२२ मरणविधिवैशिष्ट्यनिरूपणम्

अथ मरणविधिवैशिष्ट्यनिरूपणम्

मरणविधिवैशिष्ट्यम् उक्तं महाभारते ।

स्याद् उत्तरायणे यस्य मृतिस् तस्योत्तमा गतिः ।
शुक्लपक्षे च मध्याह्ने कृष्णे ऽप्य् एकादशीदिने ॥ इति ।

मार्कण्डेयो ऽपि ।

उत्तरायणगे सूर्ये उत्तमा गतिर् उच्यते ।
शुक्लपक्षे मृतिस् तत्र श्रेष्ठा चाह्नि मृतिः शुभा ॥
श्रेष्ठा तत्रापि मध्याह्ने उभ्योर् अपि पक्षयोः ।
एकादश्यां मृतिः श्रेष्ठा मोक्षदा सर्वकामदा ॥
यदि भद्रान्वितान्यापि भानुभौमशनैश्चरैः ।
त्रिपादर्क्षैस् च संयोगे स त्रियोगस् त्रिपुष्करम् ॥
तत् त्रिपुष्करयोगे तु मृतिर् मृत्यन्तरावहा ॥ इति ।

गर्गः ।

कुजार्कार्कियुता भद्रद्वित्रिपादर्क्षसंयुता ।
त्रिपुष्करं भवेत् तेषां यद् द्वाभ्यां तद् द्विपुष्करम् ॥
द्वादश्य् अर्कसमायुक्ता विशाखैकादशीन्दुना ।
कुजद्वादशके चैव द्वितीया भृगुरोहिणी ॥
तृतीया बुधमूलेन गुरुषष्ठी शतोडुना ।
अषाढशनिसप्तम्यां सप्तयोगास् त्रिपुष्कराः ॥
यस्मिंश् च पुष्करे योगे धनिष्ठर्क्षादिपञ्चसु ।
ज्येष्ठा त्रिपुष्करे योगे दोषभाग् दहने मृतौ ॥
तद्दोषपरिहाराय स्वर्णदानं समाचरेत् ।
शवस्य हृदयं स्पृष्ट्वा ततो दहनपार्श्वतः ॥
हुत्वा तेषु मेखेष्व् आज्यं हिरण्यशकलं क्षिपेत् ।
यदि न क्रियते शान्तिस् तत्फलेनाशु नश्यति ॥ इति ।

ज्योतिःपराशरः ।

भद्रे त्रिपादनक्षत्रे भृग्वङ्गारबृहस्पतौ ।
मरणे दहने चैव तत्कर्म त्रिगुणं भवेत् ॥
भद्रे तु भूमिदानं स्यात् त्रिपदर्क्षे हिरण्यकम् ।
वारे वाराधिदैवत्यं वस्त्रदानं प्रशस्यते ॥ इति ।

इति स्मृतिचन्द्रिकायां मरणविधिवैशिष्ट्यनिरूपणम्