३१ वृषोत्सर्गविधिः

वृषोत्सर्गविधिः

एकादशे ऽहनि वृषोत्सर्गः कर्तव्यः । तत्र पुराणम् ।

उत्सृजेत् संभवे नीलं लोहितं कृष्णम् एव वा ।
मृतो न पश्येन् नरकं गोघाती ब्रह्महापि वा ॥
पुत्रो वा भ्रातृपुत्रो वा मृतस्यैकादशे ऽहनि ।
उत्सृजेद् वृषभं नीलं यथावर्णम् असंभवेत् ॥
प्रेतत्वात् प्रविमुच्यन्ते महापातकिनो नराः॥ इति ।

व्यासः ।

एकादशे ऽह्नि संप्राप्ते प्रेतस्य स्वर्गसाधनम् ।
वृषम् एकं समुत्सृज्य श्राद्धे विप्रांश् च भोजयेत् ॥ इति ।

काश्यपः ।

नीलं वाप्य् अथ वा कृष्णं मृतस्यैकादशे ऽऽहनित् ।
वृषं पापविशुद्ध्यर्थं रुद्राणाम् अनुशासनात् ॥
होमकर्मसमायुक्तं रुद्रप्रीतिकरं त्यजेत् ।
विप्रो वा क्षत्रियो वापि वैश्यः शूद्रो ऽपि वा तथा ॥
वृषहीनो मृतो याति रौरवं तमसावृतम् ।
पतिपुत्रवती नारी मृता चेज् जीवभर्तृका ॥
पातिव्रत्येन तल्लोकं वृषहीना न गच्छति ।
सप्तजन्मकृतं पापं यद् बाल्ये यच् च वार्धके ॥
तक्षणाद् एव नश्येत वृषोत्सर्गे पितुः कृते ।
अशौचे निर्गते पुत्रो नीलं वृषम् अलंकृतम् ॥
पितॄन् उद्दिश्य रुद्राय होमकर्मसमन्वितम् ।
उत्सृजेद् अथ रुद्रस्य लोकं यात्य् अत्र मानवः ॥ इति ।

यत् तु वचनम्,

पतिपुत्रवती नारी म्रियते चेद् द्वयोः पुरा ।
वृषं नैवोत्सृजेत् तस्या गाम् एकां तु समुत्सृजेत् ॥

इति, तत् वृषं गां चोत्सृजेद् इति शक्तविषयम् । अशक्तः पतिपुत्रवतीविषये वृषोत्सर्गम् एव कुर्यात् । व्यासः ।

पतिव्रता बन्धुमती पुत्रिकी सुभगा मृता ।
नोसृजेद् वृषम् एकं तु सहगाम् उत्सृजेद् वृषम् ॥ इति ।

वसिष्ठः ।

एकादशे ऽह्नि संप्राप्ते यस्य नोत्सृज्यते वृषः ।
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैर् अपि ॥ इति ।

लोकाक्षिः ।

एकादशे वृषोत्सर्गम् अह्नि कुर्वीत यत्नतः ।
पतिपुत्रवती नारी म्रियते चेद् द्व्ययोः पुरा ॥
वृषं नैवोत्सृजेत् तस्या इति यत् तद् असांप्रतम् ।
न स्त्रियश् च वृषोत्सर्गं भर्ता कुर्यात् कदाचन ॥
संस्कर्ता तु स्वयं चेत् स्यात् पुत्रहीना भवेद् यदि ।
अन्यो वा तन्नियोगेन दाहादि श्राद्धम् आचरेत् ॥
वृषं रुद्रान् वसूंस् त्यक्त्वा सपिण्डीकरणावधि ।
तत् कुर्याद् यदि मोहेन कुलक्षयकरं भवेत् ॥
संस्कर्ता यदि पुत्रः स्याद् वृषं नीलं समुत्सृजेत् ॥ इति ।

अथ पुत्रग्रहणं भ्रातृपुत्रविषयम् । नीलवृषलक्षणम् उक्तं शातातपेन ।

लोहितो यस् तु वर्णेन मुखे पुच्छे च पाण्डरः ।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥
शूलं चक्रं तथान्यद् वा लाञ्छनं तस्य कारयेत् ।
यस्य देवस्य यो भक्तः स तच्चिह्नं च कारयेत् ॥
स्वर्गकामो वृषोत्सर्गे नान्दीमुखविधानतः ।
प्रेतत्वस्य विमोकार्थं रुद्रं वा वृद्धिरूपतः ॥
ब्राह्मणान् भोजयेद् अष्टौ हिरण्येनोदकेन वा ॥ इति ।

एतत् कालान्तरे पुनः पितृप्रीत्या कृतवृषोत्सर्गविषयम् ॥

इति स्मृतिचन्द्रिकायां वृषोत्सर्गविधिः