३२ षोडशश्राद्धनिरूपणम्

षोडशश्राद्धनिरूपणम्

द्वादश् प्रतिमास्यानि ऊनषाण्मासिकं तथा ।
त्रैपक्षिकम् अथोनाब्दं तथा चैवोनमासिकम् ॥
सपिण्डीकरणं चैवेत्य् एवं श्राद्धानि षोडश ।
एकादशे ऽह्नि मास्य् ऊन आद्ये षष्ठे तथान्तिमे ॥
प्रतिमासं मृते ऽह्न्य् अब्दं स्युस् त्रिपक्षे च षोडश ।
नृणां तु त्यक्तदेहानां श्राद्धं दद्यात् तु षोडश् ॥
चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
तत्र द्वादशभिर् मासैः श्राद्धं द्वादशसंख्यया ॥
कर्तव्यं श्रुतितस् तेषां तत्र विप्रांश् च तर्पयेत् ॥

गालवः ।

ऊनषाण्मासिकं षष्ठे मास्य् ऊने ऽप्य् ऊनमासिकम् ।
त्रैपक्षिकं त्रिपक्षे स्यात् प्रवृत्ते विषमे दिने ॥
प्रतिमासं मृताहे तु न्यूनाब्दं चेति षोडश ॥ इति ।

भृगुर् अपि ।

आद्यम् एकादशे ऽह्नि स्याद् द्वादशे न्यूनमासिकम् ।
एकद्वित्रिदिनैर् ऊने त्रिभागे वापि वा भवेत् ॥
ऊनाब्दिकं तथैव स्याद् ऊनषाण्मासिकं तथा ।
त्रैपक्षिकं त्रिपक्षे स्यान् मृताहे त्व् इतराणि तु ॥ इति ।

अङ्गिराः ।

एकादशे भवेद् आद्यं मास्य् ऊने ह्य् ऊनमासिकम् ।
त्रैपक्षिकं त्रिपक्षे तु भवेच् च विषमे दिने ॥
ऊनषष्ठं तथोनाब्दं मृताहे त्व् इतराणि तु ॥ इति ।

यदा संवत्सराद् अर्वाक् द्वादशाहादिषु सपिण्डीकरणं क्रियते तदैकादशाहादिषु षोडश श्राद्धानि दत्वैव कार्यम् । तद् आह दक्षः ।

श्राद्धानि षोडशापाद्य विदधीत सपिण्डनम् ॥ इति ।

पैठीनसिः ।

अर्वाक् सपिण्डीकरणात् कुर्याच् छ्राद्धानि षोडश ।
श्राद्धानि षोडशादत्वा नैव कुर्यात् सपिण्डताम् ॥
द्वादशाहे यदा कुर्यात् सपिण्डीकरणं सुतः ।
मध्याह्ने चैवे सर्वाणि कुर्याच् छ्राद्धानि षोडश ॥ इति ।

यदा त्रिपक्षादौ श्राद्धानि दत्वा सपिण्डीकरणं क्रियते तदा तदधोभाविमासिकानां न पुनः कृतिः, स्वकाले कृतत्वात् । ऊर्ध्वभाविमासिकानाम् एव पुनःकरणम् । तथाह गालवः ।

त्रिपक्षादिषु कालेषु सापिण्ड्यं यश् चिकीर्षति (?) ।
शिष्टानां मासिकानां च यथाकालं पुनः क्रिया ॥
एकादशे कृतानां तु यथाकालं पुनःकृतिः ।
तान्य् एव तु पुनः कुर्यात् स्वे स्वे काले यथाविधि ॥ इति ।

अत्रैव विशेषम् आह गालवः ।

त्रिपक्षात् पूर्वतः साग्नेर् भवेत् संस्कारवासरे ।
ऊर्ध्वं मृतदिने ऽनग्नेः सर्वाण्य् एव मृताहतः ॥ इति ।

जातूकर्ण्यः ।

ऊर्ध्वं त्रिपक्षाद् यच् छ्राद्धं मृताह्न्य् एव तद् भवेत् ।
अधस् तु कारयेद् दाहाद् आहिताग्नेर् द्विजन्मनः ॥ इति ।

सपिण्डीकरणाद् ऊर्ध्वभाविमासिकनियमम् आह प्रजापतिः ।

सपिण्डीकरणारभ्य (?) दशमैकादशे ऽपि वा ।
ऊनत्रिदिवसे कुर्यात् कर्तव्यं तूनमासिकम् ॥
त्रिपक्षे द्वादशे पक्षे चतुर्विंशतिपक्षके ।
पक्षत्रिपञ्चकं कृत्वा अन्तमध्यादिषु क्रमात् ॥
त्रिभिर् द्वाभ्याम् उतैकेन मास्य् ऊने ह्य् ऊनमासिकम् ।
त्रिभागशेषे मासे तु कुर्याद् इति हि केचन ॥
त्रैपक्षिकं त्रिपक्षे तु प्रवृत्ते विषमे दिने ।
एकादशे भवेद् आद्यम् इति मासिकनिर्णयः ॥

दशाहाद् ऊर्ध्वम् इत्य् अर्थः ।

आशौचनिर्गमात् कुर्याद् आद्यम् एकादशे ऽहनि ।
त्रयोविंशदिने वापि सप्तविंशदिने ऽपि वा ॥
ऊनं चैव त्रिपक्षे स्यात् पक्षान्ते विषमे ऽहनि ।
ऊनषष्ठं तथोनाब्दं कुर्याच् चैवोपमानतः ॥
प्रतिमासं मृताहेषु मासिकान्य् अपराणि हि ॥ इति ।

सपिण्डीकरणाद् ऊर्ध्वं मासिकानाम् अपकर्षम् आह गौतमः ।

प्रेतसंस्कारकार्याणि यानि श्राद्धानि षोडश ।
यथाकाले तु कार्याणि नान्यथा मुच्यते ततः ॥
देशकालादिवैषम्यान् मृत्युरोगादिशङ्कया ।
एकादशे ऽह्नि कार्याणि ह्य् अपकृष्यापि षोडश ॥
यथोक्तकालकार्याणि पुनः श्राद्धानि षोडश ।
वृद्धौ तान्य् अपकृष्यापि चरेत् तन्मृतवासरे ॥ इति ।

शाट्यायनिः ।

सपिण्डीकरणाद् अर्वाग् अपकृष्य कृतान्य् अपि ।
पुनर् अप्य् अपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति ।

विष्णुः ।

प्रेतश्राद्धानि सर्वाणि सपिण्डीकराद् अनु ।
अपकृष्यापि कुर्वीत कर्ता नान्दीमुखे द्विजः ॥
यः कर्ता तु विना वृद्धिं प्रेतश्राद्धानि कर्षति ।
स श्राद्धी नरके घोरे पितृभिः सह मज्जति ॥
निर्वर्त्य वृद्धितन्त्रं यो मासिकानि समाचरेत् ।
अयातयामं मरणं भवेत् तस्य न संशयः ॥
वृद्धिश्राद्धादिहीनस् तु यः श्राद्धान्य् अपकर्षति ।
स श्राद्धी नरके घोरे पितृभिः सह मज्जति ॥ इति ।

अनुपस्थितायां वृद्धौ प्रेतश्राद्धं नापकर्षयेद् इत्य् अर्थः । प्रचेताः ।

श्राद्धानि षोडशानीह कुर्याद् एकादशे ऽहनि ।
सपिण्डीकरणं कुर्याद् द्वादशाहे तु यत्नतः ॥
मासिकानि च सर्वाणि यथाकालं समाचरेत् ।
अपकृष्यापि वा कुर्याद् वृद्धिश्राद्ध उपस्थिते ॥
न च जन्मर्क्षके कुर्यान् नन्दासु न भृगोर् दिने ।
न भानुभौमदिवसे न दोषो ऽस्ति मृते ऽहनित् ॥ इति ।

शातातपः ।

मासिकान्य् अपकृष्यापि चरेत् तन्मृतवासरे ।
त्रिपुष्करे च नन्दासु दर्शे भार्गववसरे ॥
चतुर्दश्यां न कुर्वीत ह्य् ऊनानि त्रीणि वह्णिभे ॥ इति ।

दक्षः ।

त्रिपुष्करे च नन्दासु सिनीवाल्यां भृगोर् दिने ।
चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्करे ॥ इति ।

विष्णुः ।

सिनीवाल्यां च नोनानि कृत्तिकासु च पुष्करे । इति ।

सपिण्डीकरणात् पूर्वं मासिकान्य् एकोद्दिष्टविधिना कुर्यात् । सपिण्डीकरणाद् ऊर्ध्वं भ्रातृपत्न्यादीनाम् एकोद्दिष्टविधानेनैव । मातापितृज्येष्ठभ्रातॄणां पार्वणविधिनैव । तद् आह दक्षः ।

पत्नीभ्रातृपितृव्याणां सपिण्डीकरणात् परम् ।
एकोद्दिष्टविधानेन मासिकानां पुनः क्रिया ॥
पितृमात्रग्रजादीनां पार्वणेन पुनः क्रिया ॥ इति ।
पैठीनसिः ।

सपिण्डीकरणाद् अर्वाग् यानि श्राद्धानि षोडश ।
एकोद्दिष्टाविधानेन कुर्याच् छ्राद्धानि तानि हि ॥
सपिण्डीकरणाद् ऊर्ध्वं यदा कुर्यात् तदा पुनः ।
प्रत्यब्दं यो यथा कुर्यात् तथा कुर्यात् कृतान्य् अपि ॥ इति ।

यथा पुत्रादि पित्रादीनां प्रत्यब्दं पार्वणविधिना कुर्यात् तथा मासिकान्य् अपि सपिण्डीकरणाद् ऊर्ध्वं कुर्यात् । यथानुजपुत्रपत्नीगुर्वादीनां प्रत्यब्दम् एकोद्दिष्टविधिना कुर्यात् तथा मासिकान्य् अपि सपिण्डीकरणाद् ऊर्ध्वं कुर्याद् इत्य् अर्थः । अपराह्ने पार्वणश्राद्धं कर्तव्यम् इत्य् उक्तं प्राक् । त्रिविधेष्व् एकोद्दिष्टेषु तिथिद्वैधे मध्याह्ने कर्तव्यम् इत्य् आह मनुः ।

एकोद्दिष्टं तु मध्याह्ने नवश्राद्धदिकं चरेत् ।
न संध्यायां तु कर्तव्यं नैव रत्रौ कदाचन ॥

इत्यादिवचनाद् अत्र मृतस्य न दहनाद् अनन्तरं कर्तव्यं नवश्राद्धं नगप्रच्छादनं च, किं तु परे ऽहनित् मध्याह्ने कर्तव्यम्,

तिलोदकं तथा पिण्डं नग्नप्रच्छादनं नवम् ।
रात्रौ न कुर्यात् संध्यायां यदि कुर्यान् निरर्थकम् ॥

इति जातूकर्णिवचनाच् च । नवमिश्रसंज्ञकषोडशैकोद्दिष्टेष्व् अपराह्णव्यापिनी तिथिर् ग्राह्या, किं वा सायाह्नव्यापिनी, इति तिथिसंदेहे सामान्येन सायाह्नव्यापिनी तिथिर् ग्राह्या पित्रर्थे चापराह्णिकीति ।

आपराह्णिकास् तु तिथयः पित्रर्थे तु शुभावहाः ।
अपराह्णः पितृणां तु यापराह्णानुयायिनी ॥
सा ग्राह्या पितृकार्येषु न पूर्वाह्णानुयायिनी ॥ इति ।

वृद्धमनुर् अपि ।

यस्याम् अस्तं रविर् याति पितरस् ताम् उपासते ।
तिथिस् तेभ्यो यथा दत्तो ह्य् अपराह्णः स्वयंभुवा ॥ इति ।

सामान्यशास्त्रं विधिमात्रोपजीवनेन प्रवृत्तत्वाद् अपि सामान्यम् । अपराह्णस् त्रिमुहूर्तास् तमयव्यापी । पक्षत्रयं नैकोद्दिष्टविषयं पित्र्यकर्मसामान्यम् उपजीव्य प्रवृत्तत्वात् । एकोद्दिष्टश्राद्धे मध्याह्नव्यापी पक्षो वाचनिकः । शिवराघवसंवादे ।

मध्याह्नव्यापिनी या स्यात् सैकोद्दिष्टे तिथिर् भवेत् ।
अपराह्नव्यापिनी या पार्वणे सा तिथिर् भवेत् ॥ इति ।

हारीतशातातपौ ।

आमश्राद्धं तु पूर्वाह्ण एकोद्दिष्टं तु मध्यमे ।
पार्वणं चापराह्णे स्यात् प्रातर् वृद्धिनिमित्तकम् ॥
एकम् उद्दिश्य यच् छ्राद्धं दैवहीनं विधीयते ।
एकोद्दिष्टं तु तत् प्रोक्तं मध्याह्ने तत् प्रकीर्तितम् ॥ इति ।

स तु गान्धर्वकुतपरौहिणसंज्ञको मध्याह्नस् त्रिमुहूर्तकः । तस्योपक्रमे कुतपपूर्वोत्तरभागाविच्छया विकल्पितौ । तद् आह व्यासः ।

कुतपप्रथमे भाग एकोद्दिष्टम् उपक्रमेत् ।
आवर्तनसमीपे वा तत्रैव नियतात्मवान् ॥ इति ।

समाप्तिकालम् आह गौतमः ।

आरभ्य कुतपे श्राद्धं कुर्याद् आरौहिणं बुधः ।
विधिज्ञो विधिम् आस्थाय रौहिणं तु न लङ्घयेत् ॥

उभयत्र गान्धर्वव्यापिन्ये (?) पूर्वविद्धा ग्राह्या पूर्वा हि सायाह्नास् तमयव्यापित्वात् । सामान्यशास्त्रबलात् उभयत्र त्रिमुहूर्तव्यापित्वे पूर्वैव, सामान्यापराह्णनिर्णयवत् ॥

इति स्मृतिचन्द्रिकायां षोडशश्राद्धादिनिरूपणम्