१८ आतुराश्वासनादिनिरूपणम्

अथ आतुराश्वासनादिनिरूपणम्

एवम् उदकदानानन्तरं बान्धवैर् आश्वासनं कार्यम् इत्य् आह याज्ञवल्क्यः ।

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् ।
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ इति ।

कात्यायनो ऽपि ।

एवं कृतोदकान् सम्यक् सर्वान् शाद्वलसंस्थितान् ।
आप्लुत्य पुनर् आचान्तान् वेदयुस् ते ऽनुयायिनः ॥
मा शोकं कुरुतानित्ये सर्वस्मिन् प्राणिधर्मिणि ।
दर्मं कुरुत यत्नेन यो वः सह गमिष्यति ॥
मानुष्ये कदलीस्तम्बनिःसारे सारमार्गणम् ।
यः करोति स संमूढो जलबुद्बुदसंनिभे ॥
पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्वशरीरोत्थैः का तत्र परिवेदना ॥

अयम् अर्थः - जन्मान्तरात्मीयशरीरजनितैः कर्मभिः स्वैः स्वफलोपभोगार्थं पृथिव्यादिपञ्चमहाभूतात्मतया पञ्चप्रकारः संभृतो निर्मितः कायः यदि फलबोगनिवृत्तौ पञ्चत्वम् आपन्नः पृथिव्यादिरूपतां प्राप्तः तत्र भवतां किम् अर्थं परिवेदना, निष्प्रयोजनत्वान् न कार्या । किं च ।

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥

उचितम् एव शरीराणां मरणम् अतः शोको निष्प्रयोजन इत्य् अर्थः । रोदने दोषम् आह स एव ।

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः प्रयत्नतः ॥ इति ।

बान्धवादीनाम् अन्येषां रोदने दोषम् आह पारस्करः ।

अस्थिसंचयनास् अर्वाग् रुदित्वा स्नानम् आचरेत् ।
अन्तर्दशाहे विप्रस्य ऊर्ध्वम् आचमनं स्मृतम् ॥

विप्रस्य मृतस्य दशाहाभ्यन्तरे ऽस्थिसंचयनाद् अर्वाग् ब्राह्मणक्षत्रियादी रुदित्वा स्नानम् आचरेत् ।

मृतस्य यावद् अस्थीनि ब्राह्मणस्य हृतानि तु ।
तावद् यो बान्धवस् तत्र रौति तद्बान्धवैः सह ॥
तस्य स्नानाद् भवेञ् छुद्धिः ततस् त्व् आचमनं स्मृतम् ।
सचेलस्नानम् अन्येषाम् कृते त्व् अस्थिसंचये ।
कृते तु केवलं स्नानं क्षत्रविट्छूद्रजन्मनाम् ॥

ब्राह्मणस्य क्षत्रियवैश्यशूद्रमरणविषये रोदने अस्थिसंचयनाद् अर्वाग् एकाहम् आशौचं सचेलस्नानं च । अत ऊर्ध्वं स्नानमात्रम् । तथाह पारस्करः ।

अस्थिसंचयने विप्रो रौति क्षत्रियवैश्ययोः ।
तदा स्नातः सचेलस् तु द्वितीये ऽहनि शुद्ध्यति ॥
कृते तु संचये विप्रः स्नानेनैव शुचिर् भवेत् ॥

ब्रह्मपुराणे ऽपि ।

अस्थिसंचयनाद् अर्वाग् यदि विप्रो ऽश्रु पातयेत् ।
मृते शूद्रे गृहं गत्वा त्रिरात्रम् अशुचिर् भवेत् ॥
अस्थिसंचयनाद् ऊर्ध्वं मासि यावद् द्विजातयः ।
अहोरात्रेण शुद्ध्यन्ति वासःप्रक्षालनेन च ॥
अज्ञाते दिवसेनैव द्व्यहात् क्षत्रियवैश्ययोः ।
स्पृशन् विनानुगमनं शूद्रो नक्तेन शुध्यति ॥
एतत् सर्वं सपिण्डानां विहितत्वाद् यथाविधि ।
विहितं तु सपिण्डस्य प्रेतनिर्हरणादिकम् ॥
दोषः स्याद् असपिण्डस्य तत्रानाथ्क्रियां विना ।
सपिण्डानाम् अदोषः स्याद् आ श्मशानात् तु रोदने ॥
ऊर्ध्वं प्रेतस्य दोषो ऽस्ति त्रिरात्रेणैव् बान्धवाः ॥ इति ।

शवानुगमने दोषम् आह याज्ञवल्क्यः ।

ब्राह्मणेनानुगन्तव्यो न शूद्रो न क्वचिद् द्विजः ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् छुचिः ॥ इति ।

तदा घृतप्राशनस्य भोजनकार्यविधानेन प्रमाणाभावान् न भोजनप्रतिषेधः । उक्तं ब्रह्मपुराणे ।

सवर्णम् उत्तमं वापि प्रेतस्नेहादिना यदि ।
कृते ऽनुगमने स्नात्वा स्पृष्ट्वाग्निं घृतबुक् छुचिः ॥
विप्रस् तु क्षत्रियं प्रेतम् अनुगम्य तु बन्धुवत् ।
ततः स्नात्वानलं स्पृष्ट्वा घृतं प्राश्य दिनं क्षपेत् ॥
वैश्यानुगमनं कृत्वा पक्षिण्याशौचम् आचरेत् ।
शूद्रानुगमनं कृत्वा त्रिरात्रेण विशुध्यति ॥ इति ।

विप्रः शूद्रानुगमने त्रिरात्रम् आशौचं कृत्वा समुद्रगायां नद्यां स्नात्वा प्राणायामशतं कृत्वा घृतं प्राश्य सुध्येत् । क्षत्रियवैश्यानुगमने त्व् एकाहम् आशौचम्, क्षत्रियस्य शूद्रानुगमने पक्षिणी, वैश्यस्य शूद्रानुगमने त्व् एकाहं रोदने चैवम् इति ॥

इति स्म्र्तिचन्द्रिकायाम् आतुराश्वासनादिनिरूपणम्