३० एकोद्दिष्टविधिः

अथैकोद्दिष्टविधिः

तत्र मरीचिः ।

आशौचान्ते ततः सम्यक् पिण्डदानं समापयेत् ।
तत्र श्राद्धं प्रदातव्यं सर्ववर्णेष्व् अयं विधिः ॥ इति ।

ततः आशौचानन्तरम् एकादशे ऽहनि ब्राह्मण एकोद्दिष्टं कुर्यात् । “एकादशे ऽहन्य् एकोद्दिष्टं कुर्यात्” इत्य् अयं विधिः क्षत्रियादिष्व् अपि वर्णेषु समान इत्य् अर्थः ।

नन्व् आशौचसमाप्त्यनन्तरम् एकोद्दिष्टविधिः सर्वेष्व् अपि वर्णेषु किं न स्यात्, एकादशे ऽहनि क्षत्रियादीनाम् अधिककालाशौचिनां शुद्ध्यभावात् । “शुचिना कर्म कर्तव्यम्” इति शुद्धेः कर्माङ्गत्वविधानात् । अथ,
आशौचे निर्गते कुर्याद् गृहमार्जनलेपने ।

इत्य् आशौचानन्तरं गृहशुद्धिः ।

मैवम्, सूतकान्ते पुण्याहवाचनम् इति साधारण्येनोपग्रम्य एकादशे ऽहन्य् एकोद्दिष्टस्य विष्णुनाभिहितत्वात् । तथा,
आद्यं श्राद्धम् अशुद्धो ऽपि कुर्याद् एकादशे ऽहनित् ।
कर्तुस् तात्कालिकी शुद्धिर् अशुद्धः पुनर् एव सः ॥

इति शङ्खवचनेन आशौचमध्य एकादशे ऽह्न्य् एकोद्दिष्टविधानाच् च ।

नन्व् इदम् असमञ्जसम्,
एकादशाहे ऽह्नि यच् छ्राद्धं तत् सामान्यम् उदाहृतम् ।
चतुर्णाम् अपि वर्णानां सूतकं तु पृथक् पृथक् ॥

अस्यायम् अर्थः - आशौचानन्तरदिने यच् छ्राद्धं विहितं तच् चतुर्णाम् अपि वर्णानां साधारणं न ब्राह्मणस्यैवेति । कथं तर्ह्य् एकादशाहशब्सयोपपत्तिर् इति चेत्, लक्षणयाशौचानन्तरदिनपरत्वोपपत्तेः ।

अत्रोच्यते - एकादशाहकालविशिष्टैकोद्दिष्टश्राद्धं चतुर्णाम् अपि वर्णानां विधीयते “न विधौ परः शब्दार्थः” इति न्यायेनैकादशाहशब्दस्य लक्षणया आशौचानन्तरदिनपर्त्वानुपपत्तेः, सति मुख्ये वृत्त्यन्तरकल्पनाया अन्याय्यत्वाच् चैकादशाह एव क्षत्रियादिभिर् अप्य् एकोद्दिष्टश्राद्धं कर्तव्यम् ।
नन्व् एकादशे ऽहनि क्षत्रियादीनां शुद्ध्यभावाच् छ्राद्धाधिकारो नास्तीति चेत्, न, “कर्तुस् तात्कलिकी शुद्धिः” इति तात्कालिक्याशुद्धेः सत्वात् । यत् तु शङ्खवचनस्य आशौचमध्ये आशौचान्तरप्राप्ताव् एकोद्दिष्टम् एकादशे ऽहन्य् अशुद्धो ऽपि कुर्याद् इति विषयविशेषे तात्पर्यम् उच्यते, तन् न, तत्रापि शुद्ध्यभावाद् इत्य् अस्य चोद्यस्य समानत्वात् । सामान्येन प्रवृत्तस्य शङ्खवचनस्य विना कारणं विशेषपरत्वे संकोचकाभावाच् च । यद् उक्तम् - “अथाशौचापगमे” इति सामान्येन उपक्रम्य विष्णुनैकोद्दिष्टविधानाद् आशौचानन्तरम् एव सर्वैर् एकोद्दिष्टं कर्तव्यम् एवेति । तन् न, विष्णुवचनश्य दशाहाशौचब्राह्मणविषयत्वेनोपपत्तेः । तस्माद् एकादशाहे क्षत्रियादिभिर् अप्य् एकोद्दिष्टश्राद्धं कर्तव्यम् इति। सुष्ठूक्तम् । व्यासः ।
सूतकानन्तरं कुर्याद् एकोद्दिष्टद्वयं बुधः ।
सूतके पतिते चापि स्वतन्त्रं नातिसङ्घयेत् ॥ इति ।

स्वतन्त्रं (?) नवशाद्धाद् अन्यत्, नवश्राद्धं च नवमिश्रद्वयम् । गौतमश् च ।

ब्राह्मणं भोजयेद् आद्ये होतव्यम् अनलो ऽपि वा ।
पुनश् च भोजयेद् विप्रं द्विर् आवृत्तिर् भवेद् इति ॥

स्वतन्तैकोद्दिष्ठम् आशौचमध्ये ऽपि कार्यम् एव । यत् तु,

पित्रोस् तु पितृपूर्वत्वं सर्वत्र श्राद्धकर्मणि ।

इति, तत् स्वतन्तैकोद्दिष्टव्यतिरिक्तनवमिश्रादिसर्वश्राद्धविषयम् । एकादशे ऽहनीत्य् अनेनैकदशाहव्यतिरिक्तनवमिश्रादि आशौचविघ्नसंभवे विघ्नोपशमनानन्तरम् एव कार्यम् । एकादशे ऽहनि स्वतन्तैकोद्दिष्टातिक्रमे दोषो बृहस्पतिना दर्शितः ।

एकादशाहे यच् छ्राद्धम् एकोद्दिष्टं समाचरेत् ।
यदि कार्यं न कुर्वीत पुनः संस्कारम् अर्हति ॥ इति ।

एकादशे ऽहनि षोडशानामाद्यस्य तु कालान्तरविधानाद् आशौचविघन्संभवे न कर्तव्यम् ।

एकादशाहे त्व् आद्यस्य संकटं तु यदा भवेत् ।
द्वादशाहे ऽपि कर्तव्यं त्रयोविंशदिने ऽपि वा ॥ इति ।

अत्रैकादशे ऽहन्य् एकादशब्राह्मणभोजनं प्रेतोद्देशेन कर्तव्यम् । तद् आह सत्यव्रतः - “एकादशे ऽहनि प्रेतार्थं ब्राह्मणान् एकादशामन्त्र्य नानाभक्ष्यान्नरसविन्यासैर् आशयित्वा विधिवत् पिण्डदानं वासोहिरण्यकांस्योपानच्छत्रोदकुम्भदक्षिणां गुणवति विप्रे वा दद्यात्” इति । विप्राभावे ऽग्नौ कार्यम् । तथाह काश्यपः ।

एकोद्दिष्टे तु संप्राप्ते विप्राभावे कथं भवेत् ।
अभ्यर्च्य सुसमिद्धे ऽग्नौ पायसं जुहुयाद् धविः ॥
पौरुषेण तु सूक्तेन द्वात्रिंशद् (?) ग्राससम्मितम् ॥ इति ।

व्यासो ऽपि ।

एकादशभ्यो विप्रेभ्यो दद्याद् एकादशे ऽहनि ।
रुद्रम् उद्दिश्य कर्तव्यं रुद्रप्रीतिकरं (?) हि तत् ॥ इति ।

अस्य देशाचारतो व्यवस्था । शातातपश् च ।

एकादशसु विप्रेषु रुद्रम् उद्दिश्य भोजयेत् ।
प्रेतत्वस्य विमोकार्थं मधुक्षीरघृताशनैः ॥ इति ।

अस्य विषयान्तरम् आह प्रचेताः ।

विहिते च वृषोत्सर्गे त्व् अलाभे शक्त्यसंभवे ।
प्रेतत्वस्य विमोकार्थं रुद्रान् एकादशाशयेत् ॥ इति ॥

इति स्मृतिचन्द्रिकायाम् एकोद्दिष्टविधिः