३३ सपिण्डीकरणकालाः

अथ सपिण्डीकरणकालाः

तत्र आश्वलायनः - “अथ सपिण्डीकरणं संवत्सरे पूर्णे द्वादशाहे वा” इति । कात्यायनः - “अथ सपिण्डीकरणं संवत्सरे पूर्णे द्वादशाहे त्रिपक्षे वा” इति । बोधायनः - “अथ सपिण्डीकरणं पूर्णे संवत्सरे त्रिपक्षे तृतीये मासि द्वादशह एकादशाहे वा” इति । व्यासः ।

श्राद्धानि षोडशादत्वा नैव कुर्यात् सपिण्डनम् ।
असपिण्डीकृते प्रेते पितृत्वं नोपपद्यते ॥
अकृतस्य तु पुत्रस्य शुभं किंचिन् न विद्यते ।
न च नैमित्तिकं काम्यम् इष्टापूर्तादिकं न च ॥
नासपिण्डीकृतौ पित्रोर् अन्येषां श्राद्धम् एव च ।
एकादशे द्वादशे वा त्रयोविंशदिने ऽपि वा ॥
त्रिपक्षे वा त्रिमासे वा षष्ठे चैकादशे ऽपि वा ॥ इति ।

गौतमः ।

एकादशे द्वादशे ऽह्नि त्रिपक्षे वा त्रिमासके ।
षष्ठे वैकादशे वाब्दे संपूर्णे वा शुभागमे ॥
सपिण्डकरणस्येमे अष्टौ कालाः प्रकीर्तिताः ।
साग्नौ कर्तर्य् उभाव् आद्यौ प्रेते साग्नाव् अनन्तरः ।
अनग्नेस् तु द्वितीयाद्याः सप्त काला उदीरिताः ॥ इति ।

अत्रैकादशाहे सपिण्डीकरणस्य प्रयोजनम् आह हारीतः ।

या तु पूर्वम् आवास्या मृताहाद् दशमी भवेत् ।
सपिण्डीकरणं तस्यां कुर्याद् एव सुतो ऽग्निमान् ॥ इति ।

मृताहाद् ऊर्ध्वं द्वितीयादिपरिगणने यदा अमावास्यैकादशाहो भवति तस्मिन्न् इत्य् अर्थः । वृद्धवसिष्ठः ।

प्रथमा स्याद् अवावास्या मृताहाद् दशमे ऽहनि ।
सपिण्डीकरणं तत्र कुर्याद् एव सुतो ऽग्निमान् ॥ इति ।

मृताहाद् इति मर्यादायां पञ्चमी । मृताहाद् ऊर्ध्वदिनम् आरभ्येत्य् अर्थः । कार्ष्णागिनिर् अपि ।

सपिण्डीकरणं कुर्यात् पूर्ववच् चाग्निमान् सुतः ।
परतो दशरात्राच् चेत् कुहूरब्दोपरीतरः (?) ॥ इति ।

यद्य् एकादशे ऽह्नि सपिण्डीकरणं क्रियते तदा पूर्वाह्णे सपिण्डीकरणाद् अधोभाविनवश्राद्धादीनि दत्वा मध्याह्ने सपिण्डीकरणं कृत्वा अपराह्णे पिण्डपितृयज्ञं चरेत् । तद् आह सत्यव्रतः ।

एकादशे ऽह्नि कुर्वाणः पूर्वाह्णे सर्वम् आचरेत् ।
मध्याह्ने चैव सापिण्ड्यं कुर्याद् इत्य् आह शाण्डिलः ॥ इति ।

भृगुः ।

या तु पूर्वम् अमावास्या मृताहाद् दशमी भवेत् ।
सपिण्डीकरणं तत्र कुर्याद् एवाग्निमान् सुतः ॥
सापिण्ड्यं तु विना पुत्रः पितृयज्ञं न चाश्रयेत् ।
न पार्वणं नाभ्युदयं कुर्वन् न लभते फलम् ॥ इति ।

देवलः ।

सपिण्डीकरणात् प्रेते पैतृकं पदम् अस्थिते ।
आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते ॥ इति ।

यदा दीक्षितस्य पितुर् मृताहाद् द्वादशाहे अमावास्या भवति तत्रैकादशाहे सपिण्डीकरणं कृत्वामावास्यायाम् अपराह्णे पिण्डपितृयज्ञं कुर्यात् । तथाह जाबालिः ।

द्वादशाहादिकालेषु सपिण्डीकरणेष्व् इमे ।
साग्न्यनग्नित्वविधयः कुर्युर् एव नियामकाः ॥
एकादशाहे कुर्वीत द्वादशे यद्यमा भवेत् ।
सपिण्डीकरणं कृत्वा पितृयज्ञं समाश्रयेत् ॥ इति ।

एकादशाहद्वादशाहकुहूव्यतिरिक्तविषये साग्निको ऽनग्निको वापि द्वादशाहादिसप्तसु कालेषु सपिण्डीकरणं कुर्यात् । तथा च प्रेचेताः ।

एकादशे ऽह्नि कुर्वीत साग्निकस् तु सपिण्डनम् ।
द्वादशाहादिकालेषु साग्निको ऽनग्निको ऽपि वा ॥
सपिण्डीकरणं कृत्वा दार्शिकं कर्म चाचरेत् । इति ।

अत्र विशेषो महाभारते दर्सितः ।

अनग्निस् तु यदा वीर भवेत् कुर्यात् तदा गृही ।
प्रेतश् चेद् अग्निमांश् च स्याद् द्वादशाहे सपिण्डनम् ॥
यजमानो ऽगिमान् राजन् प्रेतश् चानग्निमान् भवेत् ।
एकादशे द्वादशे वा त्रिपक्षे वा त्रिमासि वा ॥
त्रयोविंशदिने वापि षण्मादे वत्सरे ऽपि वा ।
प्रमादाद् अकृते तस्मिन् द्वादशैकादशे ऽहनि ॥
त्रयोविंशदिने कुर्यात् सपिण्डीकरणं पितुः ।
द्वादशैकादशादौ यदि न स्यात् सपिण्डनम् ।
उत्तरोत्तरकाले तु यथासंभवम् आचरेत् ॥ इति ।

गृही श्राद्धकर्ता । गर्गः ।

अथापद्य् अकृतं यत् तु द्वादशाहे सपिण्डनम् ।
त्रयोदशदिने कुर्यात् त्रयोविंसदिने ऽपि वा ॥ इति ।

बृहस्पतिः ।

द्वादशाहादिकालेषु सपिण्डीकरणं यदा ।
तत्र प्रशस्तनक्षत्रं परिशोध्य समाचरेत् ॥
सपिण्डीकरणे त्रीणि ऋक्षाण्य् आहुर् महर्षयः ।
प्राजापत्यं तथा रौद्रं यद् ऋक्षं सौम्यदैवतम् ॥
त्रिपादर्क्षं विना वापि भानुभौमशनैश्चरान् ।
सपिण्डीकरणं यद् वा मासिकाहात् परे ऽहनि ॥ इति ।

अङ्गिराः ।

ब्राह्मणक्षत्रियविषां शूद्राणां च सपिण्डने ।
द्वादशाहः प्रशस्तः स्यात् कर्तुश् चानन्त्यकारणात् ॥ इति ।

व्यासः ।

आनन्त्यात् कुलधर्माणां पुंसां चैवायुषः क्षयात् ।
अस्थिरत्वाच् छरीरस्य द्वादशाहः प्रशस्यते ॥ इति ।

वृद्धमनुः ।

द्वादशे ऽहनि विप्राणाम् आशौचान्ते तु भूभुजाम् ।
वैश्यानां तु त्रिपक्षादाव् अथ वा स्यात् सपिण्डनम् ॥ इति ।

प्रजापतिः ।

एकादशे ऽह्नि विप्राणां द्वादशे ऽहनि वा भवेत् ।
आशौचान्ते भवेद् राज्ञां वैश्यानां च सपिण्डनम् ॥
शूद्राणां द्वादशे ऽह्न्य् एव कर्तुस् ताकालिकी शुचिः । इति ।

संवर्तः ।

द्वादशे ऽहनि विप्राणां सपिण्डीकरणं भवेत् ।
शूद्राणां द्वादशे ऽह्नि स्याद् आशौचान्ते ऽपि वा भवेत् ॥
कुर्याद् आशौचमध्ये ऽपि सच्छूद्राणां सपिण्डनम् ।
कर्तुस् तात्कालिकी शुद्धिर् अशुद्धिः पुनर् एव हि ॥
निजधर्मविहीनानां शूद्राणां तु सपिण्डनम् ।
षष्ठे मासे वत्सरान्ते त्रिपक्षादिषु वा भवेत् ॥
भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियापरः ।
द्वादशे ऽहनि कुर्याद् आशौचान्ते सपिण्डनम् ॥ इति ।

आपस्तम्बः ।

शूद्राणां हीनजातीनाम् आशौचान्ते सपिण्डनम् ।
पक्वान्नेन न कर्तव्यम् आमेन श्राद्धम् आचरेत् ॥
पिर्यङ्गुयवगोधूमव्रीहिभिर् वा समाहितः ।
पक्वान्नेनैव सापिण्ड्यं निर्वपेत् पितृपूर्वकम् ॥
योजयेत् प्रेतपिण्डं तु नाम्ना पित्रादिषु त्रिषु ॥ इति ।

इति स्मृतिचन्द्रिकायां सपिण्डीकरणकालाः