२३ आशौचं प्रति कालनिर्णयः

अथ आशौचं प्रति कालनिर्णयविषयाणि

अथ दिनाद्याशौचं प्रति कालनिर्णयः पारस्करेणाभिहितः ।

दिवा यदि रजन्यां वा जननं मरणं तथा ।
तद्दिनादिकम् आशौचं रजनी त्रिदिनं स्मृतम् ॥
जाते चैव मृते चैव दशरात्रं विशोधनम् ।
भूतेर् द्वादशाहोभिः विशः पञ्चदश स्मृताः ॥
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ।
निशां भागत्रयं कुर्याद् द्वौ भागौ पूर्ववासरः ।
शेषः परदिनं ग्राह्यं जाते पाके मृते समम् ॥

पाके स्थालीपाके ।

अर्धरात्राद् अधःस्रावे जनने मरणे ऽपि वा ।
पूर्वम् एव दिनं ग्राह्यम् इत्य् आह भगवान् यमः ॥
ओदयाद् उदयं यावद् दिनम् इत्य् अभिधीयते ।
तद्दिनादिकम् आशौचम् इति वेदविदो विदुः ॥
रजोदृष्टिस् तु रात्रौ चेद् विभज्य त्रिविधां निशाम् ।
पूर्वभागद्वये पूर्वम् ऊर्ध्वं चेद् उत्तरे ऽहनि ॥
जनने मरणे ऽप्य् एवं प्राप्ते स्व्रावे तथैव च ।
अर्धरात्राद् अधस्ताच् चेत् सूतके मृतके तथा ॥
पूर्वम् एव दिनं ग्राह्यम् ऊर्ध्वं चेद् उत्तरे ऽहनि ।
रात्राव् एव समुत्पन्ने मृते रजसि सूतके ।
पूर्वम् एव दिनं ग्रह्यं यावन् नाभ्युदितो रविः ॥
रात्रिं कुर्यात् त्रिभागां तु द्वौ भागौ पूर्ववासरः ।
उत्तरांशः परदिनं जातेषु च मृतेषु च ॥ इति ।

काश्यपः ।

अर्धरात्राद् अधस्ताच् चेन् मृतिः प्रसव एव वा ।
पूर्वम् एव दिनं ग्राह्यम् ऊर्ध्वं चेद् उत्तरे ऽहनि ॥ इति ।

वसिष्ठः ।

उदिते तु यदा सूर्ये नारीणां दृश्यते रजः ।
जननं वा विपत्तिर् वा यस्याहस् तस्य शर्वरी ॥ इति ।

रात्रौ रजःस्रावे जनने मरणे वा सति रात्रिं त्रिधा (?) विभज्य पूर्वभागद्वये तत् पूर्वम् एव दिनम् इत्य् एकः पक्षः । अर्धरात्राद् अधस्ताच् चेत् पूर्वम् एव दिनम् इत्य् अन्यः पक्षः । सूर्योदयात् पूर्वं चेत् पूर्वम् एव दिनम् इत्य् अपरः पक्षः । स्मृतीनां समबलत्वाद् देशाचारतो ऽत्र व्यवस्था ॥

इति स्मृतिचन्द्रिकायाम् आशौचं प्रति कालनिर्णयविषयाणि