२७ आहिताग्निदुर्मरणादिविषयाः

आहिताग्निदुर्मरणादिविषयाणि

दुर्मृतस्याहिताग्नेर् विशेषम् आह पारस्करः ।

चण्डालेन श्वपाकेन गोभिर् विप्रैर् हतो यदि ।
आहिताग्निश् च यो विप्रो विषेणाकर्षितो ऽपि वा ॥
दहेत् तं ब्राह्मणं विप्रो लोकाग्नौ मन्तवर्जितम् ।
दग्ध्म् अस्थि पुनर् गृह्य क्षीरैः प्रक्षालयेत् ततः ।
पुनर् दहेत् स्वगिना तु स्वतन्त्रेण यथाविधि ॥

स्वतन्त्रेण स्वशाखोक्तेन विधिना । हारीतः ।

ब्राह्मणेन वधे प्राप्ते चण्डालस्य करेण वा ।
आत्मना शस्त्रनिर्घाते शूद्रवद् दहयेद् द्विजम् ॥
दग्धम् अस्थि पुनर् गृह्य विप्राणाम् अनुशासनात् ।
क्षीरैः प्रक्षालनं कृत्वा तद् अस्थि प्रेतवद् दहेत् ॥
पुनर्दहनमन्त्रैश् च यथाविधि समाचरेत् ।
एवम् एव विधिं कुर्यान् मरणे गर्हितस्य च ॥
प्राजापत्यत्रयं कुर्यात् पुत्रादिः प्रेतशुद्धये ।
प्रक्षाल्य स्नापयित्वा तु शवधर्मेण दाहयेत् ॥
कुशैः पलाशैर् बध्वा तं प्रच्छाद्यैव च वाससा ।
नीत्वा श्मशानं कुर्वीत पात्रसंचयनादिकम् ॥
बान्धवैस् तु यथान्यायं द्वितीये संचयः स्मृतः ।
तृतीये तूदकं दत्वा चतुर्थे श्राद्धम् आचरेत् ॥ इति ।

इदं कृच्छ्रत्रयं प्रमादमृतस्यात्यन्ताशक्तपुत्रविषयम् । शक्तस्य तु ।

ब्राह्मणाद् उदकात् सर्पाद् गोभिः पशुमृगादिभिः ।
उद्बन्धनोदकविषैः सर्पाद्युपलवैद्युतैः ॥
प्रमादमरणे चान्द्रं तप्तकृच्छ्रत्रयं तथा ।
यद् वा षण्मसकृच्छ्राणि गा दद्याद् दश पञ्च वा ॥
विधिवद् दहनं कुर्याद् उदकं श्राद्धम् एव च ॥ इति ।

पुत्रादिः कृत्वेति शेषः । इत्यादिदुर्मृतिप्रायश्चित्तविषयकबहुवचनविरोधप्रसंगाद् विकल्पः । आहिताग्निः संस्कारम् आरभ्याशौचग्रहणं कार्यम् अनाहिताग्नेर् मरणप्रभृति । तद् उक्तम् ।

अनग्निमत उत्क्रान्तेः साग्नेः संस्कारकर्मणः ।
शुद्धिः संचयनं दाहान् मृताहात् तु यथाविधि ॥ इति ।

“साग्नेः संस्कारकर्मणः” इति श्रवणाद् आहिताग्नौ पितरि देशान्तरमृते सति यवद् विधिना संस्कारस् तावत् पुत्रादीनां संध्यादिलोपो नास्त्य् एव । अनेन वचनेनाहिताग्नेर् विधिवद् दहनाभावे आशौचग्रहणं नस्त्य् एवेत्य् अनुसंधेयम्, दाहाद् आरभ्येति वचनात् ॥

अनग्निमत उत्क्रान्तेर् आशौचं हि द्विजातिषु ।
दाहाद् अग्निमतो विद्याद् विदेशस्थे मृते सति ॥

तथा ।

विदेशस्थे मृते यावद् विधिना नैव संस्कृतिः ।
पुत्रादीनां तु संध्यदिकर्मलोपो न विद्यते ॥
आहिताग्नेस् तु विधिवद् दाहान्तं नास्ति चेत् तदा ।
आशौचग्रहणं नस्ति दाहाद्याशौचम् इष्यते ॥

पारस्करो ऽपि ।

आहिताग्नेस् तु दहनाद् दशाहाशौचम् इष्यते ।
अनाहिताग्नेर् मरणात् पुनर् दाहो यदा भवेत् ॥
अशौचे वर्तमाने चेत् तच्छेषेण विशुध्यति ।
गते त्व् आशौचदिवसे पुनर् दाहो यदा भवेत् ॥
मरणादि गृहीतस्य त्रिरात्राच् छुद्दिर् इष्यते ।
अगृहीतस्य पुत्रस्य संपूर्णाशौचम् एव हि ॥
दुर्मृतानां द्विजातीनां दशाहान्तर् बहिस् तु वा ।
नाशुद्धिर् नैव चाशौचं सुद्धिं लब्ध्वा प्रदाहयेत् ।
तदादि चोदकं पिण्डम् आशौचं श्राद्धम् एव च ॥ इति ।

बृहस्पतिः ।

आशौचे वर्तमाने तु पुनर् दहक्रिया यदि ।
तच्छेषेणैव सुद्धिः स्याद् अतीते सूतकं भवेत् ॥
दशाहादि यथावर्णं पित्रोर् आशौचम् आचरेत् ।
सपत्नीनां मिथो ज्ञेयं दम्पत्योस् च परस्परम् ॥
सपिण्डानां त्रिरात्रं स्याद् इत्य् उवाच प्रजापतिः ॥ इति ।

वसिष्ठः ।

प्रमीतपितृकः पुत्र और्ध्व्दैहिकम् आचरेत् ।
यदि कर्तुम् अशक्तश् चेद् आशौचनियमान्वितः ॥
आ दशाहाद् अथोर्ध्वं वा यदा कार्यक्षमस् तदा ।
त्रिरात्रं समतिक्रम्य श्राद्धं कुर्याद् यथाविधि ॥
दाहकस्यैतद् आशौचम् इतरेषां न विद्यते ।
कालातिपत्तिविषये यद्य् अर्वाग् अपि तत्समम् ॥ इति ।

अर्वाक् सूतकाद् अर्वाक् शेषाशौचसमकलम् इत्य् अर्थः । सपत्नीनां दम्पत्योश् च मिथ इति यद् उक्तं तत्पुत्रहीनविषयम् इत्य् अनुसंधेयम् । पराशरः ।

ऊर्ध्वोच्छिष्टम् अधोच्छिष्टम् अन्तरिक्षमृतौ तथा ।
कृच्छ्रत्रयं प्रकुर्वीत आशौचमरणे ऽपि च ॥
निमित्तद्वितये प्राप्ते प्राजापत्यार्धम् आचरेत् ।
सर्वेष्व् अपि निमित्तेषु कुर्यात् पञ्चदशापि च ॥ इति ।

अन्यत् सर्वम् आत्मघातप्रायश्चित्ते वक्ष्यते ॥

इति स्मृतिचन्द्रिकायाम् आहिताग्निदुर्मरणादिविषयाणि