२४ उदकदानानर्हाः

उदकदानानर्हाः

अथोदकदानानर्हान् आह ।

पाषण्ड्यनास्रितस्तेनभर्तृघ्न्यः कामुकादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ इति ।

वेदबाह्यलिङ्गेन पाषण्ड्य् अनर्हः । अनाश्रितः सत्य् अप्य् अधिकारे अकृताश्रमविशेषपरिग्रहः, अनाश्रमीति यावत् । स्तेनः सुवर्णादेर् हर्ता । भर्तृघ्नी पतिघातिनी । कामुका कुलटा । सुरापी सुरापानरता । आत्मत्यागिनी कामाद् विषोद्बन्धनादिभिः प्राणत्यागिनी । मनुः ।

वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥
पाषण्डम् आश्रितानां च चरन्तीनां च कामतः ।
गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ इति ।

परभार्यास्व् अधर्मोत्पादिता वृथासंकरजाताः । प्रव्रज्या पित्रादिबहिष्कारेण स्वेच्छयैव वृत्तिः । तथा यमः ।

वृथासंकरजातानाम् आश्रमान्तस्थिताश् च ये ।
दत्तानां चैव कन्यायां निवर्तेतोदकक्रिया ॥
चण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् विद्युतस् तथा ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मणाम् ॥
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ॥
नाशौचं नोदकं तेषां न दाहाद्यन्त्यकर्म च ।
ब्रह्मदण्डहतानां च न कुर्यात् कटधारणम् ॥

ब्रह्मदण्डो ब्रह्मशापः अभिचारो वा । कटशब्देन शववहनोपयोगि खट्वादिकम् अधिधीयते । आपस्तम्बः ।

व्यापादयेद् य आत्मानं स्वयम् अग्न्युदकादिभिः ।
विहितं तस्य नाशौचं नापि कार्योदकक्रिया ॥ इति ।

विष्णुः - “आत्मत्यागिनो नाशौचओदकभागिनः” इति । गौतमः - “गोब्राह्मणहतानाम् अन्वक्षं राजक्रोधाच् चायुद्धे प्रायो ऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच् छताम्” इति । प्रायो महाप्रस्थानम् । अनाशकम् अनशनम् । ब्रह्मपुराणे ।

शृङ्गिदंष्ट्रिनखिव्यालविषवह्निमहाजलैः ।
सुदूरात् परिहर्तव्यैः कुर्वन् क्रीडां मृतस् तु यः ॥
नागानां विप्रियं कुर्वन् दग्धश् चप्य् अथ विद्युता ।
निगृहीताश् च ये राज्ञा चौर्यदोषेण कर्हिचित् ॥
परदारान् हरन्तश् च रोषात् तत्पतिभिर् हताः ।
असमानैश् च संकीर्णैश् चण्डालाद्यैश् च विग्रहम् ॥
कृत्वा तैर् निहतास् तद्वच् चण्डालांश् च समाश्रिताः ।
क्रोधात् प्रयं विषं वह्निं शस्त्रम् उद्बन्धनं जलम् ॥
गिरिवृक्षप्रपातं वा ये कुर्वन्ति नराधमाः ।
ब्रह्मदण्डहता ये च ये चैव ब्राह्मणैर् हताः ॥
महापातकिनो ये च पतितास् ते प्रकीर्तिताः ।
पतितानां न दाहः स्यान् नाशौचं नान्त्यकर्म च ।
न चाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं च न ॥ इति ।

चण्डालादिहतानाम् अयम् अग्निसंस्कारनिषेधो ऽनाहिताग्निविषयः, आहिताग्निविषये च “आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् च” इति विहिताग्नियज्ञपात्रैः प्रतिपत्तिलोपप्रसङ्गात्, स्मृत्यन्तरे चण्डालादिहताहिताग्निसंबन्धिनाम् अग्नीनां यज्ञपात्राणां च प्रतिपत्तिपर्यन्तं विधानात् ।

वैतानं प्रक्षिपेद् अप्सु ह्य् आवसथ्यं चतुष्पथे ।
पात्राणि तु दहेद् अग्नौ यजमाने वृथाहते ॥
आत्मनस् त्यागिनां नास्ति पतितानां तथा क्रिया ।
तेषाम् अपि तथा गङ्गातोये संस्थापनं मतम् ॥ इति ।

वह्निपुराणे ।

पाषण्डपतितानां च चण्डालाद्यैर् हतस्य च ।
शृङ्गिदंष्ट्र्यग्निसर्पाद्यैर् मृतानां बुद्धिपूर्वकम् ॥
न कुर्याद् दहनाशौचं कृतं चेन् नोपतिष्ठति ।
तेषां शरीरं गङ्गायां महानद्यां विनिक्षिपेत् ॥
प्रेताग्नीन् अप्सु निक्षिप्य गृहाग्निं च चतुष्पथे ।
दहेत् तु यज्ञपात्राणि सवानां स्पर्शने सति ॥
स्नानालंकारवस्त्रार्थरज्जुच्छेदाश्रुपातने ।
महासान्तपनाच् छुद्धिर् ज्ञानात् तप्तं विशोधनम् ॥
मत्याभ्यादे तु चान्द्रं च पराकं पादकृच्छ्रकम् ।
एतेष्व् एकैककरणे पादकृच्छ्रं विशोधनम् ।
अज्ञानाद् उपवासः स्यात् सचेलं स्नानम् एव च ॥ इति ।

तस्मात् सर्वेषाम् आत्मघातकादीनाम् अविशेषेण दाहोदकपिण्डश्राद्धनिषेधो यावत्संवत्सरम् । पूर्णे संवत्सरे पुत्रादिः प्रेतस्य श्रद्धदिकं कुर्यात् । तथा चाह ।

विषोद्बन्धनशस्त्राद्यैर् आत्मनस् त्यागिनाम् अपि ।
विधिं विनैवानशनतोयाग्निपतनैर् अपि ।
ऊर्ध्वं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदैहिकम् ॥ इति ।

संवत्सराद् ऊर्ध्वम् अपि नारायणबलिं कृत्वा कुर्यात् । तथा च व्यासः ।

ये मृताः पापमार्गेण तेषां संवत्सरात् परम् ।
नारायणबलिं कृत्वा कुर्याद् ऊर्ध्वक्रियां द्विजः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् उदकदानानर्हनिरूपणम्