पितामहं च जीवन्तम् अतिक्रम्य यदा सुतः ।
अतिक्रम्य द्वयं वापि सपिण्डीकरणं चरेत् ॥
तयोर् आपन्नयोः काले पुनः कुर्यात् सपिण्डनम् ॥ इति ।

वृद्धवसिष्ठः ।

व्युत्क्रमेणापि सापिण्ड्यं कर्तव्यम् ऋषिसंमतम् ।
तत्राप्य् ऊर्ध्वस्य सापिण्ड्ये कृते ऽस्य पुनर् आचरेत् ॥
औरसः क्षेत्रजो वापि धर्म एवं सनातनः ।
परित्यज्यैव जीवन्तं पुत्रं नान्यैस् तु कारयेत् ॥
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सपिण्डीकरणं कुर्यात् पुत्रहीनस्य सर्वदा ॥
अथ वा प्रेतभूतस्य पत्नी कुर्याद् अमन्त्रकम् ।
ऋत्विजा कारयेद् यद् वा सपिण्डीकरणं पुनः ॥ इति ।

प्रजापतिः ।

पित्रोः सपिण्डीकरणं पुत्र एव समाचरेत् ।
अथ वा शिष्यसभ्रह्मचारिभृत्यपुरोहितैः ॥
कारयीत दशाहान्तं सपिण्डीकरणं विना ॥ इति ।

गालवः ।

सपिण्डीकरणश्रद्धं पुत्रैः कार्यं न चापरैः ।
दाहादिकं दशाहान्तं गौणपुत्रैस् तु कारयेत् ॥ इति ।

अत्र विशेषो गौतमेन दर्शितः ।

अग्रजो वानुजो वापि सपिण्डो वापि सोदकः ।
सपिण्डीकरणं कुर्यात् पुत्रो वा वृद्ध्युपस्थितौ ॥
सपिण्डीकरणं हित्वा वृद्धिश्राद्धम् उपक्रमेत् ।
अयातयामं मरणं भवेत् तस्य न संशयः ॥
वृद्धिश्राद्ध्विहीनो यः पुत्रिणो ऽस्य सपिण्डनम् ।
कृत्वा तु नरके घोरे पितृभिः सह मज्जति ॥ इति ।

वृद्धाव् उपस्थितायां भ्रातृसपिण्डसोदकादिभिः कृतं सपिण्डीकरणं पुनः पुत्रः पृथक् कुर्यात् । तथा ।

अग्रजो वानुजो वापि नवश्राद्धानि षोडश ।
असंसृष्टधनो वापि सर्वैर् अपि कृतं भवेत् ॥ इति ।

विष्णुः ।

ज्येष्ठो वाप्य् अनुजो वापि सपिण्डः सोदको ऽपि वा ।
यस् तु संनिहितस् तस्य त्व् अधिकारः सपिण्डने ॥
पुनः कुर्युर् यथापूर्वं लेपभाक्त्वप्रसिद्धये ।
श्राद्धाधिकारसिद्ध्यर्थं प्रेतत्वान् मुच्यते ऽपि वा ॥ इति ।

आपस्तम्बः ।

पितुः सपिण्डीकरणं बन्धुभिर् वा कदाचन ।
प्रेतत्वस्य विमुक्तस्य पुनः कुर्युः सपिण्डनम् ॥ इति ।

यत् तु यमः,

देशान्तरस्थितः पुत्रः श्रुत्वा पितृविपर्ययम् ।
कुर्वीत वपनं सद्य आ दशाहात् तिलोदकम् ॥
सपिण्डीकरणश्राद्धं कुर्याद् एकादशे ऽहनि ॥

इति, तत् ज्येष्ठविषयम् । शातातपः ।

अग्रजो वानुजो वापि पित्रोर् देशान्तरे मृतिम् ।
वापयित्वाथ केशादीन् सचेलम् अवगाहयेत् ॥
श्रवणाहान् न कुर्वीत भोजनं मैथुनंण् तथा ।
दशाहान्ते ऽनुजः कुर्यात् पार्वणं श्राद्धम् आदरात् ॥
ज्येष्ठः सपिण्डीकरणं पुनः कुर्यात् कृतं यदि ॥ इति ।

वृद्धशातातपः ।

अग्रजो वानुजो वापि पित्रोर् देशान्तरे मृतिम् ।
श्रुत्वा केशान् वपयित्वा सचेलस्नानम् आचरेत् ॥
दशाहं तु ब्रह्मचारी दद्याच् चैव तिलोदकम् ।
सपिण्डीकरणं कुर्याद् अन्येन च कृतं यदि ॥ इति ।

गौतमः ।

देशान्तरे स्थिते ज्येष्ठे त्व् अनुजेन कृते सति ।
कृतं श्राद्धं पुनः कुर्यात् सापिण्ड्यं पूर्ववत् सुतः ॥
सपिण्डीकरणं श्राद्धं करिष्य इति कीर्तयेत् ।
उपतिष्ठत्व् इति स्थाने स्वधाशब्दं प्रयोजयेत् ।
मृतं पितरम् उद्दिश्य पार्वणस्यैकदेशवत् ॥ इति ।

शातातपः ।

सपिण्डीकरणश्राद्धं ज्येष्ठेन न कृतं यदा ।
ज्येष्ठः पुनश् च कुर्वीत पिण्डसंयोजने कृते ॥ इति ।

वृद्धवसिष्ठः ।

यवीयसा कृते श्राद्धे प्रेतशब्दं विहाय च ।
तदग्रजेन कर्तव्यं सपिण्डीकरणं पुनः ॥
सपिण्डीकरणश्राद्धं दैवपूर्वं नियोजयेत् ।
पितॄन् एवाशयेत् तत्र पुनः प्रेतं विनिर्दिशेत् ॥
कनिष्ठो ऽपि विदेशस्थः श्रुत्वा पितृविपर्ययम् ।
दशाहं समतिक्रम्य पार्वणं श्राद्धम् आचरेत् ॥
सपिण्डीकरणं नाम श्राद्धं पार्वनवद् भवेत् ।
अर्ध्यसंयोजनं कुर्यात् पिण्डसंयोजनं तथा ॥
प्रेतत्वात् तु विमुक्तः स्यात् पुनः प्रेतं न निर्दिशेत् ।
प्रेतशब्दं विना सर्वं कार्यम् इत्य् आह गौतमः ॥ इति ।

गालवः ।

नवश्राद्धं सपिण्डत्वं स्रद्धान्य् अपि च षोडश ।
एकेनैव तु कार्याणि संविभक्तधनेष्व् अपि ॥
सपिण्डीकरणाद् ऊर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथक् कार्यं त्व् एकोद्दिष्टं मृते ऽहनि ॥ इति ।

गौतमः ।

सर्वैर् अनुमतिं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।
धनेन वाविभक्तेन तत् सर्वैस् तु कृतं भवेत् ॥ इति ।

अत्र विशेषो बृहस्पतिना दर्शितः ।

सपिण्डीकरणं पित्रोः पितृयज्ञविधानतः ।
पुत्राः सर्वे पृथक् कुर्युर् यदा ज्येष्ठो न कारयेत् ॥
अग्रजेन कृतं कर्म नानुजेन पुनःकृतिः ॥ इति ।

लोकाक्षिः ।

विभक्तो वाविभक्तो वा मातापित्रोः सपिण्डनम् ।
कथंचिद् अनुजः कुर्याद् भूयः कुर्यात् तद् अग्रजः ॥
पित्रामह्यादिपिण्डेषु मातृपिण्डम् इति स्थितिः ॥ इति ।

**इति स्मृतिचन्द्रिकायां पुनःसपिण्डीकरणकालः **