२९ आशौचान्ते पुण्याहवाचनविधिः

आशौचान्ते पुण्याहवाचनविधिः

अथाशौचानन्तरं पुण्याहवाचनं कार्यम् । संवर्तः ।

आशौचे निर्गते कुर्याद् गृहमार्जनलेपने ।
सवासा जलम् आप्लुत्य शुद्धः पुण्याहवाचनैः ॥

वसिष्ठो ऽपि ।

आशौचान्ते तु कर्तव्यं ब्राह्मणस्याभिषेचनम् ।
ऋग्भिर् यजुर्भिश् छन्दोगैर् अब्लिङ्गैः पावमानिकैः ।
आशिषश् च गृहीत्वाथ श्राद्धकर्म समाचरेत् ॥ इति ।

व्यासो ऽपि ।

संपूज्य गन्धपुष्पाद्यैर् ब्राह्मणान् स्वस्ति वाचयेत् ।
धर्मकर्मणि संकल्पे संग्रामे ऽद्भुतदर्शने ॥
यज्ञार्थे च पर्तिष्ठादौ सर्वसंस्कारकर्मसु ।
शुद्धिकामस् तुष्टिकामः श्रेयःकामश् च नित्यसः ॥ इति ।

यमो ऽपि ।

पुण्याहवाचनं चैवं ब्राह्मणस्य विधीयते ।
एतद् एव त्रिर् ॐकारं कुर्यात् क्षत्रियवैश्ययोः ॥
मन्त्रवर्जं तु शूद्राणां कुर्यात् पुण्याहम् अस्त्व् इति ।
वचनेनैव विप्रस्य वृद्धिर् अस्ति त्रिवाचकम् ॥ इति ।

काश्यप-आपस्तम्बौ - “लोकेषु भूतिकर्मस्व् एव तदानीं च वाक्यानि स्युः पुण्याहं स्वस्त्य् ऋद्धिर् अस्त्व् इति” इति । एतत् सर्वं गृह्यसूत्रे स्पष्ठं चोदीरितम् ॥

**इति स्मृतिचन्द्रिकायाम् आशौचान्ते पुण्याहवाचनविधिः **