२६ पालाशविधिः

अथ पालाशविधिः

तत्र स्मृत्यन्तरम् ।

शरीराणि न विन्देरन् देशान्तरमृतस्य चेत् ।
पलाशपर्णवृन्तैस् तु कुर्यात् तत्प्रतिरूपकम् ॥
दद्याच् छिरस्य् अशीत्यर्धं ग्रीवायां तु दशैव तु ।
उरसि त्रिंशतं दद्याद् विंशतिं जठरे तथा ॥
बाह्वोर् द्वयोः शतं दद्याद् दश बाह्वङ्गुलीषु च ।
द्वादशार्धं वृषणयोर् अष्टार्धं शिश्न एव तु ॥
ऊर्वोर् द्वयोः शतं दद्यात् षष्ट्यर्धं जानुजङ्घयोः ।
दश पादाङ्गुलीषु स्युर् ऊर्णासूत्रेण बन्धयेत् ॥
स्नाप्यालंकृत्य तद्रूपं कुर्यात् तस्याभिमर्शनम् ।
दद्यात् पुत्रो ऽथ वा भ्राताप्य् अन्यो वापि च बान्धवः ।
यथा दहनसंस्कारस् तथा कार्यं विचक्षणैः ॥ इति ।

हारीतेनापि पलाशवृन्तसंख्या दर्शिता ।

देशान्तरगते विप्रे विपन्ने कालपर्ययात् ।
शरीरनाशकल्पः स्याद् आहिताग्नेर् विशेषतः ॥
कृष्णाजिनम् अथास्तीर्य पुरुषाकृतिम् एव च ।
त्रीणि षष्टिशतं वृन्ताः पलाशानां समाहिताः ॥
दद्याच् छिरस्य् अशीत्यर्धं ग्रीवायां च दशैव तु ।
बाहुभ्यां तु शतं दद्याद् अङ्गुल्योर् दश चैव तु ॥
उरसि त्रिंशतं दद्याज् जठरे विंशतिं तथा ।
दद्याद् अष्टौ वृषणयोः पञ्च मेहे तु विन्यसेत् ॥
ऊरुभ्यां तु शतं दद्यात् त्रिंशतं जानुजङ्घयोः ।
दश पादाङ्गुलीषु स्युर् एतत् प्रेतविकल्पनम् ॥
पात्राणां चमसादीनां निर्णयः कथ्यते ऽधुना ।
अनुलोमानि सर्वाणि पात्राणि प्रयुनक्ति हि ॥
ध्रुवां तु दक्षिणे हस्ते स्फ्यं जुहूं च निधापयेत् ।
क्षिपेद् उपभृतं सव्य उरसि स्रुक्स्रुवारणीन् ॥
मुखे ऽग्निहोत्रहवणीं क्षिपेन् नासिकयोः स्रुवौ ।
अक्ष्णोर् हिरण्यशकले स्रुचौ वा कर्णयोः क्षिपेत् ॥
प्राशित्रं । । । । । । हन्वोर् उलूखलम् ।
मुसलं च तथा दत्सु ग्राव्णो यदि भवेत् तदा ॥
कपालानि विनिक्षिप्य सिरस्य् एकं ललाटके ।
पिष्टसंयमनीं पात्रीम् उदरे तु विनिक्षिपेत् ॥
आज्यस्थालीं क्षिपेन् नाभ्यां शूर्पं छित्त्वा तु पार्श्वयोः ।
पक्षयोश् चैव सान्नाय्यकुम्भौ यदि हि संनयेत् ॥
शिश्ने ऽश्मानं ततो दद्याद् अण्डयोर् दृषदुपले ।
स्थापयेत् पृष्ठतः शम्यां दक्षिणस्थानपादतः ॥
स्थालीं चैवाग्निहोत्रस्य अन्वाहार्यस्य चैव हि ।
उत्तरस्यां विनिक्षिप्य कूर्चं च शिरसि क्षिपेत् ।
दाहात् तु शवसंस्कारे पुनः कार्ये त्व् अयं विधिः ॥ इति ।

आहिताग्निमरणग्रहणम् अनाहिताग्नेर् अप्य् उपलक्षणम् । उक्तं च कात्यायनेन ।

आहिताग्निर् यथान्यायं दग्धव्यस् त्रिभिर् अग्निभिः ।
अनआहिताग्निर् अप्य् एवं स्वेनौपास्येन वह्निना ॥
पात्राणां चयनस्थाने होमपात्रं विनिक्षिपेत् ॥ इति ।

पराशरगौतमादिभिर् उक्तन्यूनाधिकयोर् विकल्पः । आहिताग्न्यादीनां पलाशवृन्तसंख्याव्यस्थापकहेत्वभावाद् विकल्पो द्रष्टव्यः ॥

इति स्मृतिचन्द्रिकायां पालाशविधिः