१९ अस्थिसंचयनम्

अथास्थिसंचयनम्

तत्र संवर्तः ।

प्रथमे ऽह्नि तृतीये वा सप्तमे नवमे ऽपि वा ।
अस्थिसंचयनं कार्यं दिवा तद्गोत्रजैः सह ॥ इति ।

पारस्करो ऽपि ।

प्रथमे ऽह्नि तृतीये वा पञ्चमे सप्तमे तथा ।
अस्थिसंचयनं कार्यं ज्ञातिभिः सह बान्धवैः ॥ इति ।

विष्णुः - “चतुर्थे ह्य् अस्थिसंचयनं कुर्यात् तेषां गङ्गाम्भसि प्रक्षेपः” इति । कात्यायनः ।

अपरेद्युः तृतीये वा पञ्चमे सप्तमे ऽपि वा ।
नवमे दशमे वापि ह्य् अस्थिसंचयनं भवेत् ॥
यस् तत्र विधिर् आदिष्टः ऋषिभिः सो ऽधुनोच्यते ।
स्नानान्तं पूर्ववत् कृत्वा गव्येन पयसा ततः ।
सिञ्चेद् अस्थीनि सर्वाणि प्राचीनावीत्य् अभाषयन् ॥
शमीपलाशशाखाभ्याम् उद्धृत्यास्थीनि भस्मतः ।
आज्येनाभ्यज्य गव्येन सेचयेद् गन्धवारिणा ॥
मृत्पात्रसंपुटे कृत्वा सूत्रेण परिवेष्ट्य च ।
श्वभ्रं खात्वा (?) शुचौ भूमौ निखनेद् दक्षिणामुखः ॥
पूरयित्वावटं पङ्कपिण्डशैवालसंयुतम् ।
दत्वोपरि समं शेषं कुर्यात् पूर्वाह्णकर्मणा ॥
एष एव गृहीताग्नेः प्रेतस्य विधिर् उच्यते ।
अस्थिसंचयनं यागो देवतानां प्रकीर्तितः ॥
प्रेतीभूतं तथोद्दिश्य यः शुचिर् न करोति चेत् ।
देवतानां तु यजनं तं शपन्त्य् अथ देवताः ॥
पूर्वं दग्धाः श्मशानेषु देवताः परिकीर्तिताः ।
तूष्णीं प्रसेकं पुष्पं च घूपं दीपं तथैव च ।
अञ्जनाभ्यञ्जने चैव पानीयम् अनुलेपनम् ॥ इति ।

अस्थिसंचयने वारनक्षत्रतिथिविशेषो यमेनोक्तः ।

भौमार्कमन्दवारेषु तिथियुग्मेषु चैव हि ।
वर्जेयेद् एकपादर्क्षे त्रिपादर्क्षे ऽस्थिसंचयम् ॥
प्रदातृजन्मनक्षत्रे त्रिपादर्क्षे विशेषतः ॥ इति ।

ब्रह्मपुराणे ।

अनाहिताग्नेर् मरणाद् आहिताग्नेस् तु दाहतः ।
अस्थिसंचयनं कार्यं स्वशाखोक्तविधानतः ॥
विभज्य च त्रिधाशौचं पूर्वभागे तु कारयेत् ।
मध्यमो मध्यभागः स्यात् तृतीयस् त्व् अधमः स्मृतः ।
अपराह्णं च रात्रिं च वर्जयेत् सर्वधा (?) द्विजः ॥
चन्द्रज्ञवारौ शुभदौ मध्यमौ शुक्रसूर्यजौ ।
शेषास् त्व् अशुभदा वारा द्विपदानि तु मध्यमाः ॥
त्रिपदर्क्षाणि वर्ज्यानि भद्रयोगा तिथिस् तथा ।
गच्छेद् वृद्धं पुरस्कृत्य श्मशाने दक्षिणामुखः ॥
क्षीरमिश्रोदकैः प्रोक्ष्य शाखया हि शमीजया ।
अङ्गुष्ठोपकनिष्ठाभ्यां पादानां मस्तकावधि ॥
अस्थीन्य् आदाय कुम्भे वा स्थाप्य गर्ते विनिक्षिपेत् ।
अस्थ्नां कृत्वा तु संशुद्धिं केशवाद्यैश् च नामभिः ॥
प्रक्षाल्य पञ्चगव्येन पुष्पाद्यैः संप्रपूजयेत् ॥
द्विजानुज्ञाम् अवाप्यैव गङ्गायां सुसमाहितः ।
उच्चरेद् गोत्रनामानि संकल्पं च यथाविधि ॥
अधमर्षणसूक्तेन धर्मायैव नओ ऽस्त्व् इति ।
विसर्जयेज् जले ऽस्थीनि यावद् अस्थीनि तज् जपेत् ॥
यावद् अस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति ।
तावद् वर्षसहस्राणि स्वर्गलोके महीयते ॥
अजिनाविकसूत्रैश् च क्षौमकौशेयपट्टकैः ।
कुशरज्ज्वा दृढं बद्ध्वा पूर्वोक्तविधिना क्षिपेत् ॥ इति ।

मत्स्यपुराणे ।

साङ्गसंस्कारम् आरभ्य दाहाद् गृह्यान्तस्य तु ।
प्रथमे ऽह्नि द्वितीये वा तृतीये व चतुर्थके ॥
पञ्चमे सप्तमे वापि नवमे वा शुभे दिने ।
ज्योतिर्विदोक्तसमये स्वशाखाओक्तविधानतः ॥
अस्थिसंचयनं कृत्वा तथा तद्भस्मवेदिकाम् ।
यवगोधूमपिष्टैर् वा शालिपिष्टैर् मृदापि वा ॥
चित्रवर्णैस् तु कुर्वीत पूजयेत् तु शिलात्रयम् ।
तत्सखिभ्यो ऽपरः पिण्ड(?)क्रमाद् अप्य् उदकाञ्जलीन् ॥
दत्वास्थीनि च गङ्गायां पर्क्षिपेत् भुवि वा क्षिपेत् ।
तीर्थान्तरे शुद्धदेशे कुरुक्षेत्रे विसर्जयेत् ॥ इति ।

**इति स्मृतिचन्द्रिकायाम् अस्थिसंचयनम् **