२५ पुनःसंस्कारकालनिर्णयः

अथ पुनःसंस्कारकालनिर्णयः

बाले वा यदि वा वृद्धे शुक्रे चास्तम् उपागते ।
अपूर्वदेवयात्रां च प्रेतकार्याणि वर्जयेत् ॥
बाले वा यदि वा वृद्धे शुक्रे चास्तम् उपागते ।
प्रेतकर्म न कार्यं स्याद् अस्ते च गुरुशुक्रयोः ॥
अतीतकालं श्राद्धं चेत् पुनः संस्कारम् अर्हति ।
अर्वाक् त्रिपक्षात् प्रेतस्य पुनर् दहनकर्मणि ॥
न कालनियमो ज्ञेयो न मौढ्यं गुरुशुक्रयोः ।
सपिण्डनक्रियाकाले ऽप्य् और्ध्वदैहिकम् आचरेत् ।
गुरुभार्गवमौढ्यादिदोषस् तत्र न विद्यते ॥

एतत् मृतसंवत्सरविषयम् ।

चतुर्दशीं तिथिं नन्दां भद्रां शुक्रारवासरौ ।
त्रिपुष्करादिदुष्टर्क्षान् द्व्यङ्घ्रिभं विषमाङ्घ्रिभम् ॥
वसूत्तरार्धतः पञ्च त्रिपदर्क्षे द्विपुष्करे ।
पौष्णब्रह्मभयोर् भूयाद् दहनात् कुलनाशनम् ॥
दिनोत्तरार्धे तत् कर्तुश् चन्द्रताराबलान्विते ।
यत् पुनर् दहनं चोक्त्वा श्राद्धकालम् अथोच्यते ॥
त्रिपक्षे वा त्रिमासे वा षण्मासे युग्मपक्षके ।
एष्व् एव कालेष्व् एतान्य् अप्य् एकोद्दिष्टानि षोडश ॥

श्राद्धकालाविरोधेन पुनःसंस्कारकर्मापि कार्यम् एव ।

कृत्तिकासु च नन्दायां भृगुवारे त्रिजन्मसु ।
प्रेतकार्यं न कर्तव्यं कुलक्षयकरं भवेत् ॥
सकृन् महालये काम्ये न्यूनश्राद्धे नवेषु च ।
अतीतकालविषये चैतत् सर्वं विचिन्तयेत् ॥

इति स्मृतुचन्द्रिकायां पुनःसंस्कारकालनिर्णयः