२८ मृताहाद्यपरिज्ञानविधिः

मृताहाद्यपरिज्ञानविधिः

देशान्तरमृतस्य मृताहाद्यपरिज्ञाने कर्तव्यम् आह पराशरः ।

देशान्तरगतो विप्रः प्रवासात् कालकारितात् ।
देहनाशम् अनुप्राप्तः स्थितिर् न ज्ञायते यदि ॥
कृष्णाष्टमी त्व् अमवस्या कृष्णा वैकादशी च या ।
उदकं पिण्डदानं च तत्र श्राद्धं समाचरेत् ॥ इति ।

दहनाशौचं विना कृष्णाष्टम्यादिषु त्रिषु पिण्डोदकदानासंभवाद् दहनौशाचस्वीकारो ऽपि (?) तत्र विवक्षित इति गम्यते । द्विविधो हि देशान्तरभृतः, कृतसंसरो ऽकृतसंस्कारश् चेति । कृतसंस्कारश् चाशौचान्ते वक्ष्यते । अकृतसंस्कारो ऽपि द्विविधः, मरणदिवसज्ञानाज्ञानभेदात् । यस्य हि मरणदिवसो ज्ञातः तस्य प्रत्याब्दिकादिश्राद्धं तद्दिन एव कर्तव्यम् । अन्यदिवसे पुनर् दहनम् आशौचग्रहणं च । पिण्डोदकादिदानं त्व् अनिषिद्धदिननक्षत्रवारादिकं प्रत्यालोचय तत्रनुष्ठेयम्, स्मृतिपुराणसिष्टाचाराणां तथा प्रवृत्तत्वात् । स्मृत्यन्तरे ।

महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना ।
अतीते ऽब्दे ऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥
गृहीत्वाशौचनियमं केशश्मश्रुनिकृन्तनम् ।
आ दशाहात् प्रतिदिनं यथाविध्य् उदकाच् छुचिः ॥
एकादशाहे संप्राप्ते सपिण्डीकरणं भवेत् ।
अन्येषां भ्रातृपूर्वाणां प्रतिश्राद्धं तिलोदकम् ॥
कृतसंस्कारकस्येदम् अकृतस्याधुनोच्यते ।
समीपस्यासमीपस्य प्रेतकर्म द्विधा स्मृतम् ॥
समीपस्य च संस्कारे दिनं नैव विशोधयेत् ।
आशौचदिनमध्ये तु पुनःसंस्कारम् आचरेत् ।
शोधनीयं दिनं तत्र चेत् पुनःसंस्क्रियते मृतः ॥
संशोध्यैव दिनं ग्राह्यम् ऊर्ध्वं संवत्सराद् यदि ।
प्रेतकार्याणि कुर्वन् स्याच् छ्रेयस् तत्रोत्तरायणम् ।
कृष्णपक्षश् च हि तथा वर्जेत् त्रिपदर्क्षकान् ॥ इति ।

कात्यायनः ।

प्रत्यक्षशवसंस्कारे दिनं नैव विशोधयेत् ।
निर्दिष्टकालवीक्षायां शवः पर्युषितो भवेत् ॥
दग्धः पर्युषितो यैस् तु पुत्रमित्रैश् च बन्धुभिः ।
महाभयप्रदस् तेषां तिथ्यादीन् नैव शोधयेत् ॥
दिवा वा यदि वा रात्रौ शवस् तिष्ठति कुत्रचित् ।
तत् पर्युषितम् इत्य् आहुर् दहने तस्य का गतिः ॥
पञ्चगव्येन संस्थाप्य (?) प्राजापत्यं समाचरेत् ।
पूतिगन्धैस् तथा क्लिन्ने स्नाप्य गोमयवारिणा ॥
ब्राह्मणैर् अभ्यनुज्ञातस् तप्तकृच्छ्रं समाचरेत् ।
क्रिमिर् उत्पद्यते यस्य श्वपाकैश् चापि दूषितः ॥
कृत्वा तु पूर्ववत् स्नानं सर्पिषा मधुना ततः ।
पुण्याद्भिर् अभिषिच्याथ सेचयेद् गन्धवारिणा ॥
गां दत्वा दिव्जमुख्याय तप्तकृच्छ्रं समाचरेत् ॥ इति

एतत् सर्वं दुर्मरणप्रायश्चित्ते वक्ष्यते ॥

इति स्मृतिचन्द्रिकायां मृताहाद्यपरिज्ञानविधिः